________________
10
सञ्चयस्याकारकत्वम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
७५ चक्षुरादिविज्ञानस्य नीलपीतादेः स्वार्थाभिमतादालम्बनभूताद्धेतो येत , संचयाख्यात् संवृतिसतो न परमार्थसतोऽण्वादेरपि स्यात् । वैधर्येण दाहानुभवनवत् स्वार्थमात्रालम्बनं वा स्यात् प्रत्यक्षत्वादाहानुभवनवत्, यथोक्तं "अन्यथा दाहसम्बन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥” इति (वाक्यपदीये कां० २ श्लो० ४२५) अव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्येति तस्यैवोपचयहेतुः, अर्थान्तरेणाव्यवहितस्यार्थस्य ग्राहकं प्रत्यक्षं दृष्टं यथा दाहानुभवः । तथा तस्य स्खलक्षणविषयत्वात्-प्रत्यक्षस्यार्थान्तरनिरपेक्षता स्यान्न पुनरस्तीति, स्वलक्षणविषयत्वादनध्यारोपत्वादिति यावत् , सर्वत्रार्थान्तराध्यारोपवृत्त्यर्थान्तरादुपचयोत्पन्नं न ज्ञानमिति, यावदुक्तं भवति स्वलक्षणविषयत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षत्वादित्यादि । अर्थान्तरनिमित्तग्राह्यश्चाप्रत्यक्षं दृष्टम् , यथा दाहशब्दजनितज्ञानमिति, एवं तावत्कारकतां संचयस्याभ्युपगम्य दोष आपादितः।
इदानीं कारकतामपि दूषयितुकाम आहकारकतापि सञ्चयस्य नैवास्ति परमार्थतोऽसत्त्वात् , अलातचक्रवत् ।
(कारकतापीति) कारकतापि सञ्चयस्य नैवास्तीति प्रतिज्ञा, परमार्थतोऽसत्त्वादिति हेतुः, अलातचक्रवदिति दृष्टान्तः परमार्थतोऽसत्त्वं संवृतिसत्त्वाद्भवन्मतेन घटवत् , यथोक्तम् “भेदे यदि न तद्बुद्धिरन्यापोहधियाऽपि च । घटाम्बुवत्संवृतिसत्तदन्यत् परमार्थसत्" (अभिधर्मकोशे अ०६ का० ४) इति यथोल्मुकं भ्रमद्धान्तदृष्टेश्चक्रवदाभाति न तच्चक्रमस्ति, अग्निकणानां नैरन्तर्याभावात् , 15 चक्रस्य परमार्थतोऽसत्त्वाच्चक्रविज्ञानस्याकारकता, एवं सञ्चयस्य संवृतिसत्त्वान्नीलविज्ञानस्याकारकता, तथाऽतीन्द्रियत्वादणुनीलानाम् ।
. इतश्च सञ्चयस्याकारकता प्रत्यवयवव्यवस्थानमात्रत्वात् ।। . (इतश्चेति) अवयवमवयवं प्रति प्रत्यवयवं, अवयवा नीलादिपरमाणवः, तेषामेव संहत्यैकत्र परस्परासत्त्या व्यवस्थानमात्रं सञ्चयो न तेभ्योऽर्थान्तरमिष्टं भवताम् , अतः परमार्थतो नास्येवासौ 20 सञ्चयः, तदेवं सञ्चयस्यासतः खरविषाणस्येव न कारकता।
अभ्युपेत्यापि सञ्चयस्य सत्त्वं दोषं ब्रूमः... लोकवत्तु सञ्चयसत्त्वे व्यपदेशोऽस्त्येवेति गृह्यताम् , ततश्चाव्यपदेश्यो विषयः प्रत्यस्यादेवञ्च धूमावह्निज्ञानवदप्रत्यक्षत्वं दुरुद्धरमिति भावः । यदि तु नीलादिविज्ञानस्य चाक्षुषस्य प्रत्यक्षत्वमभ्युपगम्यते तर्हि दाहजन्यदाहानुभववत् केवलं खार्थ एव परमार्थसन् परमाणुरालम्बनं स्यादित्याह-वैधयेणेति । तथा च नीलादीन्द्रि-25 यविज्ञानं खार्थमात्रालम्बनम् , प्रत्यक्षत्वात् अव्यवहितप्रतिपत्त्यात्मकत्वात् स्खलक्षणविषयत्वाद्वा दाहानुभववदिति प्रयोगः । खार्थमात्रेत्यत्र मात्रपदेन व्यवधानस्य सञ्चयस्य व्युदासः । उपचयहेतः पोषकहेतुरित्यर्थः सञ्चयलक्षणार्थान्तरग्राह्यत्वे तस्याभ्युपगम्यमाने त्वाह-अर्थान्तरेति । अलातेति, उभयवाद्यनुसारेण दृष्टान्तोऽयम् , असिद्धिं निरस्यति परमार्थत इति । बौद्धमतेन दृष्टान्तमाह-भवन्मतेनेति । घटभेदे घटबुद्धिनिरुध्यते, बुद्ध्या जले रूपादिकं यद्यपनोद्यते तदा जलबुद्धिरपि निरुध्यते, एवं घटादिनाशेऽपि सञ्चयतो यो व्यवहारः सः संघतिसन् , अतोऽन्यः परमार्थसजित्यभिप्रायिकां कारि-30 कामाह-भेद इति । दृष्टान्तं व्यावर्णयति यथेति चक्रविज्ञानं प्रति परमार्थतोऽसतश्चक्रस्य यथा न कारकत्वं तथा सञ्चय. स्थापि, परमार्थसन्तो नालाणवोऽतीन्द्रियत्वान्न कारकभूता इति भावः। परमाणूनामन्योऽन्यसम्बन्धेन स्थितिरेव सञ्चयः, सच न परमाणुभ्यो व्यतिरिकः कश्चिदतोऽसन्नित्यकारकः सञ्चयः इत्याह-इतश्चेति । सञ्चयस्य सत्त्वे कारकत्वे च तेन । व्यपदिश्यत एव तज्ज्ञानमिति तस्याव्यपदेश्यत्वाभिधानमनर्थकमित्याह-लोकवदिति । तुशब्दोऽसत्पक्षविपरीतपक्ष
M
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org