________________
७४ द्वादशारनयचक्रम्
[विध्यरे गम्यते तस्यपदेश्यम् , अर्थान्तरस्य हेत्वपदेशनिमित्तादिपर्यायत्वात् , तथापि च यतः सञ्चयग्रहणापदेशेन निमित्तान्तरजनितमिन्द्रियज्ञानमिष्टं तस्मात्तद्व्यपदेश्यं तत् , तथा चोक्तं "सञ्चितालम्बनाः पञ्च विज्ञानकाया" इति, न सञ्चयालम्बना इति, एतस्यार्थनिदर्शनार्थमुदाहरणमाह-धूमेनाग्निरिव, यथा धूमेनार्थान्तरभूतेनाग्निरत्रेति ज्ञानमुत्पद्यमानं व्यपदेश्यं दृष्टं तथैतदपि नीलरूपादि विषयं चक्षुरादिवि5 शानं परमाणुभिरर्थान्तरैर्जनितत्वाव्यपदेश्यम् ततोऽन्यदित्यादि-यत एव व्यपदेश्यं धूमादग्निरिव सन्नीलरूपं ततः परमाणुभ्यः परमार्थसङ्ग्योऽन्यत् कल्पितमकल्पितेभ्य एक बहुभ्यः सामान्यं विशेषेभ्यः, न साक्षादिन्द्रियैरव्यवहितं गृह्यते, किं तर्हि ? व्यवहितमेवार्थान्तरैः परमाणुभिस्तद्वारेण परमाणुद्वारेण गृह्यते न स्वत एवेति ।
अत्राह10 ननु च सञ्चयस्य कारकहेतुत्वेनापदेशः प्रत्यक्षप्रतिपत्तेः, न धूमवज्ञापकहेत्वपदेशतयाऽग्नेरिवार्थान्तरस्यैकरूपत्वस्य ।
ननु च सश्चयस्येत्यादि यावदर्थान्तरस्यैकरूपत्वस्येति, नन्वित्यनुज्ञापने, चशब्दः प्रसिद्धभेदसमुच्चये, नन्विदं प्रसिद्धमन्यः कारको हेतुरन्यो ज्ञापक इति, तस्मादणूनां तत्सञ्चयस्य नीलस्य च कारकसम्बन्धात् धूमस्याग्नेश्च ज्ञापकसम्बन्धात् प्रत्यक्षानुमानप्रतिपत्त्योरर्थ एव गम्यः, अतः साध्यधर्म15 वैकल्यं दृष्टान्तस्य, इष्टविघाताद्विरुद्धता हेतोरिति वाक्यार्थः, अक्षराण्युत्तानार्थान्येवेति न विवृण्महे ।
आचार्यों दोषद्वयं परिहरन्नाह
नन्विदमस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिर्यदीदं प्रत्यक्षं स्यात् कारकादेव, सञ्चयाख्यात् संवृतिसतो न स्यात्, भवति तु तस्मान्न प्रत्यक्षं ज्ञापकधूमाद्यपेक्षाग्निज्ञानवत् , , वैधhण दाहानुभवनवत् , प्रत्यक्षत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य, तथा तस्य 20 स्वलक्षणविषयत्वादनध्यारोपात्मकत्वादिति यावत् ।
- (नन्विति) नन्विदमस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिः, नैतदनिष्टमस्माकं न वा साध्यधर्मवैकल्यम्, यत्सञ्चयस्य ज्ञापकत्वप्रसङ्गात्प्रत्यक्षप्रतिपत्तेस्तद्दोषद्वयमस्मान्प्रत्यापायेत न पुनरेवमेतत् , अस्यैव प्रतिपिपादयिषितत्वात् , तदुच्यते, यदि भवन्मतमिदं प्रत्यक्षं स्यात्कारकादेव-निष्पादकादेव
• प्रतिपत्तिः कल्पितेनैकेन सामान्येनार्थान्तरभूतेन सञ्चयेन, तस्मादर्थान्तरशब्दस्य हेतुपर्यायत्वेन हेत्वपदेशव्यपदेश्यैव सा प्रति25 पत्तिर्न त्वव्यपदेश्येति भावः। न सञ्चयालम्बना इति, परमाणूनां कल्पितः सञ्चयो न विज्ञानविषयः किन्तु सञ्चयद्वारेण
परमाणव एवालम्बना इत्यर्थः तथा च प्रयोगः चक्षुरादि विज्ञानं व्यपदेश्य अर्थान्तरेण सञ्चयेन अधिगम्यत्वात् धूमेनाग्निग्रहणवदिति, प्रत्यक्षस्य हि सञ्चयो नीलादिर्वा कारकहेतुरुच्यते, वहिज्ञानस्य तु धूमः ज्ञापकहेतुरुच्यते, द्वयोरपि प्रतिपत्त्योरर्थ एव
गम्यो भवति तत्रान्तरेणाधिगम्यमानत्वादिति हेतावान्तरपदेन ज्ञापकहेतुर्यदि गृह्यते तर्हि तजन्यप्रतिपत्तिन तेन व्यपदि। श्यते वयादिज्ञानवदिति प्रत्यक्षज्ञानस्य नीलादिव्यपदेश्यत्वेनेष्ट स्यासिद्ध्या विरुद्धता, पक्षे च तथाविधसाधनाभावोऽपि, यदि 30 च कारकहेतुरर्थान्तरपदेन गृह्यते तर्हि तज्जन्य विज्ञानस्य तेनैव व्यपदेश्यतया दृष्टान्ते तद्व्यपदेशत्वाभावेन साध्यधर्मविकलता
तस्य, अत्रापि दृष्टान्त हेत्वभावो बोध्य इति भावार्थ मत्वाऽऽह-ननु चेति। पूर्वोक्तं दोषद्वयं तवैव न ममेत्याह-नन्विति । अस्यैवार्थस्य-इष्टविघातसाध्यधर्मवैकल्यलक्षणार्थस्य । कारकादेवेति, एवशब्देन ज्ञापकताव्यवच्छेदः, तहीति शेषः । संवृतिसतः-सञ्चयात्, एक्श्च कारकत्वं परमार्थसत एव भवति, सश्चयस्तु न परमार्थसन्निति कथं तस्य कारकत्वमिति ज्ञापकत्वमेव
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org |