________________
७३
व्यपदेश्यत्वम् ] न्यायागमानुसारिणीव्याख्यासमेतम् अतोऽतीन्द्रियत्वाद्यालम्बनत्वानुपपत्तिः, अतश्वालम्बनत्वानुपपत्तेर्द्रव्यस्य सतां परमाणूनामेतत्प्रतिपत्तव्यं चक्षुरादिविज्ञानानां रूपादिपरमाणुसंघात एवालम्बनमिति, आदिग्रहणाद्रसादिपरिमण्डलादिपरमाणुसंघात एवालम्बनम् । ततः किमिति चेत् ततः प्रत्येकमालम्बनपरमाणूनाम्-आलम्बनार्थाः परमाणवः आलम्बनपरमाणः तेषां परमार्थसतामेषां त एव हि परमार्थसन्तो न समूहो नीलादिर्घटादिश्च संवृतिसत्त्वादिति भवसिद्धान्तेनैवाविषयता परमाणूनाम् ।।
तत्र प्रतिविविक्तरूपान्तराविविक्तस्वतत्त्वे रूपसङ्घाते इन्द्रियसन्निकृष्टे आलम्बनविपरीता प्रतिपत्तिरव्यपदेश्यैकात्मकनीलरूपविषयाऽभिमता।
(तत्रेति) तत्र प्रतिविविक्तरूपान्तराविविक्तस्वतत्त्वे-प्रत्येकं विविक्तानि रूपान्तराणि प्रतिपरमाणुभेदेन रसादिभेदेन वा तेषामेव रूपान्तराणामविविक्तं स्वतत्त्वं यस्य सोऽयं प्रतिविविक्तरूपान्तराविवितस्वतस्वः, कोऽसौ ? रूपसङ्घातः रूपधातुभेदपरमाणुसंघातः, अधिकृतचक्षुर्विषयाभिमतरूपसंघातो 10 वा, तस्मिन् रूपसंघाते इन्द्रियसनिकृष्टे स्वविषयाभिमुख्येनोपस्थिते आलम्बनविपरीता-परमार्थत आलम्बनभूतेभ्यः परमाणुभ्यो नीलमिति वा घट इति वा येयं प्रतिपत्तिः सा विपरीता, तद्ग्रहे तद्बुद्ध्यभावात् , बलाकासु पतिज्ञानवत् अव्यपदेश्यैकात्मकनीलरूपविषया व्यपदेश्यानेकपरमाण्वालम्बनेभ्योऽन्योऽव्यपदेश्य एक आत्माऽस्येत्यव्यपदेश्यैकात्मकम् , किं तत् ? नीलरूपं तद्विषयोऽस्या इत्यव्यपदेश्यैकात्मकनीलरूपविषयाऽभिमता प्रतिपत्तिरिति वर्तते, सैव वा प्रतिपत्तिरव्यपदेश्या एकात्मका, अनेकपरमा-15 णुनीलरूपविपरीतैकनीलरूपविषया।
तद्व्याख्यानार्थ भवतामभिधर्मपिटके यथोच्यते नीलं विजानाति नो तु नीलमिति। ननु हेत्वपदेशव्यपदेश्यैव सा, नच शब्दाभिधेयमेव व्यपदेश्यम् , किं तर्हि ? यदर्थान्तरेणाधिगम्यते तद्व्यपदेश्यम् , तथा चोक्तं सञ्चितालम्बनाः पञ्चविज्ञानकाया इति न संचयालम्बना इति, धूमेनाग्निरिवैतदपि चक्षुरादिविज्ञानं व्यपदेश्यं ततोऽन्यत् परमाणुभ्यः परमार्थसझ्यः 20 कल्पितमेकं सामान्यं न साक्षादिन्द्रियैर्गृह्यते, व्यवहितमेवार्थान्तरैस्तद्वारेण गृह्यते। .
(तद्वयाख्यानार्थमिति) नाव्यपदेश्या सा प्रतिपत्तिरित्यभिप्रायः, तां दर्शयति-ननु हेत्व. पदेशव्यपदेश्यैव सा यस्मादुक्तं "हेतुरपदेशो निमित्तं लिङ्गं प्रमाणं कारणमित्यनन्तरम्" इति (वैशे० अ० ९ आ० २ सू० ४) न चावश्यं शब्दाभिधेयमेव व्यपदेश्यम्, किन्तर्हि ? यदर्थान्तरेणाधिरूपधातुमेदपरमाणुसंघात इति, धारणाद्धातुः, स चाष्टादशविधः षट् चक्षुरादीन्द्रियाणि, षट् चक्षुर्विज्ञानादीनि, 25 षड् रूपादयो विषयाः, तत्र गंधरसघ्राणजिह्वाविज्ञानव्यतिरिकाश्चतुर्दश धातवो रूपधातव उच्यन्ते अथवैक एव धातू रूपसंज्ञकश्चक्षुर्विज्ञानविषयभूतो प्राह्य इत्याहाधिकृतेति । अनेके हि रूपपरमाणवश्चक्षुर्विज्ञानस्यालम्बनानि, न त्वेकः अतीन्द्रियत्वात् प्रतिपत्तिस्तु नीलमिति वा घट इति वा एकात्मकवस्तुविषया भवतीत्यालम्बनविपरीतता प्रतिपत्तेरिति भावः । अव्यपदेश्येति, व्यपदिश्यत इति व्यपदेश्यं शब्दाश्रयतामापन्नं नीलादिकमुच्यते, इन्द्रियार्थसन्निकर्षादुत्पन्नेन विज्ञानेन यद्विषयनामधेयेन व्यपदिश्यते रूपमिदं रसोऽयमिति, तद्यपदेश्यमतथाभूतञ्चाव्यपदेश्यम् , तथैकखरूपं नीलायेव तत्प्रतिप- 30 त्तेविषयत्वेनाभिमतमित्यर्थः । सम्प्रति विज्ञानमेवाव्यपदेश्यैकात्मकत्वेन विशेषयति सैव वेति । नाव्यपवेश्येति. किन्तु व्यपदेश्यैवेत्यर्थः । सा प्रतिपत्तिः शब्दाव्यपदेश्यापि प्रकारान्तरेण तस्या व्यपदेश्यत्वमाविष्करोति, नन्विति । हेतुरित्यादि, अपदिश्यते कथ्यतेऽनेनार्थ इत्यपदेशः शब्दः स च हेतुलिङ्गादिपर्यायः इति सूत्रार्थः । तथा च या शब्देनैव व्यपदिश्यते सैव व्यपदेश्येति न नियमः किन्तु हेत्वादिभिरपि याधिगम्यते सापि, अधिगम्यते हि नीलादिचाक्षुष
द्वा० न०१.
___Jain Education International 2010-04
For Private & Personal Use Only
www.jainelibrary.org