________________
सत्साध्यभङ्गः ]
२४१
किं कारणं ? साधनाविष्टक्रियासाध्यत्वात्साध्यानाम्, साधनाविष्टायाः क्रियायास्तत्रावेशाभावः, तत्साधनानां साधनशक्तिशून्यत्वात् तस्माद्वन्ध्यापुत्रादीनामसाध्यत्वं स्त्रीपुंसंयोगक्रिययाऽप्यसाध्यत्वेन नियतत्वात् । साध्यार्थाभावे च साधनानां साधनत्वाभाव इति तद्दर्शयति- क्रिया हीत्यादि, हिशब्दो यस्मादर्थे, यस्मात् क्रियासाधनेषु काष्ठादिषु वर्त्तमाना सन्तमर्थं साध्यं विक्लेद्यतन्दुलपरिणामात्मकमोदनादिकमर्थमाविशति, प्रत्यर्थनियतत्वात् - ज्वलनाद्युपविधानार्थेषु प्रत्येकं नियतत्वात् काष्ठादिसाध- 6 नानुषङ्गस्य । साध्याभावाद्वन्ध्यासुतादेः सा स्त्रीपुंसम्प्रयोगक्रिया किमाविशतु ? तस्मात्तद्विपरीतनियत्यसाध्यं वन्ध्यापुत्रादि ।
न्यायागमानुसारिणीव्याख्यासमेतम्
इदं पुनरसत्साध्यं घटादि, यद्यसत् कथं साध्यं खपुष्पवत् ? उक्तासदसाध्यविकल्पानतिवृत्तेश्चेति, नैष दोषः, सतोऽन्यदसदित्यतोऽन्यत्र विधानप्रतिषेधाश्रयणात् प्राक् तथाऽवृत्तं तत्काले व्यक्त्या नियतं साध्यम् ।
5
इदं पुनरित्यादि, असत् साध्यं घटादि, इतर आह - यद्यसत् कथं साध्यं खपुष्पवत्, उक्तासदसाध्यविकल्पानतिवृत्तेश्चेति, अत्रोच्यते - नैष दोषः, सतोऽन्यदसदित्यतोऽन्यत्र विधानप्रतिषेधपक्षाश्रयणाद्रव्यार्थविकल्पत्वान्नियतेरसत्त्वाभावादित्यत आह- प्राकू तथावृत्तं - तेन घटत्वप्रकारेणावृत्तं सच्छब्दस्य वृत्त्यर्थत्वात्, 'अस्तिभवतिविद्यतिपद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्थाः' इति वचनादसदित्यवृत्तमित्यर्थः, प्राकू - मृत्पिण्डाद्यवस्थानकाले, तत्काले व्यक्त्या नियतं साध्यम्, आदिग्रहणात् 15 पटकटादीति । एतत्कालभेदेनोपलब्ध्यनुपलब्धिभ्यां नियतम् ।
इदमन्यत् सततोपलब्धिनियतमेव सत् यष्टिसाधनवदृजुत्वेन साध्यते मृद्रव्यमूर्द्धादित्वक्रमापाद्यघटत्वेन वा, ऊर्द्धादित्वं घटत्वश्च भेदेनैव वा सत्साध्यम् । अथवा भेदेनैव सत्सा - ध्यम्, यद्बुद्ध्यैव साध्यते न क्रियया, पुरुषादि किन्तु विद्यमानं अवस्थापरिग्रहापनयनेन ।
10
(इदमन्यदिति) इदमन्यत्सततोपलब्धिनियतमित्यादि, इदच सदाऽव्यक्तिनियति सत् 20 साभ्यमित्यभिसम्बन्धः, किन्तत् ? यष्टिसाधनवदृजुत्वेन यष्टिहिं विद्यमानैरेवावयवैः सदाऽव्यक्ता संस्थानविशेषेण साध्यते सती साध्यते -ऋजूक्रियते, इदमन्यत् सततोपलभ्यमेव सत्साध्यं मृद्रव्य
2
Jain Education International 2010_04
सत्त्वात्, नियत्यैवासतोऽसाध्यत्वमित्याह - इदन्त्विति । कुतो नियत्याऽसाध्यमिदमित्यत्राह - साधनाविष्टेति सव्यापाराणि साधनानि सदेव कार्यमाविश्य साधयन्ति, वन्ध्यापुत्रस्य च साधनत्वेनाभिमतेषु साध्यसाधनसमर्थक्रियाया अभावात्तस्यासाध्यत्वम्, नियत्या वन्ध्यापुत्रस्यैवासत्त्वात् कुत्र साधनक्रियाऽऽविशतीति भावः । तृतीयं भङ्गमाख्याति - इदं पुनरिति, मृत्पि- 25 ण्डादावसन् घटः साधनैः साध्यं भवति, तथानियतेरिति भावः । नन्वधुनैवोक्तं नियत्या यदसत् तन्न साध्यम्, साधनाविष्टायाः क्रियाया असत्यावेशासम्भवादिति, अतोऽसत् खपुष्पवदसाध्यमेव, तथा चायं भङ्गो द्वितीयभङ्गान्नातिरिक्त इत्याशङ्कते - यद्यसदिति । मृत्पिण्डकाले घटत्वप्रकारेणासन्- आवृतो घटोऽधुना प्रकाशतां गत इति साध्यतामा बिभत्तीत्याह - प्राकू तथेति । असदित्यनेन सन्नास्तीति न विवक्षितो येन खपुष्पवदसत् कथं साध्यमित्याशङ्कयेत, किन्तु सतोऽन्यदसदिति विवक्षितः, नियतिवादो हि द्रव्यार्थनय मेदस्तन्मते सदभावो नास्त्येवातः, पर्युदासपक्ष एवाश्रयणीय इति पूर्वं प्रकारान्तरेण विद्यमानं कारणैरधुना - 30 ऽभिव्यज्यत इत्येवासत्साध्यमिति भङ्गस्यार्थ इत्याशयेनाह - सतोऽन्यदिति । सच्छब्दस्येति, असदित्यत्र सच्छन्दस्येत्यर्थः। अथ सत्साध्यमिति चतुर्थं भङ्गमाह - इदमन्यदिति, यष्टीति, यष्टिर्हि पूर्वमाकारान्तरेण सत्येवाकारान्तरेण ऋज्वादिना
द्वा० न० ३१
For Private & Personal Use Only
www.jainelibrary.org