________________
૨૨ द्वादशारनयचक्रम्
[विधिविध्यरे मूर्खादित्वक्रमापाद्यघटत्वेन । पूर्वस्मिन्नुदाहरणे मनागाकृत्यन्तरभेदेन, इह त्वत्यन्तभिन्नाकारभेदेनेति विशेषः, तद्दर्शयन्नाह-ऊर्द्धादित्वं घटत्वञ्च भेदेनैव वा सत्साध्यमिति । अथवा भेदेनैव सत्साध्यमिदश्चान्यदिति वर्तते, यगुद्ध्यैव साध्यते न क्रियया परिस्पन्दात्मिकया, किन्तु विद्यमानं पुरुषादि
अवस्थापरिग्रहापनयनेन-तद्विषयसंशयविपर्ययपरिग्रहापनयनेन । नात्र किञ्चिन्निवर्त्तते पुरुषादि, किन्तु। विद्यमानमेवानुपलब्धमुपलब्ध्या साध्यते, एषा नियतिनिरूपेति पूर्वविलक्षणा ।
एतासां क्रियाणां तत्साध्यानाञ्च नियतिकृतत्वप्रतिपादनार्थमाह
एतच्च साध्यमानमप्यन्यविषयक्रियाविलक्षणयानयैव क्रियया साध्यते, एतस्याश्चैतान्येव कारकाणीति साध्यसाधनार्थनियतिः । एवञ्चार्थगतप्रतिविशिष्टसाध्यसाधननियमाभिव्य
जयनियतिस्थितेरेव कारणगुणपूर्वकतां कार्यस्य प्रतिपद्य कारकान्तरसमवस्थितितुल्यतायामपि 10 क्रियासमवस्थित्या सह नियतिप्रसिद्धरेव पुरुषस्तथा प्रतिपद्य प्रत्यर्थ कारकाणि प्रयुङ्क्ते, तानि
च यथाप्रयोगनियमं स्वे स्वे विषये नियतानि नैकविमर्दप्रवृत्तानि परस्परनियतानुग्रहोद्भावनवृत्तानि स्वविषयक्रियाप्रसाध्यमर्थमभिनिर्वतयन्ति, तेषां वृत्तिस्तानि तत्फलश्च सर्व नियतमेव, ततो नियतिरेव सर्वस्य कारणम् , न तु तदुपायसिद्धेरन्यथा तत्सिद्धिरस्ति ।
एतच साध्यमानमित्यादि, ओदनविषयेयं पचिक्रिया घटादिविषयक्रियाविलक्षणा, 1 एतच्चौदनादि साध्यमानमप्यन्यविषयगमनादिक्रियाविलक्षणयाऽनयैव पचिक्रियया साध्यते नान्ययेति क्रियानियत्या साध्यते, एतस्याश्च पचिक्रियाया एतान्येव काष्ठादीनि कारकाणि, न मृत्पिण्डदण्डादीनीति साध्यसाधनार्थनियतिः। एवमित्यादि, एवञ्च कृत्वा यथा अर्थगतप्रतिविशिष्टसाध्यसाधननियमाभिव्यङ्ग्याया नियतेः स्थिति:-व्यवस्था, तस्याः-स्थितेहेतोः कारणगुणपूर्वकतामनुमानप्रसिद्धां
कार्यस्य प्रतिपद्य-बुद्धा कारकान्तरसमवस्थितितुल्यतायामपि-दण्डादिकारकान्तराणां साध्यनिर्वत्त20 नसमवस्थितेस्तुल्यतायामपि सत्यां पचिक्रियासमवस्थित्या सह नियतिप्रसिद्धरेव बलात् पुरुषस्तथा
प्रतिपद्य प्रत्यर्थं कारकाणि प्रयुङ्क्ते, यथा स्वसाध्यार्थोऽयमित्यर्थः । तानि च कारकाणि नियतानि सस्या एव नियतायाः क्रियाया यथाप्रयोगनियम-पौर्वः प्रयोगनियम इति, स्खे खे विषये-देशकाल
साध्यते, मृत्पिण्ड एवोटद्याकारादिक्रमेण घटीभवति, उदाहरणद्वयप्रदर्शने हेतुमाह-पूर्वस्मिन्निति । ऋजुत्वादयो न रज्वादितोऽत्यन्तभिन्नाः स्थासकोशकुशलघटादयस्तु मृदोऽत्यन्तं भिन्नाकारा इति मेदः । प्रकारान्तरेणामुं भङ्गमादर्शयति
वं विद्यमान एव पुरुषादिः चेतसो विषयान्तरव्यासङ्गेन ज्ञानाविषयः सन् सम्प्रति ज्ञानविषयता नीत इति सत् साध्यमुच्यते न तु क्रियया पुरुषोऽवस्थासु तदीयासु काश्चित् परिगृह्य काश्चिञ्च विनिवृत्त्य साध्यते, अत एषा नियतिनिरूपस्वात् पूर्वतो विलक्षणेति भावः । अथोदिताना कार्यकारणानां नियतिप्रयोज्यत्वं समर्थयति-एतच्चेति, ओदनादि पचिक्रिययेव साध्यम्, नान्यया, सा च पचिक्रिया घटादिसाधनक्रियाविलक्षणा, पचिक्रियायाश्चोपकारकाणि कारकाणि काष्ठादीन्येव म मृत्पिण्डदण्डादीनीत्येवं यः साध्यसाधनभावनियमः स नियतिनियम्य एव, अत एव पुरुषः कारणपूर्वकत्वं कार्यस्यानुमान30 तोऽवबुध्य दण्डादेः साध्यसाधनसमर्थस्य सद्भावेऽपि ओदनसाधनसमर्था पचिक्रियां तथाविधनियत्या विज्ञाय प्रयुक्ते इत्याह
ओदनविषयेति । कारकाण्यपि नियतिबलेनैव खे खे विषये यथाप्रयोगनियमं परस्परानुग्रहविधायीनि परानुपमर्दनेन प्रवतन्त इत्याह-तानि च कारकाणीति । तथाविधनियतिमन्तरेण नौदनादीनां सिद्धिरित्याह-न विति। सिद्धिखरूपमाह
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org