________________
सिद्धेरभिधानम् ]
न्यायागमानुसारिणीव्याख्यासमेतम्
२४३
विशिष्ठे प्रयुक्तानीत्यर्थः, नैकविमर्दप्रवृत्तानि नैकमप्याहत्यान्योऽन्यापेक्षेण व्यापारेण प्रवृत्तानि परस्परापेक्षं नियतं परस्परानुग्रहमुद्भावयन्ति प्रवर्त्तन्तेऽत उच्यते - परस्परनियतानुग्रहोद्भावनवृत्तानीति, स्वविपयक्रियया प्रसाध्यमर्थमभिनिर्वर्त्तयन्ति तेषां वृत्तिः विषयः तानि तत्फल सर्व नियतमेव, ततो नियतिरेव सर्वस्य कारणम्, न तु तदुपायसिद्धेरन्यथा तत्सिद्धिरस्ति - काष्ठज्वलनादिसाधनपचिक्रियानिर्वर्त्तनस्यौदनस्य न दण्डचक्रभ्रमणादिसाधनात्सिद्धिर्न वा घटाद्यर्थस्य काष्ठज्वलनादि- 6 साध्यताऽस्तीति ।
का सिद्धिस्तर्हीति चेत् ? उच्यते
सिद्धिर्हि नियमेनानुद्गतानां रूपादीनां साङ्गत्येन स्थितानां स्वनियतेरेवाऽभिव्यक्तिर्जनिर्वा, तत्र मिथ्याभिमान इदं मया कृतमिति पुरुषस्य । तच्च स च तानि च नियतेरेव प्रवर्त्तन्ते, तत्प्रवृत्त्यप्रवृत्त्योः सिद्ध्यसिद्ध्योश्च व्यभिचारदर्शनात्, तथा च दृश्यन्ते क्रियाणां विपत्तयोs - 10 प्रवृत्तयश्चातस्तत् कृतमपि पूर्वनियतिस्थत्वादकृतम्, विनष्टमप्यविनष्टं तथानियत्योत्तर कालं कपालादित्वेनावस्थितत्वात् ।
3
सिद्धिहत्यादि, नियमेनो तलक्षणेनानुद्गतानां - अनभिव्यक्तव्यापाराणां बीजावस्थायामङ्कुरादित्वेन रूपादीनां सम्मूच्छितानां साङ्गत्येन समुदेत्य स्थितानां स्वनियतेरेवाभिव्यक्ति:- वर्णाकृत्यादिनित्या निर्वा पूर्वमनभिव्यक्तानामभिव्यक्तिः सा सिद्धिरित्युच्यते, तत्र - तस्मिन् मिथ्याभिमान 16 इदं मया कृतमिति पुरुषस्य । आह- किं कारणं मिथ्याभिमानो ननु मया कृतो घट इति ? तत्क्रियाऽविनाभावात् सिद्धजन्मत्वाद्वटस्य युक्तोऽभिमान इत्यत्रोच्यते तच्च स चेत्यादि, तत्प्रवृत्त्यप्रवृत्त्योः सिद्ध्यसिद्ध्योश्च व्यभिचारदर्शनात्, तच्च-कार्यं घटादि, स च कर्त्ता कुलालः, तानि च - कारकाणि दण्डादीनि, नियतेरेव प्रवर्त्तन्ते, तथा तस्य चिकीर्षां कदाचिद्भवति कदाचिन्न, चिकीर्षुरप्यालस्यादिभिः प्रवर्त्तते न वा प्रवृत्तोऽप्यकृत्वैव घटं विनिवर्त्ततेऽन्यद्वा करोति, विघ्नो वास्य भवति, तथाऽन्यकारका - 20 ण्यपि वाच्यानि । तच्च कार्यं कदाचित् सिद्ध्यति कदाचिन्न, अन्यार्थप्रवृत्तावन्यत् सिद्ध्येत्, न वा सिद्ध्येत् । तथा च दृश्यन्ते क्रियाणां विपत्तयोऽप्रवृत्तयश्चेति लोकप्रसिद्धं व्यभिचारं दर्शयति । अतस्तत्
सिद्धिर्हीति, कारणत्वेनाभ्युपगते वस्तुनि अभिव्यञ्जकसामग्री व्यापारपूर्वकालं कार्यत्वेनाभ्युपगतस्य वस्तुनो विद्यमानस्यैव तथाविधसामग्रीव्यापारानन्तरं प्रकटनमभिव्यक्तिरित्युच्यते, तथाविधनियतेरेव तथाभावनियतेः, तथाविधं नियतिवैचित्र्यमानानेन पुंसा मया कृतमिदमिति मिथ्या प्रतिपद्यत इति भावः । ननु मया कृतमिदमित्यभिमानस्य कथं मिध्यात्वम्, 25 दृश्यते हि पुरुषक्रियया सह घटाद्युत्पत्तेरविनाभावः, तस्मान्नायं मिथ्याभिमान इत्याशङ्कते - आहेति । कार्यकारक कर्तॄणां सर्वेषामेव नियत्यधीनप्रवृत्तित्वं न तु स्वत इत्युत्तरयति - तच्च स चेति । ननु कथं नियतेरेव कारणत्वमित्यत्राह -तथा तस्येति, पुरुषो हि कदाचिदेव चिकीर्षति न सर्वदा, चिकीर्षुरपि कदाचिदेव प्रवर्त्तते इति न प्रवृत्तिं प्रति चिकीर्षा कारणम्, तत्सत्वेऽपि प्रवृत्तेरभावात् प्रवृत्तोऽपि व्यासङ्गादिना कार्यमकृत्वैव विनिवर्त्तते, अनिवर्त्तमानोऽपि सति विघ्ने कार्यासिद्धेर्व्यभिचारान्न पुरुषादेः कारणत्वम्, एवं कारकादीनामपि प्रतिबन्धकादिना कार्याजनकतया व्यभिचारो विज्ञेयः, तथा कार्यमपि 30 सकलकारकसमवधानेऽपि कदाचिदेव सिद्ध्यति, अन्यार्थं प्रवृत्तेन कारकचक्रेणापरस्यैव सिद्धेः कस्याप्यसिद्धेर्वा दर्शनान्न कारकचक्रेणैव कार्यं सिद्ध्यत्येवेति नियमोऽस्ति, तस्मात्सर्वं नियति हेतुकमेवेति भावः । तदेवं जागृते व्यभिचारे यत्रापि क्वचित् कारणैः कृतमिदमिति लोकप्रतीतिस्तत्रापि न कारणकृतं किन्तु नियत्यैव तथा पूर्वमेव तथाव्यवस्थापितत्वात्, तथा विनष्टमपि कारणैरविनष्टमेव नियत्या पश्चात् कपालादित्वेनैव घटादेर्व्यवस्थापितत्वादित्याह - अतस्तदिति । विनाशे नियतेरहेतुस्वे
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org