SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २४४ द्वादशारनयचक्रम् [विधिविध्यरे कृतमपि लोकप्रतीत्या पूर्वनियतिस्थत्वादकृतं-पूर्वमेव नियत्या तथास्थितत्वात् , विनष्टमप्यविनष्टं तथा नियत्योत्तरकालं कपालादित्वेनावस्थितत्वात् , कपालादित्वेनैव घटस्य विनाशात् ।। एवन्तु विनश्येत् , यदि प्रविशीर्णस्तां नापद्यते खरविषाणवदत्यन्ताभावी भवेन्न वा विनश्येत् घटत्वेनैव तिष्ठेत् , न त्वेवम् , तस्मान्नाविनाशः, लक्षणतो ह्यन्यथाभावो विनाशः, 5 स च नियतेरलङ्घयत्वात् , एवमुत्पत्तिरपि । एवन्तु विनश्यदित्यादि, यदि प्रविशीर्ण:-विशीर्यमाणो विशीर्णो वा, तां-नियति कपालादिक्रमापत्तिरूपघटविनाशां नापद्यते खरविषाणवदत्यन्ताभावी भवेन्न वा विनश्येत्, घटत्वेनैव तिष्ठेत् ततो न विनश्येत् , न त्वेवमस्ति तस्मान्नाविनाशः, लक्षणतो ह्यन्यथाभावो विनाशः, स च नियतेर लज्यत्वात्,-कपालाद्यवस्थानरूपायाः । एवमुत्पत्तिरपि । 10. तथा चाऽऽनबीजे तथानियत्या लीनानां मूलाङ्करादीनां फलस्य वर्णानां रसानाच तेषां तेषां व्यवस्थितपूर्वरूपैव प्रवृत्तिर्मायाकारपताकिकावत्, यावदानं नियतिप्रवृत्तिफलावस्थामनुभूय पुनर्बीजमेव तस्मादपि पुनरपि तथेति, सेयं व्यवस्थिता नियतिसन्ततिरनाद्यनन्ता। तथा चाम्रबीज इत्यादि, दृश्यत इति वर्त्तते, तथा नियत्या लीनानां मूलाङ्कुरपत्रनालकाण्डशाखाप्रशाखास्कन्धपुष्पादीनां व्यवस्थावकाशक्रमेण व्यवस्थितपूर्वरूपैव प्रवृत्तिः, रक्तश्यामादिवर्णा15 नामाम्रफलस्य तुवराम्लमधुरादीनाञ्च रसानां तेषां तेषामिति,-अवस्थायामवस्थायां ये ये भवन्त्यन्येऽन्ये तेषां तेषां विद्यमानानामेव नियतानाम् । किमिव ? मायाकारपताकिकावत् , यथा मायाकारः पताकिका गुलिकादिरूपीकृत्य पूर्वग्रस्ताः क्रमेण स्ववदनान्निष्कासयति नानावर्णनानाकारास्तथेहाप्यानबीजे । यावदानं नियतिप्रवृत्तिफलावस्थामनुभूय पुनर्बीजमेव, तस्मादपि बीजात् पुनरपि तथैवेत्यङ्क रादिप्रवृत्तिं प्रागभिहितां दर्शयति-सेयं व्यवस्थिता नियतिसन्ततिरनाद्यनन्ता । 20 स्यान्मतं ननु दग्धे बीजेऽङ्कराद्ययन्ताप्रादुर्भावान्नियतिकृतप्रादुर्भावतिरोभावव्यभिचार इत्यत्रोच्यते दाहनियत्युदयेऽपि यवतिलभस्मादीनां तास्तथा तथा प्रादुर्भावतिरोभाववृत्तयः प्रतिनियता एवान्यथा च । ताश्च पुरुषकारमप्युल्लंघ्य तमन्तरेण सिद्धाः, पाककालस्यापि नियतिदर्श नात् , यथा षष्टिकाः षष्टिरात्रेण पच्यन्त इत्यादि । एवञ्च व्यवस्थितनियतार्थव्यक्तेर्व्यतिरिक्त26 मतिः पुरुषस्य मिथ्याभिमान एव, न तु नियतौ हि किञ्चिन्नास्ति ।। दोषमाह-एवन्तु विनश्येदिति, एवन्तु कपालादित्वेन घटो विनश्येन्नान्यथा, कपालादिक्रमापत्तिरूपतयैव नियतेर्व्यवस्थितत्वात् , यदि तथा विधनियतिं नाश्रियेत तर्हि घटो विशीर्यमाणोऽत्यन्तमभावरूप एव स्यात्, खरविषाणवत्, अथवा घटत्वे. नैव सदा स्यात् , नैव विनश्येत् कदापि, न चैवं दृश्यते. तस्मान्नियति बलादेव घटोऽन्यथाभावलक्षणं विनाशमवाप्नोतीति भावः । कारणे बीजादौ नियत्यैव पृथक्तया लीनानां मूलारादीनां वर्णरसादीनाञ्च व्यवस्थितक्रमेण विद्यमानानामेव तथा 30 नियत्या क्रमेणाविर्भाव इत्याह-तथाचेति। आम्रफलं प्रथमं कषायरसं तथाऽऽम्लरसं तथा मधुररसं भवतीत्याह-तुवरेति, तुवर:-कषायः। अनुरूपं दृष्टान्तमाह-मायाकारेति, मायां करोतीति मायाकारः । व्यवस्थापूर्वकमेव नियत्या तिरोभावं दशेयति-यावदाम्रमिति, आम्रबीजं यावदाम्रफलं नियत्या प्रवृत्ता अवस्था अनुभूय पुनर्बीजमेव भवति, पुनश्च, मूलाद्यवस्थां प्राप्नोति, ततोऽपि बीजतामित्येवमाविर्भावतिरोभावधाराः प्रवर्तन्ते नियत्यैवेति भावः। ननु दग्धे बीजे कदाप्यकुरादेरनुत्पत्त्या नियतिकृताऽऽविर्भावतिरोभावाभावेन व्यभिचार इत्याशङ्कायामाह-दाहनियत्युदयेऽपीति । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy