________________
नियत्या सर्वसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम्
રક (दाहेति) दाहनियत्युदयेऽपि ताः प्रतिनियता एवान्यथा च, दृश्यन्त इति वर्त्तते, कास्ताः ? तथा तथा प्रादुर्भावतिरोभाववृत्तयः; केषां ? यवतिलभस्मादीनां, अन्यादृग्यवतिलभस्मेत्यत्रापि प्रादुर्भावतिरोभाववृत्तयो नियता एव । ताश्च पुरुषकारमप्युल्लंघ्य तमन्तरेण सिद्धाः-पुरुषकारश्चान्तरेण सिद्धाः । किं कारणं ? पाककालस्यापि नियतिदर्शनात् , षष्टिकाः षष्टिरात्रेण पच्यन्त इत्याद्युदाहरणानि गतार्थानि, देशकालकर्तृकरणादिनियत्यैव पाकादिदर्शनात् । एवञ्चेत्युन्नयति--अनेनोक्तविधिना । व्यवस्थित एवार्थ-अव्यक्तस्यैवार्थस्य तत्र व्यक्तेः, सर्वं नियतमेव तत्तथा, तस्याश्च व्यक्तेर्व्यतिरिक्तमतिः पुरुषस्य,-सर्वकालं व्यवस्थितनियतादर्थादन्यो मृगव्याटो मया कृत इति मिथ्याभिमान एव, षष्टिकादयो वा केदारादिसंस्कारविधिना पाचिता इति, यस्मान्न तु नियतौ किञ्चिन्नास्ति, सर्वं विद्यमानमेव तिरोभूतं क्रिययाऽभिव्यज्यते कालादिनियत्यनुगृहीतम् ।
___ अत्राह__कथमस्ति सर्व नियतौ ? यथा भूम्यम्ब्वादेविना न भवति केवलाया एव वीजनियतेराम्रफलपाकादि, कालातपवातादिभ्यो हि पाकः, तथाऽकालेऽपि भूमिखननादिभ्यः काले वापि न भवति पाको द्रव्यान्तरसंयोगादिना स्तम्भितायां शाखायाम् , द्रावणाद्वा। अन्यच्च तथातथा तस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिवैपरीत्यमिति नियमाभावात् कृतकत्वाच्चानित्यत्वं ताभ्याञ्च नियत्यभाव इति।
16 कथमस्तीत्यादि यावन्नियत्यभाव इति, यदुक्तं त्वया नियतौ सर्वमस्तीति तत्कथमस्ति ? यथा भूम्यम्ब्वादेविना न भवति केवलाया एव बीजनियतेराम्रफलपाकादि, रूपरसगन्धस्पर्शसंख्यासंस्थानान्यादिग्रहणात् । भूमिरम्बु वायुरातपः काल इत्येतानि भूम्यम्ब्वादीनि, तद्व्याचष्टे-कालातपवातादिभ्यः पाकस्तस्माद्भूभ्यम्बुकालवातातपाद्यपेक्षत्वान्न बीजनियतावस्त्यङ्करादि । तत्फलपाकादिवत्तथाऽकालेऽपि कालनियतेर्व्यभिचारो दृश्यते भूमिखननादिभ्यः फलादीनामप्राप्तेऽपि काले पाकदर्शनात् , आदि- 20 ग्रहणात् कोद्रवपलालवेष्टनवणकरणादिभिः। काले वापीति, प्राप्तेऽपि पाककाले न भवति पाको द्रव्या
दाहोऽपि नियत्यैव भवति, तथा च बीजानां दाहे पूर्वमिवाविर्भावतिरोभाववृत्तीनामभावेऽप्यन्यादृक्षा एव ता नियतिबलेनैव तथाप्रतिनियता इति नाविर्भावतिरोभावव्यभिचारो न वा तत्र पुरुषकार एव कारणम् , तमन्तरेणापि नियतिबलेनैव तत्र तासां सिद्धेरिति भावः । कथं पुरुषकारमन्तरेण व्रीह्यादिफलाविर्भावः पुरुषप्रयत्नात्तद्दर्शनादित्याशक्य समाधत्ते-किं कारणमिति, पाककालनियतेरप्यावश्यकत्वात्, न हि तामन्तरेण पुरुषकारमात्रात् कार्यसिद्धिदृश्यते इति भावः । उदाहरति-25 षष्टिका इति, षष्टिदिनसाध्या व्रीहि विशेषा इत्यर्थः, उदाहरणान्तराण्यपि मूलकृता दर्शितानीति सम्भाव्यते, तान्यत्रानुपलम्भानोद्धृतानि । एवं च कार्यसिद्धौ देशकालकर्तृकरणादिनियत्यवश्यंभावितया मृदादितो घटादिद्रव्यं मया कृतमिदमिति केदारादिसंस्कारेण मया षष्टिकादयः पाचित इति वा पुरुषस्याभिमानो मिथ्याभूत एवेति निगमयति-अनेनोक्तविधिनेति। अव्यक्तस्यैवेति, विद्यमानस्यैवानभिव्यक्तस्यार्थस्य तत्तन्नियत्याऽभिव्यक्तेरित्यर्थः । न विति, न हि नियतिः किञ्चित् प्रत्यसमर्था, येनान्यापेक्षा पुरुषादेरिव तस्याः स्यादिति भावः । अथ नियतेः सर्वसमर्थतायां व्यभिचारमुद्भावयति-कथमिति, 30 नियतिसद्भावेऽपि बीजादितो भूम्यादिव्यतिरेके आम्रादेः पाकाद्यसंभवात् भूम्यादेरप्यपेक्षा तस्या अस्ति, पाको हि कालातपवातादिभ्यो भवत्यतो न नियतिः सर्वसमर्थेति भावः । ननु कालनियत्यनुगृहीता सा करोतीत्याशंक्याह-तथाऽकालेऽपीति. वृक्षादित आम्रफलाद्युपचित्य खनित्वा भूमिं तत्र निक्षिप्य घासादिनाऽऽच्छाद्याकालेऽपि पाकादेनिवर्तनात् कालनियतेरपि व्यतिरेकव्यभिचारः। अन्वयव्यभिचारोऽप्यस्तीत्याह-काले वापीति, प्राप्तेऽपि पाककाले पाको न दृश्यते, वृक्षायुर्वेद
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org