________________
द्वादशारनयचक्रम्
[विधिविध्यरे न्तरसंयोगेन स्तम्भितायां-यथा शाखायां चावबद्धायां वृक्षायुर्वेदविधानेन द्रव्यान्तरसंयोगेनैव, द्रावणाद्वा-सहकारतैलग्रहणार्थं कोमलस्य प्राप्तगन्धावस्थस्य द्रवीभावात्तैलत्वेन, आदिग्रहणात् पक्षिखञ्जरीटादिभक्षणात् । अन्यञ्चेत्यादि, न केवलमात्मस्वरूपापरित्यागेनैव पाकभावः किन्तर्हि ? अन्यच्च तथा. तथा यथायथा पुरुषो ज्ञाता स्वयमिच्छति तथातथा तस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिमतीत्य पुष्पा.: दीनां वर्णसंस्थानादिवपरीत्यम् , यथोत्पलस्य पार्श्वे रक्तता पाश्वे नीलता, मातुलिङ्गफलस्य रक्तता दिवर्णता
तद्वासितबीजस्य, तथा कूष्माण्डफलस्य घटवर्धितस्य घटाकारता । योनिप्राभृतादिभ्यश्चान्यथैव सर्वयोन्युत्पत्तयः, द्विविधा योनिर्योनिप्राभृतेऽभिहिता, सचित्ताऽचित्ता च, तत्र सचित्तयोनिद्रव्याणि संयोज्य भूमौ निखाते दन्तरहितमनुष्यसदिजात्युत्पत्तिः, अचित्तयोनिद्रव्ययोगे च यथाविधि सुवर्णरजतमुक्ता
प्रवालाद्युत्पत्तिरिति, इति नियमाभावः,-इत्थं काले चापाकादकाले च पाकादर्थान्तरापेक्षत्वात् पुरुषे10 च्छायनानुविधानाच्च नियमाभावः, नियमाभावात् कृतकत्वं पाकादेः कृतकत्वाचानित्यत्वं-अभूतस्य भावो भूतस्य चाभाव इत्यर्थः, ताभ्याञ्च नियत्यभावः, इतिः परिसमाप्त्यर्थः, एप पूर्वपक्षः ।
अत्रोच्यते
न, तथानियतित्वात् , बीजादिनियतिरेव ह्युदकादिषु वर्तते उदकादिनियतिश्च वीजादिध्वन्योऽन्यव्यतिहारेण, तन्नियमानुरोधेन हि तेषां सर्वेषां नित्यप्रवृत्तिरन्योऽन्याविनाभावात् , 15 तथा ह्याह-उदकं पतितं सभावकं निर्भावकञ्च, यदा हि बीजनियतिरङ्कुराधभिव्यक्तेरभिमुखी
भूता तदा तस्या देश उदकस्थ एवाकरोद्भावने प्रवत्तमानः सभावक इत्युच्यते, अन्यदा तु विपर्ययः।
(नेति) न, तथानियतित्वात् , यथोक्तं त्वया कालाप्रवृत्तिनियतित्वादकालप्रवृत्तिनियतित्वाच नियत्यभाव इति तन्न, तथानियतित्वात्-सापेक्षनियतित्वात् , तद्दर्शयति,-बीजादिनियतिरेव हीत्यादि, 20 हिशब्दो यस्मादर्थे, यस्मात् सैव हि बीजादिनियतिरेकैवोदकादिषु वर्त्तते काले वायावातपे पुरुषे तदिच्छाप्रयत्नयोश्च वर्त्तते, आदिग्रहणात् । उदकादिनियतिश्च बीजादिषु वर्त्ततेऽन्योऽन्यव्यतिहारेण, तन्नियमानुरोधेन हि-परस्परनियमानुरोधेन, हिशब्दो यस्मादर्थे, यस्मादेवंरूपा तेषां सर्वेषां नियति
विहितप्रणाल्या तथाविधद्रव्यान्तरेण बद्धायां शाखायां विलम्बेन फलनिष्पत्तेः फलाभावस्य वा दर्शनात्, कोमलस्य प्राप्त
सुरभिगम्धस्याम्रफलादेः तत्तैलग्रहणाय वृक्षायुर्वेदाभिहितरीत्या द्रावणाद्वा पाकानिष्पत्तेः, मध्य एव फलस्य पक्ष्यादिभिर्भक्षणाद्वा 25 व्यभिचार इति भावः । अथ नियत्यैव यदि आम्रफलादिर्भवेत्तर्हि खस्वरूपपरित्यागेनैव भवेत् , न चैवमस्ति, पुरुषेच्छानुगुण पाकस्य वस्तुनियतिमतिलंघ्यापि भावादित्याह-न केवलमिति । वैपरीये दृष्टान्त उच्यते-यथेति। अर्थान्तरापेक्षत्वात्नियतिव्यतिरिक्ताथोपेक्षणादित्यर्थः । कृतकत्वं-मया कृतमिदमिति बुद्धिविषयत्वम्-अनित्यत्वं-कारणेऽसत एवोत्पत्तिः निर. स्वयश्च विनाश इत्यर्थः । ताभ्याञ्च, पाकापाकाभ्याश्चेत्यर्थः । यदुक्तं भवता साक्षेपं व्यभिचारादि तत् सर्व तथाविधनियत्यैव भवतीत्युत्तरयति-न तथानियतित्वादिति । कालेति, काले फलादेरप्रवृत्तेर्नियतित्वादकाले प्रवृत्तेर्नियतित्वादि30 त्यर्थः । तथा तथा परस्परापेक्षयैव नियतेः क्लप्तत्वादित्याह-सापेक्षनियतित्वादिति । तथा च बीजभूम्यम्बुतेजोऽनिल.
कालपुरुषादिषु यावत्सु फलमुत्पद्यते तावत्खेव नियतेः सद्भावादकाले पाकत्वेनाभिमतस्य सामग्रीमध्ये तावत्सु कालादिष्वेव नियतेः सद्भावादेव पाकाविर्भाव इति न व्यभिचारः, तथा काले पाकादर्शनमपि तथाविधनियत्यभावादेवेति भावः, परस्परकरणं व्यतिहारः। परस्परापेक्षाः बीजादिगतास्सर्वा नियतयः सङ्गत्य कार्यनिर्वाहकाः, न त्वेकस्या अभावे कायनिर्वर्तनाय
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org