________________
भावाभावकत्वे ]
न्यायागमानुसारिणीव्याख्यासमेतम्
२४७
स्तस्मात्तेषां सर्वेष / मितरेतरनियत्या नित्यप्रवृत्तिरन्योऽन्याविनाभावात्, तथैव प्रवर्त्तत इत्यर्थः । तथा ह्याहेति लोकसिद्धं ज्ञापकं दर्शयति - सहभावेन वर्त्तत इति सभावकम्, निर्गतो भावोऽस्मादिति निर्भावकम्, किं तत् ? उदकं पतितमिति, तद्भावना यदा हि बीजनियतिरिति, अङ्कुराद्यभिव्यक्तेर्यदाऽभिमुखीभूता बीजनियतिर्भवति तदा तस्या नियतेर्देशः - अंशो भागोऽवयवः स उदकस्थ एव सन्न
रोद्भावने प्रवर्त्तमानः सभावक इत्युच्यते, तद्भावांशापेक्षयोदकमपि सभावकमित्युच्यते भेदविव- 5 क्षायां बहुव्रीहिसमासाश्रयणात्, मतुब्लोपाद्वा अभेदोपचाराच्च भाव एवोदकमिति, स च भावोऽङ्कुरादिर्वनस्पत्यौषध्यादेः, मतुप्प्रत्यय निर्देशोऽपि भेदेनोपपद्यते तद्यथा - अस्त्यस्मिन्नस्य वा भावोऽङ्करस्त - स्मिन्नुदके तस्मात् सभावकमिति । अन्यदा तु विपर्ययः-क्षाराम्लाद्युदकेऽङ्कुरादयो न सन्तीति नियतत्वाद्विपर्ययः, तस्मादभावकमुच्यते तज्जलमिति ।
एवं भूमिवायुकालप्रभृतिष्वपि सभावकाभावकत्वे । यदुक्तं पुरुषस्य ज्ञातुरिच्छानुविधा - 10 नेन वस्तुनियतिवैपरीत्यमिति तन्न, तत्रापि नियतेरेव कारणत्वात् पुरुषो व्यग्रोऽव्यग्र इत्यादि हि नियतेरेव, सापि तादृशी, एवमप्रयुक्तेषु स्वातंत्र्यादेव नियतिः प्रयुक्तेष्वपि करणादीनां क्षमत्वाक्षमत्वप्रात्यप्राप्त्यादौ तथा नियतत्वात्, एतेन पाकादिदोषाः प्रत्युक्ताः ।
( एवमिति ) ऊपर भूमावभावः सस्यादेः, पादसौकुमार्यादेर्भावः सुकृष्टे केदारादौ वा सर्वबीजानामङ्कुरादिभावः । पूर्ववायावभावोऽङ्कुरादेः भावस्तु महिषीकार्पासप्रसूत्यादेरन्यस्य पुष्पादेरन्यस्य 15 फलादेः । मनुष्याणाञ्च पूर्ववायावभावः, तद्यथोक्तं 'दिवास्वप्रमवश्यायं प्राग्वातं वा तु वर्जयेत्।' सस्यानामुत्तरे वायौ न भावः । प्रावृष्युप्तानां भावः, वैशाखादिष्वभावः । प्रभृतिग्रहणेनाऽऽतपेऽतिमृदावतितीक्ष्णे चाभावः, समे भावः, आतपाभावेऽप्यभाव एवेति । एवं तावदबुद्धिपूर्वप्रवृत्तेषु कालाङ्कुरादिष्व चेतनेषु नियतिरुक्ता, बुद्धिमत्स्वपि नियतिरेव यदुक्तं प्राक् त्वया पुरुषस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिवैपरीत्यमिति, तन्नोपपद्यते, तत्रापि नियतेरेव कारणत्वात्, कुतः ? पुरुषो व्यप्रोऽव्यत्र इत्यादि नियतेरेव 20
क्षमन्त इत्याह- परस्परेति इदं नियतेरनेकत्वमभ्युपेत्य, इतरेतरनियत्या नित्यप्रवृत्त्युक्तेः । यद्वा नियतिरेकैव, यैव बीज - नियतिः सैवोदकनियतिः, यैवोदकनियतिः सैव बीजनियतिः । एकनियत्याश्रयाणां सर्वेषां बीजोदकादीनामन्योन्याविनाभावेन प्रवृयाऽङ्कराद्यभिव्यक्तिर्नान्यथेति भावः । सभावकमिति, कार्यनिर्वर्त्तनोन्मुखापर नियतेः स्खसाङ्गत्येनोपोद्बलकत्वं सभावकत्वं तद्विपरीतत्वं निर्भावकत्वमित्यर्थः । एतत्सङ्गमयति-अङ्कुराद्यभिव्यक्तेरिति । इदश्च नियतिरेकैव बीजभूमिजलवातातपकालादिषु वर्तत इत्यभिप्रायेणोक्तमिति प्रतिभाति, बीजनियतेरेव भागेनोदकादौ वृत्तेरुक्तत्वात् यादृशजलादिसंयोगेनाङ्कुरोद्भू- 25 तिस्तादृश एव जलादौ बीजनियतेरवयवतो वृत्तित्वं नान्यस्मिन् जलादौ, अवयवशो यत्र जलादौ ब्रीहिनियतेः सत्त्वं तदपेक्षया तज्जलादिरपि सभावक उच्यते भावो विद्यते यस्मिन्निति भेदविषयबहुव्रीह्याश्रयणादिति भावः । मतुबलोपा
ति, भाव एवोदकमित्यत्र भावशब्दस्य गुणवाचित्वेन 'गुणवचनेभ्यो मतुबो लुबिष्ट' इति लोपो बोध्यः, मतुप्प्रत्ययं विधाय तल्लोपविधाने गौरवादाह - अभेदोपचाराच्चेति । भावपदविवक्षणीयमाह स चेति । बहुव्रीहिवन्मतुप्प्रत्ययेन निर्देशोऽपि भेदे सत्येव सम्भवतीत्याह - मतुबिति । भूमिवाय्वादेः सभावकत्वाभावकत्वे दर्शयति-उपरेति । 30 ऊषरादेः सस्याय भावकत्वं पादसौकुमार्यादि सभावकत्वम् । सुकृष्टकेदारादेः सर्वबीजानामङ्कुरादिसभावकत्वमिति भूमेस्ते विज्ञेये । अङ्कुराद्यभावकत्वं पूर्ववायोः महिषीप्रसूत्यादि सभावकत्वं मनुष्यप्रसूत्यभावकत्वञ्च दिवाखापाद्यभावकत्वं प्राग्वातस्याहतद्यथोक्तमिति । अवश्यायस्तु नीहारः । उत्तरवायोः सस्याद्यभावकत्वम् प्रावृट्काल स्योप्तबीजादिसभावकत्वं वैशाखादेस्तदभावकत्वमिति । इत्थमचेतनस्य सभावकत्वाभावकत्वे प्रतिपाद्य चेतनस्य प्रतिपादयितुमाह- बुद्धिमत्स्वपीति । पुरुषस्य व्यग्रत्वाव्यग्रत्वाद्यपि नियतेरेवेत्याह- तत्रापीति । पुरुषप्रेरितानामप्रेरितानां वा चेतनाचेतनानां तत्तद्विषयेषु प्रवृत्तिरपि 35
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org