________________
२४८
[ विधिविध्यरे
यतो भवति, साप्यापेक्षिकी तादृशी नियतिरेव, आदिग्रहणात्कुशलोऽकुशलः पुरुष इत्याद्यपि नियतेरेवेति । एवमप्रयुक्तेषु - स्वातंत्र्यादेव परनियोगानपेक्ष प्रवृत्तिषु नियतिः प्रयुक्तेष्वपि नियतिरेव । करणादीनां - करणाधिकरणकर्त्तृकर्म सम्प्रदानापादानानां क्षमत्वं तत्तत्क्रियासाधनसमर्थत्वमक्षम त्वमसमर्थ - त्वम्, यथोक्तं- 'एतत् परशोः सामर्थ्यं पत्रतृणे न' इत्यादि । तेषामेव कर्त्तृसान्निध्यं प्राप्तिः, असान्निध्य5 मप्राप्तिः, आदिग्रहणात् प्राप्तानामपि करणादीनामन्तरे विना इत्येवमादेः कारणादङ्कुरायुत्पत्त्यनुत्पत्त्योनियतिरेव कारणम्, तथानियतत्वादिति, एतेन पाकादिदोषाः प्रत्युक्ताः - प्रतिषिद्धाः, यदुक्तं त्वया काले न पाकोsकाले पाक इत्यादयो दोषा इति तदपि तथानियतत्वादित्येतेनैव न दोषाय, कालाकालयोरपाकेन पाकेन च तेषां तेषां भावानां नियतत्वात् सैत्र नियतिस्तथातथा नियता भवतीति ।
द्वादशारनयचक्रम्
किञ्चान्यत्-
10
सर्वज्ञोऽपि च न नियतिमन्तरेण, तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवति स हि भव्याभव्यसिद्धादिभेदेषु पुरुषेषु गतिस्थित्यवगाहवर्त्तनारूपरसादिशरीरवाङ्मनःप्राणादिपरिणतिरूपामसङ्कीर्णामनादिमध्यान्तां वस्तुनियतिमेकामनेकरूपां बन्धमोक्षप्रक्रियानियतिसूक्ष्मां पश्यन्ननन्तकालमव्याबाधसुखं तिष्ठतीति ।
सर्वज्ञोऽपि चेत्यादि, यदपि च सम्यग्दर्शनज्ञानचारित्रतपोभिर्ज्ञानावरणाद्य शेषकर्मक्षयात् केव - 15 लज्ञानप्राप्तिः सार्वज्ञ्यं पौरुषेणेति मन्यसे तदपि मा संस्था नियतिमन्तरेणेति, कथं तर्हि मन्तव्यम् ? सार्व नियतेरेव भवतीति, तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवतीति, तथैव च नियत्या नान्यथेति । स हि भव्यभव्य सिद्धादिभेदेषु पुरुषेषु गतिस्थित्यवगाहवर्त्तनारूपरसादिशरीरवाङ्मनः प्राणादिपरिणतिरूपामसङ्कीर्णामनादिमध्यान्तां - कालत्रयेऽपि अनुत्पत्तिमविनाशां स्वेन रूपेणाविपरिणामां लोकस्थित्यनतिक्रमेणाप्रच्युतस्वरूपां वस्तु नियतिं - बीजादिनियताङ्कुरादिवस्त्वात्मिकामेकां - सर्वभेदेष्वभिन्नामनेक20 रूपां - तेषु भेदेषु तद्रूपनियतित्वादनेकां बन्धमोक्षप्रक्रिया नियतिसूक्ष्मां - जीवकर्मणोरनाद्येन सम्बन्धेन
नियतेरेव महिम्ना नान्यस्या इत्याह- एवमिति । नियतिरेव प्रयोजिकेति भावः । करणादीन्यपि तथैवेत्याह- करणेति । एतदिति यदेतत् समाने उद्यमननिपतने परशुना छिद्यते न तृणेन न वा पत्रेण तत्परशोः छेदने सामर्थ्यलक्षणनियतिसद्भावादेवेति भावः । तेषामेवेति करणादीनामित्यर्थः, करणादीनां कार्यानुकूलनिखिलकारणसमवधानासमवधाने नियतिकृते एवेति भावः । कालाकालाभ्यामपाकपाकलक्षणव्यभिचारनिराकरणायाह-यदुक्तमिति । सार्वश्यमपि पुरुषस्य नियति कृत25 मेवेत्याह- सर्वज्ञोऽपीति । सर्वं समस्तं द्रव्य प्रदेशपर्याय नियतिरूपं वस्तु जानाति नियतिबलसमुपलब्धसमस्तावरणक्षयाविर्भूत केवलसंवेदनेनावबुध्यते विशेषत इति सर्वज्ञः, न तु पुरुषकारादिनिर्वर्त्यं सार्वयमित्याह - यदपि चेति । स हि भव्येति, ' सः - सर्वज्ञः, पुरुषास्त्रिविधाः भव्याः अभव्याः सिद्धाश्चेति, सिद्धिगमनयोग्यनियतिमन्तो भव्याः, तद्विपरीतनियतिमन्तोऽभव्याः सिद्धास्तु न भव्या नाप्यभव्याः, सिद्धत्वादेव योग्यत्वायोग्यत्वविरहात्, एवं त्रिविधेषु पुरुषेष्वित्यर्थः । गतीत्यादि, गतिलक्षणो धर्मः, स्थितिलक्षणोऽधर्मः, अवगाहनालक्षणमाकाशम्, वर्त्तनालक्षणः कालः, रूपरसादिमान् 30 षुद्गलः, तथा शरीरवाङ्मनः प्राणादिरूपेण असङ्कीर्णतया परिणता नियतिरेवेत्यर्थः, सा चादिमध्यान्तर हितेत्याह- अनादीति, एवंविधा केत्यत्राह - वस्तुनियतिमिति, तस्या एकानेकरूपतामाचष्टे - एकामिति, सामान्यात्मनैकामित्यर्थः । सामान्यतः स्थूलभूतां नियतिमुक्त्वा सूक्ष्मरूपां तामाह-बन्धमोक्षेति, बन्धखरूपमाचष्टे - जीवकर्मणोरिति, जीवस्य कर्मणश्च योऽयं परस्परो योगः सोऽनादिः परस्परं शरीरकर्मणोः सन्तानस्य बीजाङ्कुरबत् हेतुहेतुमद्भावेनानादित्वात् तस्मात् किं पूर्वं जीवः, पश्चात् कर्म ? किं वा पूर्वं कर्म पश्चाज्जीव इत्याशङ्का नास्ति । तच कर्म ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org