________________
कालवादारम्भः] न्यायागमानुसारिणीव्याख्यासमेतम् सम्बद्धयोः कार्यकारणभूतैर्मिथ्यादर्शनादिभिर्नियतिवशात सन्तत्यानाद्यो बन्धः। भव्येषु बन्धोद्वर्तनसमर्थसम्यग्दर्शनादिभावनियतिविवर्त्तान्मोक्षहेतोरमूर्तस्वभावस्य ज्ञानदर्शनवीर्यसुखादिस्वात्मनः स्वात्मन्यवस्थानं मोक्ष इत्येतां बन्धबन्धकबन्धनीयबन्धविधानाद्यने कभेदप्रभेदबन्धप्रक्रियां व्रतसमितिगुप्ति[यति]धर्मानुप्रेक्षापरीषहजयचारित्रसंवरां द्वादशविधतपोऽनुष्ठान निर्जरां क्षेत्रकालगतिलिङ्गतीर्थप्रत्येकबुद्धबुद्धबोधितज्ञानावगाहनान्तरसंख्याऽल्पबहुत्वाद्युपायव्याख्येयां कृत्स्नकर्मक्षयाच्याबाधात्यन्तैकान्तसुखात्मिकाश्च । मोक्षप्रक्रियां परमसूक्ष्मां पश्यन्ननन्तकालमव्याबाधसुखं तिष्ठति, एषा च बन्धमोक्षप्रक्रिया दिङ्मात्रमुपदर्शिता, अतिसूक्ष्मत्वाद्बहुवक्तव्यत्वाच्च नात्र परीक्षाकाले शक्या वक्तुम् । यथोक्तं-'लोगम्मि जीवचिंता सबागमकोसिया दुरोगाहा । तत्तो वि कोसियतरी चिंता बंधे य मुक्खे य ॥' इतिः परिसमाप्त्यर्थः, इत्थं नियतिवादः परिसमाप्तः ॥ अथ काल वादः
10 अपरो द्रव्यार्थो विधिविधिनयविकल्प आह
नायमपि नियतिवादः परितोषकरः, एवं तर्हि भावनयाऽनयैव त्वदुक्तया युगपदयुगपन्नियतार्थवृत्तेर्न नियतिरेव, किन्तर्हि ? काल एव भवतीति भावितं भवति ।
(नायमपीति) एवं तहीत्यादि, येयमुक्ता ज्ञाज्ञस्वतंत्रास्वतंत्रत्वान्न ज्ञ एव भवितुमर्हति, किं तर्हि ? नियत्यैव युगपदयुगपञ्चानेकधा क्रियादिकार्यकारणभावनियतमेतदिति भावनयाऽनयैव 15 त्वयोक्तया युगपदयुगपन्नियतरूपादिबीजाङ्कराद्यर्थवृत्तेर्न नियतिरेव भवति, किं तर्हि ? काल एव भवतीति भावितं भवति 'अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति काललिङ्गानि' (वै. द. २।२।६) इति वचनात् , युगपदयुगपन्नियतार्थानां वृत्तेर्भवनार्थत्वात् , वर्तनस्य काललक्षणत्वादिति । न्तरायरूपमष्टविधम् , तैः जीवस्य प्रतिप्रदेशं प्रकृतिस्थित्यनुभागप्रदेशात्मकतया संश्लेषणं बन्धः, तत्र मिध्यादर्शनस्य प्राधान्यात प्राथम्येनोपादानम् , आदिनाऽविरल्यादेर्ग्रहणम् । मोक्षस्वरूपमाख्याति-भव्येष्विति, भव्यजीवेष्वेव कर्मसन्ततेरनादे- 20 रात्यन्तिकक्षयसम्भवात्तदुपादानम्, कर्मबन्धस्योद्वर्त्तनेऽन्यथाकरणे समर्था या सम्यग्दर्शनज्ञानचारित्रलक्षणभावनियतिः तस्याः परिणामविशेषादित्यर्थः। तथाविधनियतिवशात् प्रध्वस्तकर्मणोऽमूर्तज्ञानदर्शनवीर्यसुखादिवरूपस्यात्मनः खस्वरूपेणावस्थानं मोक्ष इति भावः । एवं बन्धमोक्षखरूपमुक्त्वा बन्धप्रक्रियामादर्शयति-बन्धबन्धकेति,जीवकर्म संश्लेषो बन्धः, सकषाय आत्मा बन्धकः, ज्ञानावरणीयादीनि बन्धनीयानि, प्रतिप्रदेशं प्रकृतिस्थित्यनुभागप्रदेशरूपतया बन्धनं बन्धप्रकारः । मोक्षोपयोगिनं सप्रभेदं संवरमादर्शयति-वतेति. निर्जरामाचष्टे-द्वादशेति, इत्थमुक्तान् जीवाजीवानवसंवरनिर्जराबन्धमोक्षानभिधाय 25 तन्निरूपणोपायभूतं द्वारमाचष्टे-क्षेत्रेति, क्षेत्रादयो वस्तुनो व्याख्याप्रकाराः । कृत्नेति, सम्यग्दर्शनज्ञानचारित्रेभ्योऽष्टप्रकारस्यापि कर्मणः सामस्त्येन प्रलयात् बाधारहितं दुःखलेशेनाप्यसंसृष्टं निरवधि सुखलक्षणं मोक्षमित्यर्थः, तदेवं सर्वज्ञः पूर्वोदितं निखिलं वस्तु पश्यन् निरवधिकालं परमसुखस्वरूपतयाऽवतिष्ठते इति भावार्थः । लोगम्मि इति 'लोके जीवचिन्ता सर्वागमोत्कृष्टा दुरवगाहा । ततोऽप्युत्कृष्टतरी चिन्ता बन्धे च मोक्षे च ॥ इति छाया । अथ कालवादमुत्थापयितुकाम आह-अपर इति । पूर्व नियतिवादिना 'अधिकज्ञाज्ञस्वतंत्रास्वतंत्रस्वविषयनियतकर्तकरणाधिकरणकर्मादिनियतशक्तिदर्शनात् देवदत्तकाष्ठ-30 स्थालीतन्दुलोदकादीनां तन्नियमकारिणा कारणेनावश्यं भवितव्यं तेषां तथाभावान्यथाभावाभावादिति नियतिरेवैका कति भावना प्रोक्ता तयैव कालस्य सिद्धिर्न नियतेरित्याह-येयमुक्तेति। कालसाधक्वैशेषिकसूत्रमुपन्यस्यति-अपरस्मिन्निति अपरस्मिन् वस्तुन्यपरमिति परस्मिन् परमिति युगपदिति चिरमिति क्षिप्रमिति प्रत्ययो यतो भवति तत् सर्वस्य कारणमाधारश्च द्रव्य काल उच्यत इति भावः । पदार्था यौगपद्यनायौगपद्येन वा नियताः तेषां तथा वर्तनमेव भवनं वर्तनञ्च काल एव, तल्लक्षणत्वा
द्वा० न० ३२
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org