________________
२५०
द्वादशारनयचक्रम्
तद्भावनार्थमाह-
इह युगपद स्थायिनो घटरूपादयः किं परस्परं प्रविभक्तितः स्वेनैव भवन्ति उत काल सामर्थ्यात् ? तत्र तावन्न केचिदपि वस्तुप्रविभक्तितः, तेषां सहोपलभ्यमानानामपि तद्व्यतिरेकेणाभावात्, भिन्नेन्द्रियग्राह्यत्वादेव च तेषामैक्याभावाद्यौगपद्यमतो युगपद्वृत्तिप्रख्यानात्मकं नात्मानं कालमन्तरेण न ते युगपद्भवितुमर्हन्तीति रूपादयो युगपदित्ये - तत् काल सामर्थ्यात् एवं घटो ग्रीवादयो मृल्लोष्टादयः पृथिवी मृदादयो द्रव्यं पृथिव्यादयो द्रव्यादयो भाव एव तथावृत्तेस्तथाभवनात् ।
"
(इति) इह युगपदस्थायिनो ये घटरूपादयस्ते किं परस्परं प्रविभक्तितः खेनैव भवन्त्युत काल सामर्थ्यादिति वस्तुरूपेण तावश्चिन्त्यते । तत्र तावन्न केचिदपि वस्तुप्रविभक्तिः, भवन्तीति 10 वाक्यशेषः- रूपरसगन्धस्पर्शशब्देभ्यः प्रविभक्त्या - प्रविभागेन सद्रूपेण प्रविभक्तितो वा कारणान्न भवन्ति, तैः सहोपलभ्यमानानामपि तद्व्यतिरेकेणाभावात्, भिन्नेन्द्रियग्राह्यत्वादेव च तेषामैक्याभावाद्यौगपद्यं-नानात्वं सिद्धम्, न भिन्नस्य यौगपद्यम्, युगस्य - स्कन्धयोः पतनं युगपत्, एवमन्यत्रापि । अनेकाश्रयं यौगपद्यमतो रूपादयो युगपद्वर्त्तन्त इत्येषा वृत्तिप्रख्यातिर्दृष्टाऽर्थतः, शब्दतोऽपि वर्त्तनं कलनं संख्यानं प्रथनं बुद्ध्या शब्देन वा निरूपणमिति वृत्तिरेव, तस्मात् कलनं काल 15 इत्यक्षरार्थानुसारेण वर्त्तनं कालस्तं कलनात्मानं युगपद्वृत्तिप्रख्यानात्मकमन्तरेण न ते केचिद्रूपादयो युगपद्भवितुमर्हन्ति, तस्माद्रूपादयो युगपदित्येतत् कालसामर्थ्यात् एवं सूक्ष्मा रूपादय उक्ताः । स्थूला अप्येवं घटो ग्रीवादयः, तथावृत्तेः- युगपद्वृत्तेः कस्य ? कालात्मनः । एवं वृत्तिश्च भवनमित्यत आहतथाभवनादिति, मृल्लोष्टादयः - मृदिति लोष्टादय एव युगपद्वृत्तेः पृथिवी मृदादय एव तथावृत्तेरेवं मृल्लोष्टात् भस्मसिकतादयः, एवं द्रव्यं पृथिव्यादयः - पृथिव्यप्तेजोवाय्वाकाशादयो युगपद्वृत्तयो
Jain Education International 2010_04
[ विधिविध्यरे
६० तस्येत्याह- युगपदिति । अथ युगपदवस्थायिवस्त्वपेक्षया कालसाधनमाह-इह युगपदिति । परस्परमिति, घटापेक्षया रूपादेः, रूपापेक्षया घटादेः, रूपरसादेर्वा परस्परमित्यर्थः तथा च घटरूपादयः किं स्वेनैव विभिन्ना भवन्ति, उत केनचित् कारणेनेति शङ्कार्थः । तत्र केचिदपि घटरूपादयः पदार्था न खेनैव प्रविभक्ता भवन्ति किन्तु केनचित्कारणेनैव तच्च कारणं तथावर्त्तनलक्षणः काल एवेत्याह-तत्र तावदिति । रूपादिभ्यो घटादेः सहोपलभ्यमानत्वेऽपि रूपादिव्यतिरेकेण घटादेरभावात्, यदि हि स्वरूपेणैव भेदो भवति तर्हि रूपादिभिन्नतया तत्प्रतीयेत, न चैवम्, तस्मान्न खेनैव प्रविभक्तिरित्याह - रूपर 25 सेति । ननु घटरूपादेर्यदि सहोपलंभनियमस्तर्ह्यभेदः स्यादित्यत्राह - भिन्नेन्द्रियेति, रूपस्य चक्षुर्ब्राह्यत्वाद्वटादेः स्पर्शनेन्द्रयेणापि ग्राह्यत्वान्नाभेदस्तयोरित्यर्थः, नाभिन्नस्य यौगपद्यं सम्भवति, तस्यानेकाश्रयत्वाद्रूपादीनामनेकत्व मे षितव्यम् । तथा च तेषां युगपद्वृत्तित्वं कालमन्तरेण न भवितुमर्हतीति काल एवैकं कारणं सर्वेषामिति भावः । प्रख्यातिः - प्रसिद्धिः । एवं यौगपद्यमर्थतोऽभिधाय शब्दतोऽपि वर्त्तनमाह - शब्दतोऽपीति, कल शब्दसंख्यानयोरिति धातुः कलनं कालः- संख्यानं संशब्दनं वा भावे णप्रत्ययः, स च नवपुराणादीनां वा पर्यायाणां कथनलक्षणः कालः । कलयन्ति वुझ्या मासिकोऽयं सांवत्सरिकोऽयमित्यादि30 रूपया वस्तु निरूपयन्ति तस्मिन् सतीति कालः, चेतनाचेतनद्रव्यस्यावस्थानरूपं वर्त्तनं पर्यायलक्षणं काल इति शब्दार्थनिर्णयः । एवं सूक्ष्माणां युगपद्वृत्तिं प्रख्यानात्मकं कालमुक्तत्वा घटग्रीवादिमृल्लोष्टादिस्थूलानां युगपद्वृत्त्यात्मना भवनं कालसामर्थ्यादित्याहस्थूला अपीति । ग्रीवादीनां युगपद्वर्त्तनं घटः, तथाभवनात् लोष्टादिसमुदायो मृत्, मृल्लोष्टादय एव पृथिवी, पृथिव्यतेमोवाय्वादय एव द्रव्यं द्रव्यगुणादयो भावः, एतेषां युगपद्भवनात् घटमृदायाख्या भवन्ति, एवं वर्त्तनं काल एवेति भावः ।
2
,
For Private & Personal Use Only
www.jainelibrary.org