________________
नियतिवादे दोषाः] न्यायागमानुसारिणीव्याख्यासमेतम्
२५१ द्रव्यम् । द्रव्यादयो भावः, द्रव्यगुणकर्मणां सप्रभेदानां भाव इत्याख्या, युगपद्भवनात्, एवं तावद्युगपद्वृत्तिः काल एव भवतीति भावितम् ।
क्रमवृत्तिनियतिरपि काल एव भवतीति भाव्यते तत आह
अयुगपद्भाविनोऽपि भवितुकामस्य वस्तुनो वृत्त्यात्मककालाभावेऽनुपपत्त्यापत्तेः वर्तनाभावाद्वन्ध्यासुतवत् सति च तदुपपत्तेः कालात्मकता ।
अयुगपद्धाविनोऽपीत्यादि यावदापत्तेः । अयुगपद्भवितुं शीलमस्येत्ययुगपद्भावी, तस्य अयुगपद्भाविनो भवितुकामस्य-भवनाभिमुखस्य बीजाङ्कुरादेर्वस्तुनो यदि वृत्त्यात्मककालभावो नाभ्यु पगम्यते ततो वर्त्तनादतिरिक्तस्य कस्यचिदप्यनुपपत्तिरापद्यते वर्तनाभावाद्वन्ध्यासुतवत्, ततश्चानुपपत्त्यापत्तेः, सति वर्तनात्मके काले तदुपपत्तेः कालात्मकता । एवं तावनियताभ्युपगमः काल. मन्तरेण न भवतीति युगपदयुगपद्वृत्त्यात्मकः, काल एव भवतीत्युक्तम् ।
इदानीं नियतिवादिनो दोषोऽभिधीयते
नियतेस्तु सर्वात्मकत्वात्स्वभावोपालम्भवन्नियत्युपालम्भोऽपि त्वामपि प्रति समानः, सदा सर्वस्यातीतानागतानाकारतावद्वर्त्तमानानाकारता स्यात् वर्तमानाकारतावदतीतानागताकारताऽपि स्यात् ।
नियतेस्त्वित्यादि यावत्सदा सर्वस्य, यत उक्तस्त्वया स्वभाववादिना प्रति बाल्यकौमार-15 यौवनमध्यमाद्यवस्था युगपत् स्युः, सर्वाकारस्वभावत्वाद्देवदत्तादेः, अङ्कुरपत्रकाण्डाद्यवस्थाश्च युगपत् स्युज़्यादेरित्युपालम्भः, स एव नियतेः सर्वात्मकत्वात् कस्मात्सर्वाकारनियतमेव न भवतीति स्वभावोपालम्भवन्नियत्युपालम्भोऽपि त्वामपि प्रति नियतिवादिनं प्रति समानः सदा-सर्वकालं सर्वस्य वस्तुनस्तस्य तस्येति कालाभावेऽतीतानागतवर्तमानाविशेषात् , दृष्टा चातीतानागतानाकारता वर्तमानाकारता च, वृत्त्यात्मककालाभावानियतेश्चाविशेषादतीतानागतानाकारतावद्वर्त्तमानानाकारता स्यात् , 20 वर्तमानाकारतावदतीतानागताकारतापि स्यात् , न च दृष्टाऽतीतानागताकारता वर्तमानानाकारता वा।
अयुगपदिति सहैव भवितुं शीलं येषां नास्ति ते बीजाङ्कुरनालकाण्डादयः स्वस्ख कारणे सन्तोऽपि निखिलेतरकारणसमवधानेऽपि न सह भवन्ति, किन्तु क्रमेणैवेत्यवं वर्तननियमो यतः स काल एव, नियामककालाभावे हि वर्त्तनाया असम्भवेन वृत्तिरहितवस्त्वभावाद्वन्ध्यापुत्रवद्वीजादय आपद्यन्त इति तथाविधः काल एषितव्य इति भावः । नियतार्थेति, योगपद्येनायौगपयेन वा नियता ये रूपादयो बीजादयश्चार्थाः तेषामभ्युपगम इत्यर्थः । ननु 'नच खाभावात् बालादिकाल एव युवतादियुगप-25 दभावे भेदक्रमनियतावस्थोत्पत्तिस्थितिच्यतिदर्शनात् , तत्तथानियतिवस्तु, तदनभ्युपगमे सर्वाविवेकेऽवस्थाखभावाद्यभावादभ्यपगमविरोधस्ते जायत' इति खभाववादिनं प्रति नियतिवादिनोक्तदोषस्तवापि प्रसज्यत इत्याह-नियतेस्त्विति, नियतिरपि हि सर्वात्मिका तथा च खभाववादे य उपालम्भः स एव नियतिवादेऽपि, नियतेः सर्वात्मकत्वे हि कस्मात् सर्वकालनियतं वस्तु न भवति,भवत्येवेत्याह-स एवेति, समानतामाचष्टे-सर्वकालमिति । भूतभविष्यद्वर्तमानाख्यास्त्रयः कालविभागातदभावे तु सर्वं सर्वदा भवेत् , न वा भवेत् , न चैवम् , वर्तमानाकारताया वस्तूनां दर्शनात् वर्तमानाकारतया हि प्रकाशनं दर्शनम् , अती- 30 तानागताकारताभ्याश्च तिरोधानम्, कालाभावे त्वेवं न स्यादिति भावः । ननु नासतामुत्पादो न सतां विनाश इति सत्येव वर्तमानाकारताबदतीताकारताऽनागताकारता च, एताश्च वस्तुधमाः, यस्य धर्मस्य समर्थहेतुसम्पातस्तस्योदयोऽपरयोरनावि.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org