________________
२४० द्वादशारनयचक्रम्
विधिविध्यरे रश्चां इति चेन्न । अत्रापि तथानियतिवशेनैव प्रसवादिधर्मव्यतिक्रमो वस्तुस्वभावव्यतिक्रमश्चोपलभ्यते ।
(अनेकस्मिंश्चेति ) अनेकस्मिंश्च पृथिव्यम्बुतेजोवाय्वादिस्वरूपेऽर्थे पृथिव्यादीनामेव तद्भावापत्ते/हिरित्येकत्वादभेदा, एकापि सती भिन्ना, अनेकाऽपि सत्यभिन्ना तथातथाऽनियतार्थवशात्5 द्रव्यदेशकालभावानामुत्पातादिष्वनियमदर्शनादनियतिकारणत्वम् , दृष्टं हि प्रसवादिवैकृतम् , आदिग्रह
णात् निलयाऽऽहारक्रियाप्रकृतिवैकृतानि नरतिरश्चां विपर्ययेण संख्याकृतिवर्णावयवादिजन्मानि प्रामारण्यकजलस्थलजन्मनां तच्चारिणाश्च वसत्यादि विपर्ययः, अभक्ष्यभक्षित्वं रोषक्षमादिशीलविपर्ययः, पलितस्यैवोत्पत्तिरित्याद्यवस्थाविपर्यय इत्येवमादिवैकृतदर्शनान्न नियतिरेव कारणमिति चेन्नेत्युच्यते
अत्रापि तथानियतिवशेनेत्यादि यावद्व्यतिक्रम उपलभ्यत इति, अत्रापि तादृशी नियतिरेव कारण10 मिति, किश्वान्यत् न केवलं प्रसवादिधर्मव्यतिक्रम एव, किं तर्हि ? वस्तुस्वभावव्यतिक्रमश्च ।
नियतिवशादेव किञ्चित्सदसाध्यं, असदसाध्यं, असत्साध्यं सत्साध्यञ्च प्रतिपद्यते, सदपि चाकाशं भूगन्धवदनभिभवं सलिलसेचनेन सन्तमसस्थघटवत्प्रदीपेन चासाध्यम् ।
(नियतीति) नियतिवशादेव किञ्चित् सदसाध्यमित्यादिचतुर्भङ्गी स्फुटार्थत्वान्न वित्रियते, सा चोद्दिष्टा निर्देक्ष्यमाणा च । तथा च पुरुषो नियतेरेव तथावृत्तत्वात्तत्साध्यासाध्यत्वे प्रतिपद्यते । 15 तत्र सदसाध्यत्वे निदर्शनं-सदपि चाकाशं भूगन्धवदनभिभवम् , नास्याभिभवोऽस्तीत्यनभिभवं सलिलसेचनेन न साध्यमित्यर्थः, तथा सन्तमसस्थघटवत् प्रदीपादिना चासाध्यम् , किं तत् ? आकाशादि, सत्त्वात् साध्यं भूगन्धवदिति प्राप्तेऽप्यसाध्यमेव ।
वन्ध्यापुत्रादि असदसाध्यम् , इदन्तु नियतिवशादेवासत्त्वात् , नियत्यैव नासत् साध्यतामर्हति, साधनाविष्टक्रियासाध्यत्वात्साध्यानाम्, क्रिया हि साधनेषु वर्त्तमाना सन्तमर्थ 20 साध्यमाविशति प्रत्यर्थनियतत्वात् साधनानुषङ्गस्य, साध्याभावात्तु सा किमाविशतु ।।
(वन्ध्येति,) इदन्तु स्त्रीपुंसयोगादवन्ध्यापुत्रवत् साध्यमिति प्राप्ते तद्व्यवस्थाविपरीतनियत्या वन्ध्यापुत्रादि असाध्यमेव, नियतिवशादेवासत्त्वात् , तन्न नियत्या सत्, नियत्यैव नासत्साध्यतामर्हति ।
द्रव्येति, भौमान्तरिक्षाद्युत्पातादिषु द्रव्यक्षेत्रकालभावानां व्यतिक्रमदर्शनात् , नियतिकारणत्वे तु व्यतिक्रमो न भवेदेव, तस्मान नियतिः कारणमिति भावः। अनियममेव दर्शयति-दृष्ट हीति नास्ति नियतेरकारणत्वम् , उत्पातादिसम्भवे प्रसवादीनां 25 तथाभवननियमादेव भावात् , न केवलं धर्मवैपरीत्यमेव, किन्तु केञ्चित् खभावेनापि अन्यथा भवन्ति तथाविधनियतिबलादि
त्युत्तरयति-अत्रापीति । तमेव व्यतिक्रमव्युत्पादयति-नियतिवशादेवेति सद्धि साध्यं दृष्टं यथा मृत्पिण्ड एव घटो भवति, तथा नियतेः, तथा विचित्र नियतेरेव च सदपि गगनमसाध्यं भवतीत्याह-सदपि चाकाशमिति । व्यतिरेकनिदर्शनमाहभूगन्धवदिति, यथा भुवि सन्नेव गन्धो जलसेकेनाभिभूयते-साध्यते, यथा वा अन्धकारे विद्यमान एव घटः प्रदीपेनाभिभूयते-अभिव्यज्यते न तथाऽऽकाशमिति नियतेर्वैचित्र्यमिति भावः । एवमेव नियतिवैचित्र्येणैव पुरुषो देवदत्तादिः खरूपतोऽ. 30 साध्योऽपि सन् बाल्यकौमारादिना पाण्याद्यवयवरूपादिबाह्यगुणपटुजडताद्यान्तरगुणखभावेन साध्यमपि भवतीत्याशयेनाहतथा च पुरुष इति, आकाशं साध्यं सत्त्वाद्भूगन्धवदित्यनुमानेनाकाशस्य साध्यत्वे प्राप्तेऽपि तथाविधनियतेरेवासाध्यत्वमिसाह-आकाशादीति । द्वितीयभङ्गमाह-वन्ध्येति । स्त्रीपुंसंयोगादवन्ध्यायां यथा पुत्रः साध्यते तथा वन्ध्यापुत्रोऽपि साध्यता प्राप्तः किन्तु स्त्रीपुंसंयोगात् पुत्रो भवतीति व्यवस्थाविरोधिनियत्या स असाध्य एव, वन्ध्यायां नियतिवशादेवा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org