________________
मैदाभेदेऽविरोधः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
२३९
युवताद्यवस्था युगपत्स्युर्न च भवन्ति, तस्माद्बालकाल एव युवादियुगपदभावे भेदक्रमेण नियतानां तासामेवावस्थानामुत्पत्तेः स्थितेश्युतेश्च दर्शनान्न स्वभावः कारणम्, किं तर्हि ? नियतिरेव कारणमभ्युपगन्तव्यम् । तथा तु तेन हेतुना तेन प्रकारेण दृष्टोत्पत्त्याद्यवस्थाभेदक्रमनियमेन तत्तथा नियतिवस्तु, तदनभ्युपगमे सर्वाविवेके - सर्वावस्थानामविवेकेऽभ्युपगम्यमाने स्वभावाद्यभ्युपगमे सति ता अवस्था न स्युः । न वाडवस्थारूपाः स्वभावाः, न स्युर्देवदत्तादेर्बाल्याद्याः सुप्ताद्या वा । ततोऽवस्था- 5 स्वभावाद्यभावादभ्युपगत एव स्वभावो न स्यात् । ततोऽभ्युपगमविरोधस्ते जायते स्वभाववादिनः । आदिग्रहणात्तत्तदवस्थासहवर्त्तिनः पाण्याद्यवयवस्वभावस्य रूपादिबाह्यगुणस्वभावस्य पटुजडताद्यान्तरगुणस्वभावस्य वाऽभावादभ्युपगमविरोधः । अथवाऽऽदिग्रहणात् कालस्यापि पूर्वोक्तन्यायेन युगपदभावेन वाऽभावादभ्युपगमविरोधः कालकारणिनोऽपि । तस्मादिदं प्राप्तमभ्युपगन्तुम् - तद्धि नियमो न नियतेरन्यतोऽवतिष्ठत इति ।
तस्या एव नियतेरेकत्वानेकत्वविरोधपरिहारार्थं दृष्टान्तमाह
यथा लोक एकत्व एव पर्वताद्याकारावग्रहो भिद्यते यथा वा ज्ञानमेकत्वेऽप्यनेकबोध्याकारं भवति, अन्यथा घटपटाद्याकारमन्तरेण ज्ञानात्मलाभाभावात् एवं भेदाभेदरूपेण नियतिः । तथा नियमात्मकत्वात् सा नियतित्रीहिरित्येकस्मिन् वस्तुन्येका मूलादिभेदे च भिन्नाऽङ्कुरादिर्भवति ।
15
"
( यथेति यथा लोक इत्येकत्व एव पर्वताद्याकारावग्रहः - एक एव लोकः सरित्समुद्रमही प्रमामारामादिभिराकारैरवगृह्यमाणो भिद्यते, एवं भेदाभेदरूपेण नियतिः, एतद्वाह्यं निदर्शनम् । आन्तरन्तु यथा ज्ञानमेकत्वेऽप्यनेक बोध्याकारं भवति, किं कारणं ? अन्यथा घटपटाद्याकारमन्तरेण ज्ञानात्मलाभाभावात् । एतस्योदाहृतस्यार्थस्य भेदाभेदखरूपभावनेयमुच्यते - तथा नियमात्मकत्वादित्यादि यावदरादिर्भवतीति सा नियतिर्त्रीहिरित्येकस्मिन् वस्तुन्येका मूलादिभेदे चाङ्कर इत्येवं भिन्ना अङ्कुरकिसल - 20 यपत्रकाण्डादित्वाद्यवस्थाभेदाद्भिन्ना, रूपरसादिभेदाद्वा भिन्ना ।
"
अनेकस्मिंश्च पृथिव्यम्बुतेजोवाय्वादिस्वरूपेऽर्थे पृथिव्यादीनामेव तद्भावापत्तेर्बीहिरित्येकत्वादभेदा । तथातथाऽनियतार्थवशादनियतिकारणत्वं दृष्टं हि प्रसवादिवैकृतं नरति
"
Jain Education International 2010_04
10
सद्भावात् सर्वा अवस्था युगपत् स्युः न तु क्रमेण तस्मान्न कारणमिति भावः । एकदैकस्यैकस्या एवावस्थायाः स्वभावेऽभ्युपगम्यमाने दोषमाह-न स्युरिति । अवस्थास्वभावादीत्यत्रादिपदग्राह्यानाह - आदिग्रहणादिति । तदवस्थेति - बाल्याय - 25 वस्थेत्यर्थः । यद्वाऽऽदिग्रहणेन कालस्य ग्रहणमित्याह - अथ वेति । युगपदभावेनेति, सकृदेकस्वभावस्यैव एककालस्यैव वा सम्भवेन बाह्यान्तरादिनानावस्थाप्रयोजकस्वभावानां कालानां वा युगपदभावेन तासामवस्थानामभावादित्यभिप्रायः प्रतिभाति । ननु नियतेः सदसदात्मकत्वमासन्नानासन्नात्मकत्वमेकानेकत्वात्मकत्वं विरुद्धमित्यस्य परिहारार्थमाह-यथेति । अनुभवमात्रेणैकरूपस्य साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातः स्तम्भज्ञानं कुब्यज्ञानं घटज्ञानं पढ़ज्ञानमिति नासौ ज्ञानगतविशेषमन्तरेणोपपद्यते इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्त्तव्यम्, नहि बुद्ध्यारूढेन रूपेण विना 30 प्रमाणादिव्यवहारो घटते, तस्मान्नानाकारमपि ज्ञानमित्याशयेनाह - यथा वा ज्ञानमिति । नियतिरेकाऽपि सती भिन्ना भवति, अनेकाऽपि सत्येका भवति यथा क्षितिसलिलानलानिलाद्यनेकेन व्रीहेरेकस्यैव पृथिवीपरिणामस्योत्पत्तिदर्शनादत एक एवाने को भवति, नानेक एको भवतीति न नियमः तथा च तथाऽनियतार्थवशान्न नियतिः कारणमित्याशंकते - अनेकस्मिंश्चेति,
For Private & Personal Use Only
www.jainelibrary.org