________________
२३८. द्वादशारनयचक्रम्
[विधिविध्यरे नानावस्था येषां ते तदतदासन्नानासन्ननानावस्थद्रव्यदेशादयः, तैः प्रतिबद्धाया एव नियतेर्भेदात्, द्रव्यदेशादित्वेनेत्यादिग्रहणात कालभावाभ्याञ्च । सैव नियतिव्यतो घटरूपेण सा भवति, पटरूपेणासा, घटान्तरस्यासन्नाऽऽकारप्रत्यासत्या, पटाकारेणाप्रत्यासन्ना । क्षेत्रतो यास्मंश्चक्रमूर्धनि क्रियते तस्मिन्नेव, यत्र वा भूप्रदेशे तिष्ठति ग्रीवादिदेशे वा तत्रैव नान्यत्रेति, कालतो यावत्कालेन निर्वर्त्तते 5 यावन्तं कालं वा तिष्ठति सा कालनियतिः, भावतो यैर्वर्णैः कृष्णादिभिर्यथा भवति तथैवेति नियतिरेवं
द्रव्यदेशादिप्रतिबद्धभेदाद्वस्तुविरचना नियत्येकत्वेऽपि, किमिव ? मेघगर्भवत् , यथा मेघा गर्भ गृहन्तो याहक् यावञ्च जलं गृह्णन्ति यथा च तादृक् तावत्तथैव विसृजन्ति द्रव्यतः, क्षेत्रतो यत्र गृहन्ति देशे तत्रैव विसृजन्ति, कालतो मार्गशिरो मासे गृहीतं वैशाखे विसृजन्तीत्यादि, भावतो यथा गृहीतं क्षार
मधुरादि तथैव विसृजन्ति सत्त्वौषधिवनस्पतिशोषपोषकरादीति । तदुपसंहरति-'नाभाविभावो न च 10 भाविभावः' इति, प्राक्तनेन वृत्तेन गतार्थम् । . स्यान्मतमयं नियमः कालात् कालस्य क्रमाख्यत्वाच्च पूर्वोत्तरादिकालक्रमनियतपरिणामत्वा. दावानामिति एतन्न_ न कालादयं विचित्रो नियमः, वर्षारावादिष्वपि क्वचिदनियतप्रवृत्तेः, दृश्यते यदुरकिसलयपत्रपुष्पफलगर्भप्रसवादिव्यभिचारो वनस्पतिसत्त्वादिनां स्वतः प्रयोगतश्च । नच 18 स्वभावात् , बालादिकाल एव युवतादियुगपदभावे भेदक्रमनियतावस्थोत्पत्तिस्थितिच्युतिदर्शनात् , तत्तथा नियतिवस्तु, तदनभ्युपगमे सर्वाविवेके अवस्थास्वभावाद्यभावादभ्युपगमविरोधस्ते जायते, तद्धि नियमो न नियतेरन्यतोऽवतिष्ठते ।
(नेति) न कालादयं विचित्रो नियमः, कस्मात् ? वर्षारावादिष्वपि कचिदनियतप्रवृत्तेः, दृश्यते ह्यङ्करकिसलयपत्रपुष्पफलगर्भप्रसवादिव्यभिचारो वनस्पत्यादीनां सत्त्वानाश्च स्वतःप्रयोगतश्च20 वर्षाशरद्धेमन्तशिशिरवसन्तनिदाघेषु स्वपरिणामकालेष्वप्रवृत्तिदर्शनादस्वकालेषु च कचित् प्रवृत्तिदर्श
नात् । यद्यपि मन्येत स्वभावादिति तन्न च स्वभावादित्यादि यावदभ्युपगमविरोधः, वनस्पतिसत्त्वादे. बाल्यकौमारयौवनस्थविरावस्थाः, सर्वोऽसावस्य खो भावः स्वभाव इति, अतो बालादिकाल एव अतस्तत्प्रतिबद्धाया अपि नियते नारूपत्वमिति भावः । द्रव्यदेशकालभावैर्नियतेः प्रतिबन्धं घटमागृह्य निदर्शयति-सैव नियतिरिति, यथा घटः खव्यक्षेत्रकालभावैः सन् , परद्रव्यक्षेत्रकालभावैरसन् , तथा तत्प्रतिबद्धा नियतिरपि, एवं 25 खद्रव्यादिभिर्घटो यथाऽऽसन्नः परद्रव्यादिभिरनासन्नस्तथा तत्प्रतिबद्धनियतिरपीति भावः । मेघगर्भलक्षणदृष्टान्तं सङ्गमयति
यथा मेघा इति।प्रागुपवर्णितश्लोकसमानार्थकारिका दर्शयति-नाभावीति ननु भावानां ये विशिष्टपरिणामनियमाः पृथक पृथक् प्रविभक्तास्ते विशिष्टकालसम्बन्धवशेन भवन्ति, कालेन हि कारणशकयोऽनुज्ञाताः सत्यो जनयन्ति कार्यमभिव्यञ्जयन्ति वा तथा जातानामभिव्यक्तानां वा नियतकालमवस्थानं, कालकृतशक्तिप्रयोगाणां विनाशकानां सामर्थ्याद्भावानां विनाशोऽपीति सर्वे भावनियमाः कालकृता एवेत्याशङ्कते-स्यान्मतमिति । कालकतत्वाभ्यपगमे व्यभिचारप्रदर्शनेनापाकरोति-न काला१० दयमिति । खभावनिमित्तकत्वमाशय निराकरोति-न चेति । तत्तथेति, तत्-तस्मात्कारणात् , तथा दृष्टानां सृष्टिस्थितिप्रलयावस्थानां बाल्यकौमारादीनां वा भेदक्रमनियमेन नियतिरेव तत्र नियामिका, न खभाव इति भावः। तदनभ्युपगमे-नियतिनियतत्वानभ्युपगमे, सर्वाविवेके-सर्वासामवस्थानां साङ्कये. खभावस्य नियामकत्वे हि वस्तुत्पत्ती तत्खभाकानां सर्वेषामपि सद्भावेन सर्वा अवस्थास्तत्वभावभूता युगपजायेरन् , न च जायन्त इति खाभाव एव न स्यादिति मूल एव कुठाराघातः प्रसज्यत इति भावः । वो भाव इति, स्वकीयो भाव इत्यर्थः, तथा च स्वस्य सद्भावे खभावस्यापि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org