________________
.
15
नियतिमेदैकता] न्यायागमानुसारिणीव्याख्यासमेतम्
२३७ आह
कथं परमार्थतो नास्ति भेदो भेदबुद्ध्याभासभावेऽस्याः ? अथवा परमार्थतस्तु भेद एवास्तु सत्यप्यभेदबुद्ध्याभासभावे? इति, कथं परमार्थतोऽभेदा ? अभेदबुद्ध्याभासभावेऽप्यभेदा. भ्यनुज्ञानात् , कथमभेदः? भेदबुद्ध्याभासभेदेऽप्यभेदाभ्यनुज्ञानादेव । द्विधापि चामेदस्याभ्यनुज्ञानादेवाभेदा सेति गृह्यताम् , व्यवच्छिन्नस्थाणुपुरुषत्ववत् ।
(कथमिति) कथं परमार्थतो नास्ति भेदो भेदबुद्ध्याभासभावेऽस्याः ? दृश्यते हि भेदबुद्ध्याभासभावः, किश्चित् क्रियया साध्यं किश्चिन्नेति, किश्चित्स्वत एव किश्चित् परत इति, अथवा परमार्थतस्तु भेद एवास्तु सत्यप्यभेदबुद्ध्याभासभावे इति । आचार्यों द्विधापि चोदिते परिहारमाह-कथमित्यादि, यदि भेदोऽभिमतस्तत्र कथं परमार्थतोऽभेदा ? भेदबुद्ध्याभासभावेऽपि अभेदाभ्यनुज्ञानात तथैव भेदवदाभासतेऽभेद एवेति । अथाभेद इष्टः कथमभेदः ? अभेदबुद्ध्याभासभावेऽप्यभेदा-10 भ्यनुज्ञानादेव । योकान्तबुद्धिस्त्वन्मते परमार्थविषयत्वे तदा तदाभासा द्विधापि चाभेदस्याभ्यनुज्ञानादेवाभेदा सेति गृह्यताम् । किमिव ? व्यवच्छिन्नस्थाणुपुरुषत्ववत्, परमार्थतः स्थाणुरेव वा पुरुष एवेति व्यवच्छिन्ने वस्तुनि यथोर्द्धतासामान्यस्याभेदस्य दर्शनादभेद एवं सर्वनियतिषु क्रिया. क्रियाफलरूपास्विति । ___सा पुनर्नियतिर्भेदाभेदरूपा कस्मादिति सकारणं स्वरूपनिरूपणमस्याः उच्यते
सा च नियतिरसा च, इह च स्वर्गादिषु च तथानियतेरासन्नानासन्ना च, तस्या एवं तदतदासन्नानासन्ननानावस्थद्रव्यदेशादिप्रतिबन्धभेदात् , मेघगर्भवत् , "तस्मान्नाभाविभावो न च भाविनाशः' इति ।
. सा चेत्यादि, सा च नियतिः सैव, सर्वनियतिषु तस्या एवाविशेषात् । असा च, क्रियाक्रियाफलनियत्यादिवैलक्षण्यात् । आसन्ना, प्रत्यक्षोपलभ्येष्वर्थेषु प्रत्यासत्त्या नियतत्वात् । अनासना, 20 कार्यानुमानागमगम्येषु दूरत्वात् , इह च स्वर्गादिषु च तथा नियतेरासन्नानासन्ना च । किं कारणं ? तस्या एव तदतदासन्नानासन्ननानावस्थद्रव्यदेशादिप्रतिबन्धभेदात्-सा चासा चासन्ना चानासन्ना च ननु कथं नियतेभेंदबुद्धिविषयभावमापनाया अपि वस्तुतो भेदो नास्ति इत्याशङ्कते-कथमिति । भेदबुद्धिविषयत्वेऽप्यभेदबुद्धिविषयत्वादभेदाङ्गीकारे विनिगमनाविरहादभेदबुद्धिविषयत्वेऽपि भेदबुद्धिविषयत्वात्तस्य भेद एवास्त्वित्याह-अथ वेति । द्विविधबुद्धिविषयत्वेऽप्यभेदरूपत्वमेव तस्या व्यवस्थापयति-कथमिति । भेदबुद्धिविषयतामादर्शयति-दृश्यते हीति। मेद-28 बुद्ध्या तस्याः मेदेऽभेदः कथमित्याशंकते-यदि भेद इति । उत्तरमाचष्टे-अभेदबुद्धीति । त्वयैवाभिन्नैव मेदवदाभासत इति परमार्थतोऽभेदाभ्यनुज्ञानादित्यर्थः, यदि नियतिर्भेदबुद्धि विषयस्तर्हि तस्या अभेदः, कथं किन्तु भेद एव स्यादित्याशवेअथामेद इति।अभेदबुद्धिविषयतायाः सत्त्वादभेद इत्युत्तरयति-अभेदेति । द्विधापीति-भेदबुद्धिविषयत्वेऽभेदबुद्धिविषयत्वेऽपि चाभेदस्याभ्यनुज्ञानादेवाभेदा नियतिरित्यर्थः । अन्यतरधर्मनिर्णये सत्यपि वस्तुनि ऊर्ध्वतासामान्यस्यैकस्यैव दर्शनात् पुरुषत्वस्थाणुत्वभेदे सत्यपि यथा तदभिन्न तथा नियतिरपीति दृष्टान्तमुत्थापयति-किमिवेति । सा नियति: 30 क्रियाक्रियाफलादिभेदेऽपि नियतेरनवर्तनादभिन्ना. इयं क्रियानि यतिन फलनियतिरियश्च फलनियतिन क्रियानियतिरिक विलक्षणत्वाद् भिन्नापि, तथा प्रत्यक्षयोग्या घटादयः आसन्ना एव प्रत्यक्षीभवन्तीति नियमादासन्नरूपाः अदृश्याश्च खर्गादयः प्रतिबन्धादिज्ञानापेक्षकार्यादिलिङ्गगम्या इति बहुप्रयत्नगम्यत्वेनानासन्नापीत्याह-सा च नियतिरिति । अत्र हेतुमाहतस्या एवेति, द्रव्यदेशकालभावाः केचिदभिन्नरूपाः केचिद्भिन्नरूपाः केचिदासन्नाः केचिदनासन्नाश्चेति नानावस्थाः,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org