________________
शालवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् भणोत्पन्नविनष्टमसम्बद्धमूलं वैतदिति । इतिशब्दो हेत्वर्थः को हेतुः ? शास्त्रनैरर्थक्यम् , कस्मिन् साध्ये १ शास्त्रारम्भवृथाभावे, अत आह-वृथैवमादौ शास्त्रारम्भः ।
क तर्हि शास्त्रमर्थवत्स्यादिति चेत् ? अतीन्द्रिये पुरुषार्थसाध्यसाधनसम्बन्धे, कोऽसावित्यत आह
अत्र तु शास्त्रमर्थवत्स्यात् , इदं काम इदं कुर्यादित्याद्यप्राप्ते क्रियाक्रियाफलसम्बन्धे, अर्यो हि ससाधनायाः फलादिसम्बद्धायाः क्रियाया एवोपदेशश्चित्रादिवत् , न तु लौकिक एवं गृह्यमाणेऽर्थे विचार इदमेवं न चैवं वेति सार्थकः ।
(अनेति) इदंशब्देन सर्वनाम्ना सामान्यवादिनां सर्वाः क्रियाः फलेच्छाप्रेरितास्तत्साधनाः सूचयति, अग्निहोत्रं जुहुयात् स्वर्गकामः पशुकामो यजेत पुत्रकामो यजेतान्नाद्यकामो यजेतेत्याद्याः, क्रियाकियाफलसम्बन्धस्मातीन्द्रियत्वादप्राप्ते शास्त्रमर्थवत् , प्रत्यक्षादिप्रमाणैरनधिगम्य इत्यर्थः । अर्यो हीत्यादि, मर्शदनपेतोऽर्थ्य:, हिशब्दो यस्मादथै, यस्मात् क्रियाया एवोपदेशोऽर्थ्यः साधनायाः फलादिसम्ब- 10 खाया:, चित्रादिवत्, आदिग्रहणाच्चित्रपुस्तकाष्ठकर्मादिवत् , यथावयवस्थानविन्यासवर्णसंयोगप्रविभागविषयविनियोगाद्यपदेश एवोपयोगात् सार्थको न कुड्यवर्णचित्रकारादिवरूपोपदेशस्तन तदनुपयोगात्, तथा नित्यक्षणिकवादितत्त्ववर्णनं घटपटादेखिगुणकारणपूर्वकत्वादिवर्णनं जगतः सततप्रवृत्तिक्षणिकानुपाख्यत्वादिवर्णनं वा । स्यान्मतं प्रधानक्षणभङ्गादिवादारम्भोऽप्रत्यक्षविषयत्वात्सार्थकः, क्रियाक्रियाफलसम्बन्धोपदेशवदित्येतदपि नोपपद्यते, यस्मान्न तु लौकिक एव गृह्यमाणेऽर्थे इदमेवमेवेति नैवं 15 वेति सार्थकः, विचार इत्यभिसम्बन्धः, प्रसिद्धार्थविषयस्य विचारस निरर्थकत्वादिदोषदुष्टत्वात् । नेति प्रतिषेधे, तुर्विशेषणे, लोके भयो लौकिका, देशकालपुरुषक्रियाविशेषाद्यपेक्षरूपादिमदर्थे कार्यकारअसिण्डादिपवाद्याकारादिके प्रत्यक्षत एव गृह्यमाण इदं सर्व सत्त्वरजस्तमःसंज्ञत्रिगुणात्मकमेव, न चैतदेवं क्षणभङ्गजन्मात्मकमित्यादिविचारः किं सम्बन्धः ? किम्फल: ? को वाऽत्र पुरुषार्थसाधतपरिज्ञानोपयोगः ? इति विमृश्यतां भवद्भिरेव । स्यान्मतं लोकदर्शनमप्रमाणमव्युत्पन्नलोकप्रत्य-30
वादित्यनुमानमाह-को हेतुरिति । ननु भवतु लोकप्रसिद्धेऽर्थे शास्त्रारम्भवृथाभावः, उपदेशमन्तरेण लोकत एव तत्सिद्धेः, अशते एक मात्र स्थावत्यात्, किन्स्वदृष्टेऽर्थे न शास्त्रारम्भवृथाभाव इति तत्र सोऽर्थवत्स्यादित्याशङ्कते व तीति, अतीन्द्रियभूतस्य पुरुषार्थस्स किमायाश्च यः साध्यसाधनभावरूपः सम्बन्धस्तस्य प्रत्यक्षादिप्रमाणैरगम्यत्वात्तदुपदेशपरत्व एव शास्त्रस्यार्थवत्त्वमित्यभिप्रायेणाह-अतीन्द्रिय इति। साध्यसाधनभावप्रतिपादकोपदेशवाक्यमाहाग्निहोत्रमिति । यद्यपि जगद्वैचि. च्यान्पश्चानुपपत्तिलक्षणार्थापत्त्याऽपि किञ्चिददृष्टं सिद्ध्यति तथाप्येतस्मात् कर्मण इदं फलं भवतीति विशेष निर्धा रयितुं न शमशास्त्रन्तु विशेष साधयत्सामान्यालीढमेव साधयतीति सामान्य सिद्धावपि नापत्तिः कारणं प्रवृत्त्यनङ्गत्वात् , नहि विशेषखनं बिना प्रवृत्तिरित्याशयेन क्रियायाः ससाधनायाः फलादिसम्बद्धाया इति विशेषणमुपात्तम् । नित्येति, सामान्यकादिमतेन, क्षणिकेति विशेषवादिमतेन, त्रिगुणेति जगतः सृष्टिप्रलयवादिमतेन, सततप्रवृत्तीति तदनादितावादिमतेन निरूपाख्यत्वेति शन्यवादिमतेन । प्रधानादिपूर्वकजगद्वादारम्भोऽपि क्रियाक्रियाफलसम्बन्धोपदेशवदप्राप्तविषय एवेत्याशङ्कते स्पास्मतमिति । प्रतिज्ञाया लोकविरुद्धतामाहन विति । लोकतो हि देशकालाद्यपेक्षं रूपादिमदर्थजातं सिद्धं तद्वैपरीत्येन 30 प्रधानाविपूर्वकत्वकल्पनाऽनुपयोगिनीत्याह-देशकालेति । मृगतृष्णिकादिप्रत्यक्षं यथा विषयं व्यभिचरति तथा लोकदर्शनमपि व्यभिचरतीति शास्त्रोपदेशः सफल इत्याशंकते स्यान्मतमिति। अव्युत्पन्नः शास्त्रसंस्कारासंस्कृतो यो लोको बालवनितादयस्वत्प्रत्यक्षस्याहं स्थूलः कश इत्यादेर्व्यभिचारादहमर्थे स्थूलत्वाद्यर्थाभावेऽपि भावादित्यर्थः । प्रत्यक्षस्य जात्याऽनुमानादिना
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org