________________
५०
द्वादशारनयचक्रम्
[विचरे तथानुगम्यमानदृष्टान्ताभावात् , किन्तर्हि ? एतावान्नियमः कारणाध्यासाविमुक्त्यनिर्मूलत्वं कार्यस्पेति, तथानुगम्यमानदृष्टार्थत्वात् , मृत्पिण्डशिवकेत्यादि पांशुमृत्पिण्डादेरित्यन्तस्य दण्डकस्योपनियतादि सदसद्भूतकारणाध्यासाविमुक्त्यनिर्मूलत्वमिति वक्ष्यमाणसम्बन्धात् कार्यमेव सदेवासदेव वा कारण कालादि वाऽऽदिकारणमित्यस्य वाऽनियमप्रदर्शनार्थमुदाहरणमाह-मृत्पिण्डशिवकेत्यादि यावत्पांशु5 मृत्पिण्डादेरिति, एषां मृत्पिण्डाद्यवस्थाविशेषाणां वातायनरेगुपर्यन्तानामेव लोके दृष्टत्वात्, पुनरुपचयात् प्राप्तमानन्त्यं येषां स्कन्धानां ते पुनरुपचयप्राप्तानन्त्यस्कन्धाः, वातायनरेणुभ्यः प्रभृति पुनरुपचयक्रमेण पांशुमृत्पिण्डशिवकस्थासकोसकुशूलघटकपालशर्करिकापांशुवातायनरेणव इति चक्रकक्रमेण कारणकार्यानियमो दृष्टः, उत्क्रमेणापि च भेदसंघाताभ्यां कार्यकारणसदसत्त्वानियमो दृष्टः पिण्डमुपमृद्य शिवककरणात् , शिवकञ्चोपमृद्य पिण्डकरणात् स्थासकादीनामन्यतममवस्थाविशेषमु10 पमृद्यापि पिण्डादिकरणात् क्रियाक्रियाफलक्रमेण च कदाचित्कारणकार्यानियमदर्शनादित्यनियतादि, इत्थमनियत आदिरस्येत्यनियतादि जगदिति सम्बध्यते तदेवानियतादि सदसद्भूतकारणकार्य सदसद्भूतं कारणं तस्याध्यासः तेन वा कारणेनाध्यासोऽधिष्ठानं तेन कारणाध्यासेनाविमुक्तिरत्यागः कारणसामान्याविनाभावः, न त्वत्यन्तनिर्मूलोत्पत्तिविनाशलक्षणकार्यत्वं खपुष्पवत् , तथैव लोके दृष्टत्वात् , तयाऽविमुक्त्याऽनिर्मूलत्वं कार्यभूतस्य जगतः। 15 अतोऽवगम्यतां न किञ्चिदन्यत्र फलं तच्छास्त्रेण क्रियते, तस्मादिदं जगल्लोकप्रसिद्धमेवानियतानुपरतव्यापारदृष्टकारणकार्यप्रबन्धमिति वृथैवमादौ शास्त्रारम्भः ।
(अत इति) अतः प्रोक्तहेतोः दृष्टकार्यकारणसदसत्त्वानियमात् परपरिकल्पितप्रधानाधहष्टैककारणानुपपत्तेः कालादिविशेषकारणैक्यानुमानाभावात् कारणसामान्यमात्रानुमानाचावगम्यतां न किञ्चिदन्यत्र फलं तच्छास्त्रेण क्रियते, निरर्थकानि शास्त्राणीत्यर्थः । किं तत् ? यल्लोकव्यवहारफलादति20 रिच्य वर्तते यदपेक्ष्य शास्त्राणि सार्थकानि स्युः, तस्मादवगम्यतामिदं जगल्लोकप्रसिद्धमेवानियतानुपरतव्यापारदृष्टकारणकार्यप्रवन्धमिति, न तु यथान्यैः कल्पितमुपरतव्यापारं सत् प्रधानमतीन्द्रियं पुनरिन्द्रियग्राह्यत्वादिभावेन जगत् सृजति पुनरात्मानं संहृत्योपरतव्यापार तिष्ठति, न चात्यन्त्यासत्कार्य
तथानुगम्यमानदृष्टार्थत्वादिति, कारणसद्भावे कार्यसद्भावस्तदभावे तदभाव इत्येतावानेवानुगमो दृश्यते न तु सद्भूतकारण
सत्वे कार्यसत्त्वमित्येवं दृश्यत इति भावः। रेणुपर्यन्तानामेव लोके दृष्टत्वादिति, न तु तस्यापि कारणं परमाणुप्रकृतिकाले25 श्वरादिकं शास्त्रकारपरिकल्पितं युक्तमिति भावः । वातायनरेणुपर्यन्तं विभागे जाते ततो जगतः पर्यवसानमेवेत्याशङ्काव्युदासाय कार्यकारणप्रवाहानादितामाह-पुनरुपचयादिति । यथा चक्रस्य न वाप्यादिर्न वाऽन्तो दृश्यत एवं जगतोऽपीति भावः । कारणकार्यानियम इति, पांश्वादेः कार्यमपि वातायनरेवादि पश्विादेः कारणमपीत्यनियमो दृष्ट इत्यर्थः । वातायनरेग्नावे। पांश्वादिरेव भवतीत्यपि न नियम इत्याह-उत्क्रमेणापि चेति । तदेव, जगदेव, अनियतादि-इवमेवास्यादिभूतं कारणमिति नियमरहितं सद्भुतस्यासद्भुतस्य वा कारणस्य कार्यम् । एवञ्च प्रकृत्यादितो जगदुत्पादप्रतिपादकानां सांख्यादिशात्राणां न 30 किमपि प्रयोजनमिति तदारम्भो वृथेत्याशयेनाह-अतोऽवगम्यतामिति । अनियतेत्यादि, सत्कारणत्वेनासत्कारणत्वेन
वाऽनियतमित्यर्थः, अनुपरतव्यापारेत्यनेनादिता जगत उक्ता, दृष्टेत्यदृष्टकारणव्युदासः, एवमादी-जगत्कारणत्वप्रतिपादने प्रागुक्तं हेतुत्रयं स्मारयति दृष्टकार्येत्यादिना. अदृष्टैककारणानुपपत्तिश्च तथाविधानुगम्यमानदृष्टान्ताभावात् , काल एव कारणमीश्वर एव वेत्यादिकारणैकतासाधकप्रमाणाभावात् कारणमात्रसाधकानुमानसद्भावाचेत्यर्थः। शास्त्रारम्भो वृथा, शास्त्रस्यैव ,
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org