________________
४९
कार्यानियमः] न्यायागमानुसारिणीव्याख्यासमेतम् प्रयोजनाभाव इत्यत आह-निरवशेषपुरुषविषये स्वान्यत्वज्ञापने कृतकृत्यत्वात् किं साम्यावस्थानेन ? अकृतेऽप्यकृतकृत्यत्वात् किं प्रतिनिवृत्त्या प्रयोजनमसिद्धौदनसूपकारनिवृत्तिवदिति तदवस्थमप्रयोजनत्वम् । अत्र चोद्यं प्रागुक्तानभिव्यक्तिसाम्यावस्थाने चायुक्ते, अप्रयोजनत्वान्निवृत्तानिर्वृत्तार्थक्रियौदासीन्यवदित्यतः पुनरुक्तमिति, अत्र ब्रूमः, कारणान्तरापेक्षाप्रतिषेधपरत्वादस्य, प्रवृत्तिनिवृत्त्योः प्रधानस्याप्रयोजनत्वमात्रप्रतिपादनपरत्वात्तस्येत्यदोषः ।
अव्यक्तिसाम्यावस्थानानुपपत्तेश्च किमिति सततसमवस्थितसमनुप्रवृत्ति प्रत्यक्षकारणनानाभेदाभिव्यक्तिस्वभावमेवेदं जगदिति नाभ्युपगम्यते, किमित्यदृष्टं कारणान्तरं परिकल्प्यते ?
अव्यक्तिसाम्यावस्थानानुपपत्तेश्चेति, अप्रयोजनत्वादिभिरनभिव्यक्तिसाम्यावस्थाने अनुपपन्ने, ततश्चाव्यक्तिसाम्यावस्थानानुपपत्तेः किमिति-किं कारणं जगदेवं स्वभावमिति नाभ्युपगम्यत इत्यभिसम्बन्धः, सततसमवस्थितसमनुप्रवृत्तीति, सततं सर्वकालं समवस्थिता नित्यानुपरता10 समनुप्रवृत्तिः कारणकार्यप्रवृत्त्यात्मिका, प्रकर्षण वृत्तिर्यस्य तदिदं जगत् सततसमवस्थितसमनुप्रवृत्ति, प्रत्यक्षकारणनानाभेदाभिव्यक्तिस्वभावमिति, प्रत्यक्षाणि च तानि कारणानि च प्रत्यक्षकारणानि मृत्पिण्डदण्डचक्रोदकसूत्रकुलालादीनि घटादीनां कार्याणां तानि नानाजातीयानि तन्तुतुरीवेमकुविन्दादीनि पटादीनामित्येवं प्रकाराणि तेषां भेदाः प्रत्यक्षकारणनानाभेदास्तैस्तेषां वाऽभिव्यक्तिर्घटपटादिकार्यरूपेण सैव स्वभावो यस्य तदिदं प्रत्यक्षकारणनानाभेदाभिव्यक्तिस्वभावं, किं तत् ? जगत्, एवेत्यवधारणे, 15 किमवधार्यते ? प्रत्यक्षदृष्टशुक्रशोणिताहारादिकारणमेवेत्यवधार्यते, किमतो निरस्तं ? अव्यक्ताद्यदृष्टकारणान्तरम् , तस्मादृष्टकारणनानाभेदाभिव्यक्तिस्वभावमेवेदं जगत् किमिति नाभ्युपगम्यते ? किमित्यदृष्टं कारणान्तरं परिकल्प्यत इति ।
एवं तावत्कारणे कार्यसदसत्त्वानियम उक्तः कार्यानियमोऽपि च, तथानुगम्यमानदृष्टान्ताभावात् , किन्तु मृत्पिण्डशिवकस्थासकोसकुशूलघटकपालशर्करिकापांशुवातायनरेणूनामेव 20 लोके दृष्टत्वात् , पुनरुपचयप्राप्तानन्त्यस्कन्धस्य वातायनरेणुपांशुमृत्पिण्डादेश्चक्रकक्रमेण कारणकार्यानियमदर्शनादित्यनियतादि सदसद्भूतकारणाध्यासाविमुक्त्यनिर्मूलत्वं कार्यभूतस्य जगतः। . (एवमिति) एवं तावत्कारणे कार्यसदसत्त्वानियम उक्तः कार्यानियमोऽपि च कार्यमेव सद्भूतकालादिविशेषकारणमेवेत्यनियमः प्रधानादिशास्त्रकारपरिकल्पितकारणपूर्वकमेवेति वा, किं कारणं ? 25 द्वारेत्याशयेनाह-प्रकृतिपुरुषयोरिति । असिद्धौदने ति, यथौदनकाम ओदनाय पाके प्रवृत्त ओदनसिद्धिव्यतिरेकेण यदि निवर्त्तते सा निवृत्तिर्निष्प्रयोजना तथाऽकृतकृत्यायाः प्रकृतेर्निवृत्तिरपीति भावः । 'एते अपि च कल्पने नोपपन्ने' इति ग्रन्थेनास्य पौनरुक्त्यं वारयति-अत्र चोद्यमित्यादिना। एवं स्वभावमिति, अनवरतं कारणकार्यरूपेण जगत्प्रवर्त्तते, कारणमपि प्रत्यक्षसिद्धमेव घटादेम॒त्पिण्डदण्डचक्रादि, नाप्रत्यक्ष किञ्चिदिति किं नाभ्युपगम्यत इति भावः । एवञ्च सर्वसर्वात्मकत्वसर्व
वं सर्वस्य कारणं कार्यश्चेति कत्वा न कार्यकारणसटसत्त्वानियम इति तात्पर्यम् । कार्यानियमोऽपिचेति. कार्य- 30 स्यापि न नियमः, इदं कार्यमेव, तस्य सदेव कारणमसदेव वा, आदि कारणं कालादिरेवेति वा प्रधानमेवेति वा न नियमस्तथाविधत्वसाधकदृष्टान्ताभावात् किन्त्वस्ति कारणं किञ्चिन्न तु निर्मूलं कारणाभावे कार्याभावादित्येव नियम इत्यभिप्रायः।
द्वा० न. ७
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org