________________
5
ફેટ
द्वादशारनयचक्रम्
[वियरे
इत्युच्यते, अत्र पुलिकादृष्टान्तो गृहप्रदीपकः, गृहे प्रज्वालितः प्रदीपको गृहप्रदीपकः, यथा गृहप्रदीपकः पुलिकामात्रमपि यदि न प्रकाशयति प्रकाशात्मकः सन्न प्रदीप इति ज्ञायतेऽग्निरिति वा, वैधर्म्यतो वा गृहप्रदीप गृहं प्रकाशयन्नस्ति, यदि न तथाऽग्निः स्वमाश्रयं प्रकाशयति प्रकाशात्मकः संतो नास्तीति गम्यते ।
किञ्चान्यत्, भस्मच्छन्नाग्निसाधर्म्याभावोऽपि च प्रधानस्य, छादनाभावादित्यत आहछादनाभावोऽपि च प्रधान इति निरावरणाग्निदहनप्रकाशनवत्तत्स्वभावत्वान्नित्यप्रवृत्तेनैव भवितव्यमिति तदवस्था नित्यप्रवृत्तता, ततश्चानभिव्यक्तिसाम्यावस्थानानुपपत्तिः । छानाभावोऽपि च प्रधान इति, अग्नेर्भस्मवत् प्रकृतेरावरणाभावाद्भस्मच्छन्नामितुल्यं न भवति प्रधानमतो विशिष्य ब्रूमो निरावरणाग्निदहनप्रकाश नव तत्स्वभावत्वान्नित्यप्रवृत्तेनैव भवितव्यमिति 10 तदवस्था नित्यप्रवृत्तता ततश्चानभिव्यक्तिसाम्यावस्थानानुपपत्तिः ।
स्यान्मतं यद्यपि प्रधानं महदादिभावेनात्मान्तरत्वप्रकाशनार्थ पुरुषस्य प्रवर्त्तते तथापि केषाचित्पुरुषाणां कृते प्रयोजनेऽन्येषामकृते कालक्रमेण व्यक्त्यव्यक्तिसाम्यवैषम्यावस्थाः प्रतिपद्यते सा चास्य प्रवृत्तिः स्वभावान्नियतेः कालाद्यदृच्छादेव, तदपि नोपपद्यते
कालादिकारणान्तरनिरपेक्षस्य तस्य निरवशेषपुरुषविषये स्वान्यत्वज्ञापने कृते कृतकृत्य15 त्वात् किं साम्यावस्थानेन ? अकृतेऽप्यकृतकृत्यत्वात् किं प्रतिनिवृत्त्या प्रयोजनमसिद्धौदनसूपकारनिवृत्तिवदिति तदवस्थमप्रयोजनत्वम् ।
कालादिकारणान्तरनिरपेक्षस्यादि, प्रधानं हि नियतिकालस्वभावेश्वरयदृच्छाद्यन्यतमानपेक्षं कारणं जगतोऽभ्युपगतं भवता, न तु यथा लोकनये क्वचित्कालोऽपि नियतिरपीत्यादि, स्वतंत्रत्वाच्च तस्य प्रकृतिपुरुषयोः स्वरूपभेदपरिज्ञापनस्य स्वार्थस्यानुरूप श्रोत्राद्येकादशेन्द्रियग्रामस्य शब्दबु20 द्ध्यादिविकल्पग्रामस्य वचनादानविहरणानन्दोत्सर्गकर्मशब्दाद्यर्थग्रामस्य च निर्वर्त्तने स्वतंत्रत्वान्न कार णान्तरापेक्षाsस्ति, सर्वपुरुषार्थप्रवृत्तत्वाच्च कृतार्थस्याकृतार्थस्य च यथासंख्यं साम्यावस्थानस्य निवृत्तेश्च
भस्मच्छज्ञो नाग्निः, अप्रकाशकत्वात् गृहप्रदीपकवदिति प्रयोगे साधर्म्यदृष्टान्तत्वमभ्युपेत्य सङ्गमयति यथागृहप्रदीपक इति वैधर्म्यदृष्टान्ताभिप्रायेणाह वैधर्म्येति । प्रकृतेरावरणमपि न सम्भवति, अनुपलब्धेरित्याह छादनाभावोऽपि चेति । भस्म यथायोग्यत्वे सत्युपलभ्यते न तथा प्रकृतेः किञ्चिदावरणमुपलभ्यत इति नित्यप्रवृत्तत्वतादवस्थ्यमिति भावः । आवरण25 रहितोऽभिर्यथा दहति प्रकाशयति च तत्स्वभावत्वात्तथा नित्यप्रवृत्तया प्रकृत्या भवितभ्यं तत्स्वभावत्वादित्याह-निरावरणेति । पुरुषविमोक्ष निमित्ता हि प्रकृतेः प्रवृत्तिः, तद्विमोक्षणञ्च पुरुषो यदा पृथग्भूतामेनां मन्यते तदेयमायासहेतुरेव ममेति बिजानन् तत्कृतमनुपभुञ्जानः स्वरूपनिष्ठ एवावतिष्ठते, प्रकृतिरपि दृष्टाऽहमनेन, पृथव्यामेष मन्यते इति न तदभिमुखीभवितुमुत्सहते, न चोत्पन्न तत्वज्ञाने भोगानुकूल महदादिकार्यारम्भविमुखत्वात्तस्याश्चैकस्वादेकस्मिंस्तत्त्वविदि मुक्ते सर्वे मुक्ताः स्युरितिवाच्यम्, तत्त्वविदमेव पुमांसं प्रति तस्या औदासीन्यात्, अन्यसाधारणत्वेन तत्कार्यानपायादिति व्यस्यव्यक्ति साम्यवैषम्या90 वस्थास्तस्याः सम्भवन्ति, तस्या इयं प्रवृत्तिः स्वभावाद्यन्यतरस्मादित्याशयेनाह - स्यान्मतमिति । नित्यैकान्तस्वरूप स्थापेक्षजीयान्तराभावेन कालविशेषपुरुष विशेषाद्यनपेक्षतयैकपुरुषस्यापि स्वान्यत्वज्ञापने कृते तस्य सर्वसाधारणतया पुनः सर्थ साम्यावस्थानालम्बनं निरर्थकं, यदि नैकस्याप्यन्यत्वज्ञापनं कृतमित्युच्यते तर्हि तथापि साम्यावस्थानं न युक्तमकृतकृत्यत्वादि • स्याशयेनाह - कालादीति, प्रकृतिपुरुषयोः स्वरूपमेदपरिज्ञापनं प्रकृतिर्न साक्षात्कर्तुमीष्टे किन्तु महदहंकारादिक्रमेण परिणमम
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org