________________
नित्यप्रवृत्त्यापादनम् ]
न्यायागमानुसारिणीव्याख्यासमेतम्
४७
पुरुषान्तरत्वं वा चैतन्यस्वरूपमाध्यस्थ्य शुद्धकेवलत्वैः परस्परभिन्नैः पुरुषान्तरस्यैः पुरुषान्तरेषु प्रकाशितेष्वप्यन्येषां पुरुषाणां यत्पुरुषान्तरत्वं तैरेव चैतन्यादिभिर्युक्तं प्रकाशयति प्रकृतेर्वा स्वयमचेतनायाः, अचैतन्यस्वरूपस्य प्रकाशनमयं हि धर्मस्तस्य ज्ञानार्थस्य स्वतंत्रस्याप्रतिहतसर्वगतस्य प्रधानस्य ।
एवं तस्य स्वभावधर्मं समर्थ्येदानीमनभिव्यक्तिसाम्यावस्थानप्रतिपक्षभूतं नित्यप्रवृत्तत्वं प्रधानस्यानुमिमीते
अतस्तेन नित्यप्रवृत्तेनैव भवितव्यम्, सामान्यतस्तत्स्वभावत्वात्, यथाऽग्निर्दहन
प्रकाशनप्रवृत्तः ।
(अत इति) अतस्तेन नित्यप्रवृत्तेनैव भवितव्यमिति प्रतिज्ञा, अत इत्यनन्तरोक्तधर्मत्वात् प्रधानस्य, तद्धर्मत्वमिदानीं हेतुत्वेन व्यापारयितुमाह- सामान्यतस्तत्स्वभावत्वात् स स्वभावो यस्य तत्तत्स्वभावं प्रधानं पूर्वोक्तहेतुभिर्विशेषितमतस्तन्नित्यप्रवृत्तं भवितुमर्हति इह यद्यत्स्वभावं तत्तेनैव स्वभावेन 10 नित्यप्रवृत्तं दृष्टम्, यथाऽग्निर्दहनप्रकाशनप्रवृत्तः, यत् पुनर्नित्यप्रवृत्तं न भवति न तत्तत्स्वभावम् यथा न किचित्तादृगिति ।
दहनादितत्स्वभावस्याग्नेस्तथा प्रवृत्त्यदर्शनात् साध्यवैकल्यं दृष्टान्तदोष इति तन्निदर्शयन्नाह---
ननु भस्मच्छन्नोऽग्निरपि न दहति, अत्रोच्यते, अथ कथं जीवति, स्थितेर्जीवितपर्यायत्वात्, स्थितिप्रकाशदहनात्मकस्याग्नेः प्रत्यक्षानुमानविषयस्य सतस्तथाऽग्रहणेऽस्तित्वे प्रमा- 15 णान्तराभावात् कथं ज्ञायतेऽग्निरिति, अप्रकाशयन् वा द्रव्यान्तरं तावत्कोशकादि स्वाश्रयमात्रं तत्परिमाणं तावत्, यथा गृहमदीपकः पुलिकामात्रमपि ।
"
( नन्विति) ननु भस्मच्छन्नोऽग्निरपि न दहति न प्रकाशयतीति, दहनप्रकाशयोरभेदात्, अत्रोच्यते अथ कथं जीवतीति जीवनममेश्चेतनत्वात्, चैतन्यमाहारलाभालाभयोः पुष्टिग्लान्यादिदर्शनान्मनुष्यवत्, सचेतनत्वं दहने जीवति, स्थितेर्जीवितपर्यायत्वात्, अचेतनत्वमभ्युपगम्यापि स्थिति - 20 प्रकाशनदहनात्मकस्याग्नेः प्रत्यक्षानुमानविषयस्य सतस्तथा प्रत्यक्षानुमानाभ्यामग्रहणेऽस्तित्वे प्रमाणान्तरासिद्धेः कथं ज्ञायतेऽग्निरित्यदहनप्रकाशमानः, अप्रकाशयन् वा द्रव्यान्तरं लावत्कोशकादिवाश्रयमात्रं, तत्परिमाणं तावत्-स्वपरिमाणमात्रमपि, स्वाश्रयद्रव्यं कोशकाद्य प्रकाशयन् कथमग्निरित्युच्यते कोशक
6
पादनमचेतनत्वेन खस्माद्भिन्नत्वप्रतिपादनं वा प्रकाशात्मनस्सर्वव्यापिनस्स्वतंत्रस्य प्रधानस्य धर्म इति भावः । अत इति, आत्मान्तरत्वप्रकाशनस्य प्रकृतिधर्मत्वादित्यर्थः, तेन प्रधानेन, प्रधानं नित्यप्रवृत्तिमत्, सामाम्यतः आत्मान्तरत्वप्रकाशनस्वभाव- 25 स्वात्, दहनप्रकाशनप्रवृत्ताग्निवदित्यनुमानस्वरूपं बोध्यम् । दृष्टान्तेऽग्नौ भस्मनाऽऽच्छादिते साध्याभावं नित्यप्रवृत्त्यभावमाशङ्कते नन्विति, अथ यदि सोऽग्निर्न दहति तर्हि कथमसौ जीवन्नस्तीत्युच्यत इति पर्यनुयुज्यते अथेति, योग्यानुपलब्धेरभावसाधकत्वादाह प्रत्यक्षेति । तथा स्थिति प्रकाशदहनात्मकतया । प्रकाशात्मकताविचारे प्रस्तुते न दहतीत्याशङ्कनमयुक्तमित्यालोच्योक्तं न प्रकाशयतीति, कथं दहनस्य प्रकाशनार्थतेत्यन्नाह - दहन प्रकाशनयोरिति, अङ्गारादौ प्रकाशपरिणाम आत्मसम्बन्धप्रसूतः शरीरस्थत्वात् खद्योतदेह परिणामवत्, सचेतनं तेजः यथायोग्याहारोपादानानुपादानाभ्यां वृद्धिहानिविशेषवत्वात् 30 पुरुषाङ्गवदिति अग्नेर्जीवत्वसिद्धेः कथं भस्मच्छन्नो यद्यभिर्न तर्हि जीवति न प्रकाशयतीत्यभिमानेनाहाथ कथं जीवतीति, तस्याजीवत्वाभ्युपगमेऽपि प्रकाशस्वभावविरहेऽनग्नित्वमेव स्यादित्याहाचेतनत्वमिति, ततोऽपि सन्निहितं प्रकाश्यमाह स्वाश्रयमात्रमिति, ततोऽपि सन्निहितं स्वगतं प्रकाश्यं धर्ममाह तत्परिमाणमिति, अल्पाहपात्यभिप्रायेण बोध्यम् । एवश्व
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org