________________
द्वादशारनयचक्रम्
[विध्यरे स्यान्मतम्
तस्याः प्रकृतेरनभिव्यक्तिसाम्यावस्थाने कालनियतियदृच्छास्वभावेश्वराद्यन्यतमकारणवशादित्येतच्चायुक्तम् , प्रकृतिकारणत्यागेन हि अभ्युपेतविरोधः, कारणान्तरस्य वा तथा प्रणेतुरापत्तिः । आत्मान्तरत्वप्रकाशनमयं हि प्रधानस्य धर्मः। 5 (तस्या इति) तस्याः प्रकृतेरव्यक्तिसाम्यावस्थाने कालनियतियदृच्छास्वभावेश्वराद्यन्यतमकारणवशादित्येतच्चायुक्तम् , प्रकृति कारणत्यागेनाभ्युपेतविरोधदोषसम्बन्धिनी यस्मात्, कारणान्तरस्य वा तथाप्रणेतुरापत्तिः, कारणादन्यत् कारणान्तरं प्रकृतेरन्यत् कारणं, यत् प्रकृति तथा प्रणयति, तदस्ति स्वभावनियतिकालयदृच्छेश्वरादीनामन्यतममित्यापन्नमनिष्टश्चैतत् । कारणान्तरनिरपेक्षस्य कारणस्य
स्वकार्याकरणश्च युक्तिविरुद्धमित्यत आह-आत्मान्तरत्वप्रकाशनमयं हीत्यादि यावत्प्रधानस्य धर्म इति, 10 आत्मनोऽन्य आत्मा आत्मान्तरं तस्य भाव आत्मान्तरत्वं परस्परविभिन्नमहदहंकाराद्यवस्थान्तरत्वं तस्य प्रकाशनं, हि शब्दो यस्मादर्थे, यस्मादनभिव्यक्तेः साम्यावस्थानस्य च प्रतिपक्षोऽवस्थान्तरप्रकार, त्वेनात्मप्रकाशनमयं प्रकृतेर्धर्मः ।
स्यान्मतम्
उपायानभिज्ञत्वात् कारणान्तरं साचिव्यगुणोपेतमपेक्षत इति, तन्न ज्ञानार्थत्वात् 15 स्वतंत्रत्वादप्रतिहतगतत्वाच्च तस्य ।
(उपायेति) उपायानभिज्ञत्वात्कारणान्तरं साचिव्यगुणोपेतमपेक्षत इत्येतञ्चायुक्तं ज्ञानार्थत्वात्, उक्तश्च "धर्मज्ञानवैराग्यैश्वर्याणि बुद्धिधर्मः, अधर्माज्ञानावैराग्यानैश्वर्याणि च" इति, तेषामष्टानां समुक्तिबध्नात्येकेन मोचयतीति, तस्य प्रधानस्य ज्ञानार्थस्य परिणत्यवस्थात्मकस्यायुक्ता सचिवापेक्षा । स्यान्मतं परतंत्रत्वात् सहायान्तरमपेक्षते, तच्च न, स्वतंत्रत्वात् , स्यान्मतं क्वचित् प्रधानं कारणं 20 कचिदन्यत् , अव्याप्तत्वाल्लौकिककालादिकारणवदित्येतच्चायुक्तम् , अप्रतिहतसर्वगतत्वात्तस्य । अथ
वाऽऽत्मान्तरत्वप्रकाशनमिति, आत्मा पुरुषः, आत्मनोऽन्य आत्माऽऽत्मान्तरं तस्य भाव आत्मान्तरत्वं पुरुषाद्भिन्नं त्रिगुणस्वभावं स्वमात्मानं प्रधानं पुरुषाय प्रकाशयति । पुरुषाद्वाऽन्यः पुरुष आत्मान्तरं तस्य भाव आत्मान्तरत्वं पुरुषान्तरत्वं तस्मै पुरुषाय प्रकाशय्यात्मस्वरूपं पुरुषान्तराणां प्रकाशयति ।
परिणमन्ती विशेषान्तं प्रपञ्चमारभते निवर्तते चेत्याशङ्कते तस्याः प्रकृतेरिति । प्रकृतिरेव सर्वकार्याणां कत्रीति खसिद्धान्त25 त्यागः कालादिकारणत्वे भवेत्तथा च तत्सिद्धान्तप्रणेतुः सांख्यस्यार्थान्तरत्वं दोषः स्याद्विवक्षितकारणादन्यकारणसिद्धेरि
साह कारणान्तरेति । आत्मनोऽन्य आत्मा आत्मान्तरमिति । आत्मपदेन प्रधानखरूपं प्राचं तद्भिन्नखरूपं महदहकाराद्यवस्थान्तराणि तत्प्रकाशनं प्रकृतेर्धर्मः, अनभिव्यक्ततास्वरूपं साम्यावस्थानञ्च परित्यज्य महदहङ्काराद्यवस्थान्तरतया
खात्मप्रकाशनं प्रकृतेधर्म इत्यर्थः, तेन रूपेण तया सर्वदाऽवस्थातव्यम् , खस्य तथा प्रणेत्रन्तरानपेक्षत्वादिति भावः। प्रकृतिने . कार्यजननानुकलं साचिभ्यगुणयतं सहकारिणमपेक्षते. स्वस्य तथाविधोपायज्ञानवैधुर्यादित्याशयेनाहोपायानभिशत्वादिति । 30 ज्ञानार्थमेव प्रवर्त्तमानायास्तस्या नोपायज्ञापेक्षेति भावनाह ज्ञानार्थत्वादिति । पुरुषस्य प्रकृत्यन्यतापरिज्ञापनं प्रकृतेर्धर्म
इत्यभिप्रायेणाह आत्मा पुरुष इति, भात्मशब्दोऽत्र खरूपपरः । आत्मशब्दस्य पुरुषवाचित्वमभ्युपेत्य व्याचष्टे पुरुषाद्वति । एकस्य पुरुषस्य चैतन्यखरूपमाध्यस्थ्यादिधर्मः परात् पुरुषाद्भिपता प्रतिपाद्य पुनः पुरुषान्तराणामपरपुरुषान्तरत्वप्रति
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org