________________
साम्यतावैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
मैवं मंस्थाः ननु चेत्यादि, नन्वित्यनुज्ञापने, त्वयाऽप्येतदादिष्टं सर्व देशादेरिति, तस्माद्देशादेः सर्वत्वात्सर्वात्मकत्वासर्वात्मकत्वाच्च वैषम्यावस्थैव, इतिशब्दो हेत्वर्थे, यस्माल्लौकिकप्रकृतित्वमेव प्रकृतेरिष्टत्वाभिमतायाः, कथं ? यथाहि लौकिकी प्रकृतिर्देशादिविषमावस्थैव सती सर्वकारणात्मिका कार्यात्मिका विषमा समा च व्यक्ता चाव्यक्ता च तथा सांख्यपरिकल्पितप्रकृतिरपि स्यात्, किं कारणं? सर्वात्मकत्वाद्देशादिवन्मयूराण्डकरसवा वैषम्यावस्थैवेत्यर्थः। साम्यावस्थैव वा देशादेरपि सर्वात्म-5 कत्वात् प्रकृतिवदिति ।
एते अपि च कल्पने नोपपन्ने, अप्रयोजनत्वात् , निवृत्तानिवृत्तार्थक्रियौदासीन्यवत् ।
(एते इति) एते अपि च कल्पने नोपपन्ने देशादीनामनभिव्यक्तिः प्रकृतेः साम्यावस्थानमिति, कस्मात् ? अप्रयोजनत्वात् , न हि देशादीनामनभिव्यक्तौ प्रयोजनमस्ति पुरुषविमोक्षणहेतोयंकरूपतया प्रवर्त्तमानानां तथा पुरुषार्थसिद्धेरनिर्वृत्तौ, अनिर्वृत्तौदनस्य पचिक्रियायामौदासीन्यवत् , 10 नापि निर्वर्तितार्थायाः प्रकृतेः पुनरात्मानमुपसंहृत्य साम्यावस्थाने किश्चित् प्रयोजनमस्ति सिद्धौदनस्यौदनार्थपाचनादिप्रवृत्तिवत् । अथवा प्रकृतेरेवानभिव्यक्तिसाम्यावस्थाने न युक्ते अप्रयोजनत्वात् , अप्रयोजनत्वं निर्वृत्तानिर्वृत्तार्थत्वात् , यदि निर्वृत्तार्था सिद्धौदनरन्धनवदयुक्तं साम्यावस्थानम् , अनिर्वचार्था चेत् प्रधानस्यासिद्धौदनस्यौदासीन्यवदयुक्तं साम्यावस्थानम् । तथाऽनभिव्यक्तिः, किं कारणं ? प्रकाशनार्थ प्रवृत्तयो व्यक्तिवैषम्याभ्यां तदर्थसिद्धेस्ताभ्यामृतेवाऽसिद्धेः, अनभिव्यक्तिसाम्यावस्थान- 15 योरपि प्रवृत्तिविशेषत्वात् , द्विधाऽप्यप्रयोजनवादयुक्तमिति । अथवा प्रयोजनानभिव्यक्तिः निर्वृत्तार्थत्वात् , देशादिरूपेण प्रकाशितात्मवृत्तिः किमर्थं नाभिव्यज्यते ? किमर्थं सर्वं पुरुषार्थमकृत्वा साम्येनावतिष्ठते ? सांख्यैश्च द्विविधपुरुषार्थसिद्धयै प्रकृतिप्रवृत्तिरिष्टा नाकस्मिकी यदृच्छावादिमतवत्, न वेश्वरस्वभावादिकरणवादिमतवद्वा कारणान्तरम् , यथासंख्यश्चात्र दृष्टान्तद्वयं दर्शयति-निर्वृत्तानिवृत्तार्थक्रियौदासीन्यवदिति, पचनापचनवदोदनस्येत्यर्थः ।
वा मयूराण्डकरसे सतामेवावयवानां तथोद्रेकोमाङ्गित्वेनैव वस्तुप्रवृत्तरतो मण्डूकरसावस्थायां तेषामनभिव्यक्तिरेवमेव देशादिकारणमप्यङ्गाङ्गिभावेन प्रवृत्तः सर्व कार्य न कुरुत इति भावः । अङ्गाङ्गिभावेऽपि सकृत्सर्वेषामनुत्पादोऽपेक्षणीयविरहप्रयुक्त एव वक्तव्यः स च न सम्भवति देशादेः सर्वात्मकत्वाभ्युपगमादतो वैषम्यावस्था दुर्वारेत्यत आह-सर्व देशादेरिति, प्रकृत्यवस्था हि सत्त्वरजस्तमसां गुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानम् , तदाऽनपेक्षस्वरूपाणां तेषामङ्गाङ्गिभावानुपपत्तेस्तथा च सर्वकालं साम्यावस्थैवस्यादन्यथा स्वरूपप्रच्युतिप्रसङ्गादेवं देशादिरपि स्यादित्याशयेनाह-साम्यावस्थैव वेति 125 ननु प्रकृत्यवस्थाया न कूटस्थानित्यता, किन्तु परिणामिनित्यतैव, यस्मिन् विक्रियमाणेऽपि यत्तत्वं न विहन्यते तदपि नित्यमिति खीकारात्, तथा च साम्यावस्थायामपि वैषम्योपगमयोग्यगुणानामवस्थानान सर्वदा साम्यावस्थेत्याशङ्कायामाह-पते अपिच कस्पने इति । पुरुषार्थसिद्धिमकृत्वा विनिवृत्तौ प्रयोजनाभावमाह न हीति, पुरुषविमोक्षणहेतोरिति, प्रधानप्रवृत्तेहि प्रयोजनं निखिलपुरुषापवर्गः, प्रलयोपस्थितिदशायां सर्वेषामनपवर्गात् कथमनिर्वृत्तार्थ प्रधानं साम्येनावस्थातुं यतेत, अनिपचप्रयोजनत्वादिति भावः। यदि तु तदा सर्वपुरुषापवर्गो निवृत्तस्तर्हि प्रयोजनान्तराभावात् पुनः साम्यावस्थाने प्रवृत्ति-30 स्वस्थ न स्यादित्याह-नापीति। द्विविधेति, पुरुषस्य भोगार्थमपवर्गार्थञ्च प्रवृत्तिः प्रकृतेः, न हि तस्याः स्वाभाविकीप्रवृत्तिः तथा सत्यनपेक्षत्वात् कदाचिन्महदाद्याकारेण परिणमते कदाचिन्नेति न स्यादिति भावः । यथा संस्कृतं क्षेत्रमधिष्ठाय तत्सम्पर्कपशाद्वीजमकरादिक्रमेण महान्तं वृक्षमारभते तथेश्वरादिकमधिष्ठाय सर्वव्यापिनी प्रकृतिस्तत्सम्पर्कवशान्महदादिक्रमेण
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org