________________
द्वादशारनयचक्रम्
[विध्यरे अथ देशादयः किमिति, विकल्पद्ववान्यापातेन निरोत्स्थाम्येतदित्यभिप्रायः । ये देशादयोऽवषन्धकाभिमतास्ते ययेकान्ततयेष्टास्ततस्तेषामकारणत्वादसर्वत्वम् , कारणभावाद्धि सर्व सर्वात्मकं स्यात्तदभावादसर्वत्वं देशादीनां प्राप्तमसर्वत्वाच तेषामतत्रत्वं तेषु कस्यचित्तद्धीनवृत्तित्वाभायात् , ततोऽतत्रत्वादप्रतिबन्धकत्वमपि । अथाऽऽचक्षीथास्ते देशादयः कारणमिति, ततः कारण सर्वकारणत्वात्सर्वात्मकत्वात् किमिति सर्वं न भवति, भवत्येवेत्यर्थः, कस्मात् ? समुदितकारणत्वात् , समुदितकारणत्वं सर्वकारणत्वात् सर्वात्मकत्वाच, अत्र प्रयोगः, सर्व सर्वत्र स्वात् समुदितकारणत्वात्, संयुक्ततन्तुपटवत्, यथा तन्तूनां परस्परसंयोगे सति नियमात् पटो भवति, स्वकारणसन्निधानात्, एवं सर्वकारणत्वसर्वात्मकत्वसद्भावे को देशादिप्रतिबन्धो नामान्य इति किमिति सर्व न भवतीति ।
अथवा सर्व न भवतीत्यादि स एव लौकिक आशङ्कते
अथ मतं भवतः सर्व न भवति, अनभिव्यक्तत्वाद्देशादेः कारणस्य, प्रधानसाम्यावस्थानवत् ।
(अथेति,) अथ मतं भवतः सांख्यस्य सर्व न भवति शरीरक्लेशसुखार्थानर्थप्राप्त्यादि कुतः। अनभिव्यक्तस्वात् , 'अल्लू व्यक्तिम्रक्षणकान्तिगतिषु' म्रक्षितमभिव्यक्तं स्फुटीकृतम् , अनभिव्यक्तमस्फुटम् , अनभिव्यक्तत्वाद्देशादेः कारणस्य सर्व न भवति, को दृष्टान्तः १ प्रधानसाम्यावस्थानवत्, 15 यथा प्रधानं सत्त्वरजस्तमत्रिगुणसाम्यावस्थानेनानभिव्यक्तत्वात् सर्वकारणमपि सत् सर्वभावान्न प्रक
रोति घटपटादीन् , अथ च प्रकरणात् प्रकृतिः प्रधीयन्ते भावास्तत इति प्रधानमित्यादिमिर्नामभिरु
च्यते, तस्य चानभिव्यक्तत्वं तत्साम्यावस्थानान्मन्येथाः, तथा देशादिकारणं साम्यावस्थानादनभिव्यक्तं , प्रधानवत् सर्व कार्य न कुरुते, लोकप्रसिद्धमप्यत्रोदाहरणं मयूराण्डकरसगतप्रीवादिवत्, यथा मयू
राण्डकरसावस्थायामेव मेचकवर्णप्रीवाद्यवयवानभिव्यक्तिः तत्साम्यावस्थानादतः सर्व न भवति मयू20 राडकरसान्मयूराण्डावस्थायामेव तदीवादि तदिति ।
अत्रोच्यते
मैवं मंस्थाः, ननु च त्वयाप्येतदादिष्टं सर्व देशादेरिति, तस्मात्सर्वात्मकत्वं सर्वात्मकत्वाच वैषम्यावस्थैवेति लौकिकप्रकृतित्वमेव प्रकृतेः, सर्वात्मकत्वाद्देशादिवत् साम्यावस्थैव वा देशादेरपि प्रकृतिवत् ।
25 यद्यपि सांख्यमते प्रकृतेर्महदादिसृष्टौ देशादयो व कारणं तथापि न सर्व फलं भवति, भयोग्यदेशकालाकारनिमित्तादिना ईप्सितफलप्रतिबन्धो जायतेऽतो देशादीनामवबन्धकत्वं विज्ञेयम् । एतदिति, अवबन्धकत्वं कारणत्वं वेत्यर्थः । एकान्ततयेति, अवबन्धकत्वेनेति शेषः । कारणभूतानामेव सर्वात्मकत्वमित्याह कारणभावाद्धीति । सर्वात्मक्त्वे हि तेषां सर्वे तदधीवृत्तयो भवन्तीति सर्वनिरूपिततंत्रता तेषां स्यात्तच्च नास्तीत्याह-असर्वत्वाञ्चेति । एकान्ततया कारणत्वे दोषमाह- अयेति । देशादीनां सर्वकारणत्वेऽपि साम्यावस्थायां प्रधानवदनभिव्यक्तत्वात् सर्व न भवतीत्याशङ्कते-अथ मतमिति। 30 यथा प्रधानमिति, शुक्रं सत्त्वं प्रकाशात्मकत्वात्, रजो लोहितं रचनात्मकत्वात् , तमः कृष्णमावरणात्मकत्वात्तेषां त्रवाणे गुणानामविपमावस्थानेन प्रधानमनभिव्यक्तमस्फुटमतो न सर्वभावान प्रकरोति गुणवैषम्य एव प्रकरणादिति भावः। मयूराण्डकेति, या हेमन्तनिधिररात्रिषु निदाघहिक्सेषु च सदा सर्वत्र सतोरेष हिमातफ्योः ऋषिकदाचित् कस्यचिदुदेको बम
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org