________________
देशाधवबन्धकता] न्यायागमानुसारिणीव्याख्यासमेतम्
४३ (इतश्चेति) इतश्च कार्यकारणसदसत्त्वानियमः सर्वसर्वात्मकत्वसर्वकारणत्वात्, स्थावरजङ्गमाभ्यवहृतानन्यरसरुधिरादिरूपादिपरिणामापत्तिवैश्वरूप्यदर्शनात् सर्व सर्वात्मकं तत एव सर्व सर्वस्य कारणं कार्यश्चेति कृत्वा सेवादिक्रियाकलापो यथाऽर्थप्राप्तेः कारणं तथा केशप्राप्तेरपि प्रकृत्यैव कारणं तदपि च फलमर्थक्लेशप्राप्त्यादि अनियतमुभयत्र व्यभिचारात् । इतर आह-नन्वत एव क्लेशोऽपि कार्यसत्त्वादेव भवतीति नियतं कारणे कार्यमित्यापन्नं वेदितव्यम् । चेन्मन्यसे एवं सतीप्सितेन ताव- B द्भवितव्यम् , किं तदीप्सितं फलं ? अर्थप्राप्तिन क्लेशः सेवकस्य, किं कारणं? सन्निहिततच्छत्तयभीहितत्वात् सन्निहिता सा शक्तिरस्य सोऽयं सेवकः सन्निहिततच्छक्तिरीप्सितार्थप्राप्तिशक्तिः, सन्निहिता सा शक्तिरस्या सा सन्निहिततच्छक्तिस्तयाऽभीहितत्वाञ्चेष्टितत्वादिति वृत्तिवृत्तिमतोरनन्यत्वात् सेवासेवकयोर्यथेष्टं विप्रहसम्बन्धौ, युक्तं हि ताभ्यामीप्सितार्थप्राप्तियुक्ताभ्यां भवितुं नानीप्सितक्लेशभाग्भ्याम् । को दृष्टान्तः ?
10 सर्वशास्त्रज्ञान्यतरव्याख्यानवत् तन्न, देशकालाकारनिमित्तावबद्धत्वान्नेष्टमेव फलमवाप्यते सेवकेनेव प्रसन्ननृपादपि, ज्ञाव्याख्यानवत् ।
(सर्वति) सर्वशास्त्रज्ञान्यतरव्याख्यानवत्-यथा सर्वशास्त्रज्ञः पुरुषो व्याकरणाद्यन्यतममच्छास्त्रमीप्सितमेव व्याचष्टे तथैतदिति । अत्र ब्रूमः-तन्न देशकालाकारनिमित्तावबद्धत्वान्नेष्टमेव फलमवाप्यते सेवकेनेव प्रसन्ननृपादपि, स्वनगरभाण्डागाराविक्षेत्रप्रतिबन्धात्, प्रभातादिकालप्रतिबन्धात् 16 प्रसाददानाभिमुख्याकारावबन्धात् द्वितीयकर्मण्यताप्रदर्शनादिनिमित्तावबन्धात्, शास्त्रज्ञदृष्टान्तस्यापि तादृग्विधावबन्धसद्भावे सत्यव्याख्यानादनियम एव फलस्येत्यत आह-ज्ञाव्याख्यानवत् , सर्वशास्त्रज्ञोऽप्येभिरेवावबन्धैरीप्सितं न व्याचष्टे इति ।
लौकिको ब्रवीति
अथ देशादयः किमवबन्धकाः ? ततस्तेषामकारणत्वादसर्वत्वम् , ततोऽतंत्रत्वादप्रति- 20 बन्धकत्वम् , अथाऽऽचक्षीथा देशादयः कारणमिति ततः सर्वकारणत्वात्सर्वात्मकत्वात् किमिति सर्व न भवति, समुदितकारणत्वात् । . कारणे पुष्पलक्षणेऽसति कार्यस्य फलस्यात्र दृष्टान्ते भावो बोध्यः, यथा कारणतयाऽभिमतं बीजादि कारणमकारणमपि, कादाचित्कयोः कार्यभावाभावयोर्दर्शनात् तथा कारणस्य कार्यकरणाकरणानियमात्तत्कार्यत्वेनाभिमतमपि कार्यमकार्यमपि भवतीवि कार्यत्वानियमो विज्ञेय इत्याह यथेत्यादि मूलेन यथा कारणस्य कार्यनिरूपितकर्तृत्वाकर्तृत्वानियमस्तथा कार्यस्यापि कारणनिरूपि- 25 तजन्यत्वाजन्गत्वानियम इति भावः । स्थावरादिभिरभ्यवहृतानामेव रसरुधिरादिनानात्मकतादर्शनादित्याह-स्थावरेति। . प्रकृत्यैव-खभावेनैव । अनियतमिति, कस्यापि सेवादितः केवलं क्लेशप्राप्तिरेव भवति न त्वर्थप्राप्तिः, कस्यचित्तु केवलमर्थप्राप्तिने तु क्लेशप्राप्तिरित्युभयत्र व्यभिचार इति भावः । ननु यदि कारणे सेवादी क्लेशप्राप्तिरपि नियता तर्हि सापीप्सिता भवेत्, न तथा दृश्यत इत्याह-एवं सतीति, सन्निहितेति, सन्निहितया ईप्सितार्थप्राप्तिशक्त्यैव प्रयुक्तस्य पुरुषस्य सेवादी प्रवृत्तरिति प्रथमव्युत्पत्त्यर्थः, सेवकस्य सन्निहितेप्सितार्थप्राप्तिशक्तया सेवयैव प्रवृत्तः, सेवा सन्निहितमदीप्सितार्थप्रापणशक्ति-30 मतीति विज्ञायैव सेवकस्य तत्र प्रवृत्तरिति द्वितीयव्युत्पत्त्यर्थः। प्रसन्ननृपसेवापि देशकालादिप्रतिबन्धकवशान्नेप्सितार्थस्यापि प्रसवसमर्थेत्याशयेनाह देशकालेत्यादि । तथाचानिष्टमपि फलं सेनादिक्रियायाः स्यादित्यनियतं फलमुभयत्र व्यभिचारादिति भावः, अथ देशादयः किमेकान्तेनावबन्धकाः, उतैकान्तेन कारणभूता वेति विकल्पं मनसि निधायाऽऽयं दूषयति-अथेति।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org