________________
द्वादशचक्रम्
[ विध्यरे
कारणमिति शब्दव्युत्पत्तिराश्रीयते, उच्यते, अविदितवेदनार्थविधिपरतया वाक्यप्रवृत्तेस्तस्यामवस्थायामनुपजनितविषयत्वादपवादस्पर्शस्य, तदा हि करोतीति कारणमिति कारणत्वविधानमात्रं क्रियते, देशकालादिविशेषाविशेषणादसति स्वविषये कमर्थमपवादः स्पृशेत् ? किं करोत्येव, न, करोत्यपि क्वचित् कदाचित् इति । तदा स मन्यते वक्ता, इदं तावत् 5 प्रतिष्ठां यातु करोतीति कारणमिति, प्रतिष्ठिते चास्मिंस्तत उत्तरकालं सिद्धे सति कारणत्वे कार्यसत्त्वासत्त्वयोस्तेन विशेषणप्रकारेण करोत्येव न करोत्येवेति विकलादेशवशान्नियमोपपत्तेर्विशेषणमाश्रीयते यथा नीलोत्पलं भवतीति ।
( कारण इति ) अज्ञातज्ञापनमविदितवेदनमर्थोऽस्य विधेरित्यविदितवेदनार्थो विधिस्तत्परतथा वाक्यप्रवृत्तेः । को दृष्टान्तः ? नीलोत्पलम्, यथा हि नीलोत्पलं भवतीति तद्भवनमात्रं विधीयते 10 नीलमेवोत्पलमेवेति वा नियमविशेषानाश्रयणात् तथा करोतीति कारणमिति क्रियाभवनमात्रं विधीयते करोत्येव न वेत्यनाश्रित्य विशेषनियमम्, यथा वा नीलं तिलकम्बलादिविशेषानपेक्षं उत्पलमपि रक्ततादिविशेषानपेक्षं परस्परविशिष्टमुभयमुच्यते तथा करोतीति कारणमिति कारणमात्रं देशकालादिकार्य प्रतिबन्धाप्रतिबन्धनिरपेक्षमुच्यते, अथवा शबलोत्पलत्वे सत्यपि तस्य धर्मभेदानपेक्षं नीलोत्पलमित्युच्यते तथा कारणभावाभावभेदधर्मनिरपेक्षं क्रियामात्रं करोतीति कारणमित्युच्यते ।
15
કર
20
तथा न्यग्रोधफलं यथा प्रागुक्तसदसत्त्वानियमात्तु कारणे कार्यस्य कारणतायामेव करणाकरणे तथा कार्यकरणाकरणानियमात्तु कारणस्य कार्यस्य कार्यत्वानियमः ।
( तथेति ) तथा - तेन प्रकारेण तथा वटन्यग्रोधोदुम्बरादिफलानां फलत्वात् पुष्पकार्यत्वानुमानप्रसङ्गे फलमसत्कारणं दृष्टमिति पूर्ववव्यभिचारः, आम्रपुष्पफले सत्कार्यकारणे दृष्टे इत्यत्रापि कदाचित्कयोरेव कार्यकारणयोर्दर्शनात् ।
कार्यकारण सदसत्करणाकरणानियममेव दर्शयति
· इतश्च कार्यकारणसदसत्त्वानियमः सर्वसर्वात्मकत्वसर्वकारणत्वात्, अतः सेवादिक्रियाकलापो यथार्थप्राप्तेः कारणं तथा क्लेशप्राप्तेरपि । नन्वत एव क्लेशोऽपि भवतीति चेदेवं सतीप्सितेन तावद्भवितव्यं, ईप्सितञ्च फलमर्थप्राप्तिर्न क्लेशः सेवकस्य, सन्निहिततच्छक्त्यभीहितत्वात् ।
25
नात् कदापि कुत्राप्यकरणलक्षणापवादस्य विधानकालेऽनुपस्थितेर्न तदाऽपवादस्पर्श इत्याशयेनाहाविदितेत्यादिना । अस्मिन् देशे काले वा करोतीति कारणमिति देशकालादिविशेषाविशेषणात् अपवादस्य च देशकालादिनियतत्वाद ज्ञात ज्ञापनकालेऽपवादविषयदेशादिविशिष्टताया अभावेन नापवादस्पर्शस्तदेत्याह देशकालादीति । यस्मिन् बीजादौ कार्यमस्ति तत्करोत्येव, यत्र च बीजादौ तन्नास्ति तन्न करोत्येवेति ततो नियम्यत इत्याह प्रतिष्ठित इति, यथा वेत्यादि, यथा नीलोत्पलं भवतीत्यत्र किं नीलं ? न तिलं न वा कम्बलं किन्तूत्पलमिति व्यावर्त्तकतया तिलादीननपेक्षमाणं नीलं तथा न रक्तं 30 श्वेतं वोत्पलं किन्तु नीलमिति व्यावर्तकतया रक्ततादिविशेषानपेक्षमुत्पलञ्चोच्यत इति भावः । इदच वस्तुतो नीलोत्पलाभि
।
प्रायेण । चित्रोत्पले यदा नीलोत्पलमित्युच्यते रक्ततादिधर्मानपेक्षया तदापि घटयति-अथवेति तदेवं कारणे सत्येव कार्यस्य भावोऽभावश्च समर्थितः, इदानीमसति च कारणे कार्यस्य सदसत्त्वानियमं प्रदर्शयितुं दृष्टान्तमाह तथा न्यग्रोधफलमिति,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org