________________
४१
कार्यसदसत्त्वे] न्यायागमानुसारिणीव्याख्यासमेतम्
यथा वा वातककर्कोटकपुष्पं फलकारणं सत्कार्य पुष्पत्वादामपुष्पवदित्यनुमानप्रसअपि च दृष्टमसत्कार्यम् , अव्यक्तमिति चेन्न व्यक्तिकार्यस्याव्यक्तकार्यत्वादसत्त्वतुल्यत्वात् । __ (यथा वेति) असत्कार्य पुष्पफलमस्मिन्नित्यसत्कार्यं तस्याफलत्वदर्शनादृष्टविरुद्धमनुमानमतोऽसत्कार्य तदिति । अव्यक्तमिति चेत्-स्यान्मतमव्यक्तानि वातककर्कोटकवचुलजपाकुसुमादीनां फलानि कार्याणीत्येतचायुक्तं व्यक्तिकार्यस्याव्यक्तकार्यत्वादसत्वतुल्यत्वात्-व्यक्तिः कार्यमस्येति व्यक्तिकार्य, किं तत् ! कार्य, सस्य कार्यस्य अव्यक्तकार्यत्वादसत्त्वेन तुल्यं तद्भावोऽसत्त्वतुल्यत्वं तस्मादसवतुल्यत्वान्नाव्यक्तं कार्यमस्तीति । अथवा व्यक्तिश्च तत्कार्यश्च, तद्व्यक्तिरेव कार्य वा तत् , अव्यक्तं कार्यमव्यक्त कार्य, तस्याव्यक्तकार्यत्वादसत्त्वतुल्यत्वं तस्मादसत्तत्, वातककर्कोटकादिपुष्पफलं नाव्यक्तं कार्यमिति ।
स्थान्मतम्
करोतीति कारणं तस्मात्स्वकार्यस्याकरणादकारणत्वमेवेति चेन्न, बीजादीनामपि ह्यका-10 रणव क्वचिदकरणादिति कारणमप्यकारणमेवास्तु, अनिष्टश्चैतत् , लोके पुनरुत्पद्यते कार्यम् , सदसत्त्वानियमासु करणे वीजादौ कारणतायामेव सत्यां करणाकरणे ।
करोतीति कारणं यथोक्तं "ष्ठिवसिव्योयुट्परयोर्दीर्घत्वं वष्टि भागुरिः। करोतेः कर्तभावेच सौनागाः सम्प्रचक्षते ॥' तस्मात् स्वकार्यस्याकरणादकारणत्वमेवेति, एतदपि नोपपद्यते यस्माद्वीजादीनामप्यकारणतैव क्वचिदकारणादिति प्राप्तम्, इतिशब्दो हेत्वर्थे, यस्मात्तेषामपि बीजानां त्रिवर्षपरिपो-15 पितानामङ्कुराधुत्पादनशतवमावः, आदिग्रहणाम्मृदादि घटायुत्पादने, ततः को दोषः ? कारणमध्यकारणमेवास्तु, कार्यकारणाव्यभिचाराभावात् , एवञ्च सति कृषीवलादीनां सकदृष्टबीजारादिकार्यकारणमाषव्यभिचाराणां तदर्थाप्रवृत्तेः पुनरनारम्भात् करणाभावे कारणाभाव एव स्यात्, अनिष्ठश्वैतत् लोके पुनरुत्पद्यते कार्यम् , सदसत्त्वानियमात्तुकरणे बीजादौ कारणतायामेव सत्या करणाकरणे सन्निहिते तन्त्वादौ कारणे कार्यस्य पटादेश्च कादाचित्कयोः करणाकरणयोर्दर्शनात् ।
20 स्यान्मतम्
कारणे कार्यस्य सदसत्त्वयोरनियमात् करणाकरणयोरनियमे किमर्थ पुनः करोतीति नवनियत्राप्यनियम इति भावः । कारणे कार्य सदेवेति नियमे व्यभिचारमाह यथा वेति, पातकः कर्कोटकच फलरहि तपुष्पवन्मूलिकाविशेषौ । नन्वत्रापि फलमस्त्येव परन्तु नाभिव्यक्तमित्याशङ्कतेऽव्यक्तमिति चेदिति, फलं हि व्यकभूतं कार्य तत्कथमव्यकं भवेत् , अतोऽसत्त्वान्नाव्यक्तं कार्य भवितुमर्हतीत्याह-व्यक्तकार्यत्वादिति, ननु तर्हि बातकादिपुष्पाणि 25 कारणमेव न भवन्ति खकार्याकरणात् , यद्धि कार्य न करोति सत्कथं कारणं भवेत् , क्रियानिमित्तकत्वात् कार्यकारणभावस्थेत्याशकते करोतीति, सत्रानिष्टप्रसङ्गमुपदर्शयति बीजादीनामिति, अनियमपक्षे न कोऽपि दोष इत्याह सदसत्त्वेति । करोतीति कारणमिति, कर्तरि ल्युदप्रत्यये गुणे सौनागमतेन दीर्घत्वं बोध्यम् । कारणतायामेव सत्यामिति, कारणत्वमादधदपि वीजादि अङ्करे करोत्यपि न करोत्यपीति भावः । सदसवानियमात्त्विति, बीजमात्रस्य कारणत्वेऽपि कानिचिदेव बीजानि येषु कार्य वर्तते तपनि कार्य कुर्वन्ति कानिधिच बीजानि येषु कार्य न वर्तते तानि कार्य न कुर्वन्ती-30 त्यर्थः । अकुर्वतामपि बीजादीनां कारणत्वे करोतीति कारणमिति व्युत्पत्तिः कथं संजाघटीति येन तान्यपि कारणानीत्युच्यन्ते इस्यत्राह कारणे कार्यस्येत्यादि । बीजादीनामविदितां करोतीति वेदनां जनयितुमेव करोतीति कारणत्वमात्रं विधीयते न करोत्येव न करोयेव वेति नियम्यते विदितस्यैव नियमनातू सदा सर्वदा करोतीत्यविधानात् केवलं कारणत्वमात्रविधा
द्वा० न०६
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org