________________
४०
द्वादशारनयचक्रम्
[विध्यरे लैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते” (वाचस्पतिमिश्राः) अनुमानान्तरबाध्यत्वेऽनवस्थितानुमानत्वाल्लोकप्रसिद्धिरेव प्रमाणमित्यर्थः ।
को ह्येतद्वेद किं वाऽनेन ज्ञातेन ।
(क इति) को ह्येतद्वेदेत्यशक्यप्राप्तिं दर्शयति किं वाऽनेन ज्ञातेनेति प्रयोजनाभावश्च, यस्मात् प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनानां जिज्ञासासंशयशक्यप्राप्तिप्रयोजनपूर्वाणां संशयव्युदासः फलमन्ते भविष्यतीति दशावयववादिनां मतं तथा च व्यवहारप्रसिद्धिः। तस्मात्त्यज्यतामद्यतनाव्याप्त्यतिप्रसगागमकाक्षरदरिद्रकुसृतिकाररचितन्यायलक्षणानीति ।
तथा च कारणे कार्यसदसत्त्वानियमः, कारणे सत्येव भावाभावाभ्याम् , असति च कारणे कार्यस्य, सेवाद्युद्योगफलानियमात् । 10 (तथा चेति) तथा च कारणे कार्यसदसत्त्वानियमः, एवश्च कृत्वाऽनेन न्यायेन यथा का
रणमेव न कार्य कार्यमेव न कारणं सामान्यमेव न विशेषो विशेष एव न सामान्यमुभयमन्यतरोपसर्जनमुभयाभावो वेत्ययं नियमो नास्त्युक्तविधिना, तथा कारणे कार्यस्य सत्त्वमेवासत्त्वमेवेत्ययमपि नियमो नास्ति, कथं ? यदि कार्य सत्ततः कारणमेवेति नास्ति, कार्यस्यापि सत्त्वात् , कथं ? क्रियानिमित्तकत्वात् कारणत्वकार्यत्वयोः, कार्याभावे कारणाभावः कारणाभावे कार्याभाव इति । तथा 15 यदि कारणं सत्ततः कार्यमेवेति न भवति कारणस्यापि सत्त्वात्, एवं सामान्यविशेषोभयान्यतरोपस
र्जनोभयाभावेष्वपि भावनीयम् । तत्र तावत्कारणे कार्य सदेवासदेव सदसदेवेति ये ब्रुवते तेषां यो नियमाभाव उक्तस्सोऽन्यतरोपसर्जनोभयाभावयोरप्युक्त एव भवतीत्यभिप्रायः। तत्र कारणे कार्य सदेवासदेवेत्यनियमः, को हेतुः ? कारणे सत्येव भावाभावाभ्यामिति यथासंख्यं हेतू । सत्येवभावाद
सत् कारणे कार्य मित्यनियमः, सत्येवाभावात् सदेवेत्यनियमः, असति च कारणे कार्यस्य, सदसत्वा20 नियम इति वर्त्तते, कुतः ? सेवाद्युद्योगफलानियमात् , दृष्टो हि लोके कृषीवलवणिग्राजपुरुषशिल्प्यादीनां कृषिवाणिज्यसेवाशिल्पादिषूद्युक्तानां फलानियमः सत्स्वसत्सु च । खतंत्रतर्काविषये न सांख्यादिवत् साधर्म्यवैधर्म्यमात्रेण तर्कः प्रवर्तनीयो येन प्रधानादिसिद्धिर्भवेत् , शुष्कतर्को हि न संभवत्यप्रतिष्ठानात्, न च महापुरुषपरिगृहीतत्वेन कस्यचित्तकस्य प्रतिष्ठा, महापुरुषाणामेव तार्किकाणां मिथो विप्रतिपत्तरिति
कारिकोपन्यासं विधातुर्वाचस्पति मिश्रस्याशयः। जिज्ञासेति, अप्रतीयमानेऽर्थे प्रत्ययार्थस्य हानोपादानोपेक्षालक्षणस्य प्रथ25 र्तिका जिज्ञासा, तजनकः संशयः, शक्यप्राप्तिः प्रमाणानां ज्ञानजननसामर्थ्यम् , प्रयोजनं तत्त्वावधारणम्, संशयव्युदासः
प्रतिपक्षोपवर्णनम्, तर्को वेति गौतमभाष्ये । अत्र तु संशयव्युदासः संशयापगमो विवक्षित इति ज्ञायते स च विचारानन्तरं भवति ततश्च निश्चितार्थत्वाद्यवहारः प्रवर्तत इति भावः । एवञ्च यतः संशयव्युदासलक्षणं फलमन्ते भवति ततो नेदानीं वस्तूनामनिर्णीतानां लक्षणप्रणयनं समुचितमित्यशक्यप्राप्तिः प्रयोजनाभावश्चेति बोध्यम् । यदि कार्य सदिति, अयं ग्रंथः
कारणमेव न कार्यमित्यस्य निराकरणपरः । हेतुमाह क्रियानिमित्तकत्वात् कारणस्वकार्य्यत्वयोरिति, क्रियापेक्षत्वादित्यर्थः क्रिया80 प्रयोजकत्वं कारणत्वं क्रियाविषयत्वं च कार्यत्वं, तत्र चैकस्य सत्त्वेऽपरस्य सत्त्वमवश्यंभावि, अन्यथा तत्स्वरूपमेव न स्यादेव
मेकस्याभावेऽपरमपि न स्यात् , क्रियाया आश्रयः स्यान्निरूपको मा भूत् , निरूपकः स्यादाश्रयो मा भूदित्यवं वक्तुमयुक्तत्वादिति कारणमेव कायेमेवेति यथा न नियमस्तथा कारणे कार्यस्य सदसत्त्वयोरप्यनियमः कारणे सत्येव भावाभावाभ्यामिति भावः । कृषीवलेति, कृषीवलः कृषि वणिग्वाणिज्यं राजपुरुषः सेवां शिल्पी च शिल्पं करोति तत्र यदि कृष्यादौ कार्य सदेव तहि सदा सर्वेषां कृष्यादि फलाव्यभिचारि भवेन चैवमित्यनियमः, यद्यसदेव फलं तर्हि कस्यापि कदापि फलं न भवेदेव
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org