________________
वादोच्छेदभङ्गः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
वा, येऽन्येऽन्यत् कल्पयन्ति कारणमेव कार्यमेव सामान्यमेव विशेष एव तदुभयमेवान्यतरोपसर्जप्रधानमेव नैव वाऽस्त्युभयमिति किमेतेन । यदि कारणं यदि कार्य ततः को दोषः, दृश्यते हि कारणमपि कार्यमपि, यथा परमाणुः कारणं द्व्यणुकादेर्मृत्पिण्डशिवकादीनां कार्यमपि सद्भेदजत्वात्, एवं द्र्यकत्र्यणुकादीनामपि कारणकार्यभावः संघात भेदाभ्याम् । सामान्यं द्रव्यक्षेत्रकालभावानां खपरभवनसामान्यानतिवृत्तेः, स्वपरविशिष्टभवनात्मकत्वाद्विशेषः, एवमुभयमन्यतरोपसर्जनप्रधानश्च सद्दक्रमस्वातंत्र्यपारतंत्र्यविवक्षावशात् न चास्त्युभयम्, एकान्तरूपस्य परस्पराप्रतिबद्धस्यासिद्धेरसिद्ध्यादिशून्यतानुभवनात् ।
स एव व्यवहारनयाश्रयालौकिको ब्रूते
को हि वादानामन्तं कर्तुं शक्नुयात्, अभियुक्तबुद्ध्युत्कर्षपरम्पराया अदृष्टद्रष्टृत्वात्, आह च 'णिययवयणिज्जसच्चा सबणया परवियालणे मोहा । ते पुण अदिट्ठसमया विभजइ 10 सच्चैव अवि' इति ( सम्म० का० १, गा० २८ )
को हि वादानामिति, एकान्तवादानामन्तं कर्त्तुं शक्नुयात्-उच्छेदं शक्नुयात् कर्त्तुमिति, किं कारणं ? न हि सांख्याभिहिताः सत्कारणे कार्य 'असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ' ( सांख्यका० ९ ) इत्येवमादयो हेतवः, न वा वैशेषिकोक्ताः क्रियागुणव्यपदेशाभावादसदित्यादयः, क्षणिका घटादयः प्रत्ययायत्तजन्मत्वादित्यादयो 15 वा बौद्धोक्ताः परस्परेणोच्छेत्तुं शक्यन्ते, अभियुक्तबुद्ध्युत्कर्षपरम्पराया अदृष्टद्रष्टृत्वात् । एतस्मिन्नर्थे ज्ञापकमाह-आह चेति, नाहमेव स्वमनीषिकया ब्रवीमि किं तर्हि ? अन्येऽप्येवं ब्रुवते “णिययवय णिज्जसच्चा सणया परवियालणे मोहा । ते पुण अदिट्ठसमया विभजइ सच्चेव अलिएव ॥" ( सम्म० स्वविषयसत्यत्वादेवाविचाल्या इति तच्चालने मोघा:, तेषामनेकान्तस्थिति स्वतत्त्वानवबोधात् सत्यमेवासत्यमेवेत्यदृष्टसमयस्तान् विभजत इत्याचार्यसिद्धसेनाः । तथाऽन्येऽपि “यत्नेनानुमितोऽप्यर्थः कुत्र - 20
० )
1
३९
इति नतोऽधिको न्यूमो वेत्यर्थस्त्ववधारणार्थत्व इत्याशयेनोक्तमियानेवेति । तद्भेदजत्वादिति, मृत्पिण्डशिन कादीनां भेदेन जातत्वादित्यर्थः, घटकपालकपालि कारार्करिकापांसुधूल्यादिक्रमेण परमाणोर्जातत्वात् यद्वा मृत्पिण्डादिलक्षणस्कन्धात् पृथ भावे सति परमाणोस्तद्भेदजत्वादिति भावः । खपरेति, खेन रूपेण भवनलक्षणं सामान्यं पररूपेण भवनलक्षणं वा सामान्य दध्यादयो नातिवर्तन्ते द्रव्यादीनां सजातीयरूपेण विजातीयरूपेण या भवनादिति भावः तथाच भवनसामान्यापेक्षया कारणभूतं कार्यभूतमपि परमाण्वादिद्रव्यं सामान्यं द्व्यणुकयणु कादिलक्षणविशिष्टभवनापेक्षया च विशेषोऽपि, कार्यकारणयोः सामा न्यविशेषयोश्च सहस्वातंत्र्यविवक्षायामुभयरूपं क्रमेण पारतंत्र्यविवक्षायां कार्योपसर्जन कारणरूपं कारणोपसर्जन कार्य कार्यैकखरूपस्य कारणैकरूपस्य कस्यचिदभावान्न किंचिद्वस्तु किंतु शून्यमेवेति भावः । असत्करणादित्यादि, मदवाब क्रियते, पटाद्यर्थं प्रतिनियतमेव तन्त्वादिरुपादीयते, सर्वस्मात्तृणादेः स्वर्णरजतादि कार्यं नोत्पद्यते, शक्ता अपि हेतमः शक्यक्रियमेव कार्यं कुर्वन्ति, कारणमस्तीति च कार्योत्पत्तेः पूर्वमपि कारणे कार्य सदित्यर्थः । प्रत्ययायत्तजन्मत्ना विवि, वर्तमान क्षणवृतिपदार्थस्यैव प्रतीतिविषयता नातीतानागत कालवृत्तिनः, अतीतादेः प्रत्ययाविषयत्वादिति प्रत्ययतः कि वस्तु सिद्धयतीति भावः । अथवा स्कन्धपश्चकस्य समुदयो हेतूपनिबन्धात् प्रत्ययोपनिबंधाच्च, बीजादङ्करः असद पत्रास्काण्डं काण्डान्नालं नालाद्गर्भे गर्भाच्छुकः शुकात् पुष्पं पुष्पात् फलमिति हेतूपनिबंधात् । न ह्यत्र बीजादी क निर्वर्त्तयामीत्यभिसंधिः। प्रत्ययोपनिबन्धस्त्वयम् यः पृथिव्यादिधातुसमवायः तत्र पृथिवी बीजस्य सन्धारणमा भेद तेजोधातुः परिपाचनं बायुधातुरभिनिर्हरणं करोति इत्येवं प्रत्ययायतजन्माऽङ्कुरादिरिति बोध्यम् ।
नेति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org