________________
३८ द्वादशारनयचक्रम्
[विण्यरे दुक्तवदिति, न हि तस्य व्यावृत्त्यपेक्षा पटादिषु, यदि स्थात् , स तेभ्यो व्यावर्तेत, ततश्च सर्वविशिष्टत्वात् स एव न स्याद्धटोऽपि, घटपटयोरिव, तत्सन्निवेशस्वरूपापेक्षत्वाच्च तस्यास्तस्य तु तदपेक्षा व्यर्था, इतरेतराश्रयदोषापादनादिति सर्वमतिदेश्यम् ।
किश्चान्यत
यथालोकप्रसिद्धं पूर्वत्वाच्च घटात्मभवनस्य, अनपेक्षितपूर्वापरप्रभेदत्वात् , प्रकृतिरिति वाऽन्यदिति वा पूर्वापरप्रभेदाः, वर्तमानत्वाच्च तन्न प्रलयभाक् ।
(यथेति) पूर्वत्वाच्च घटात्मभवनस्य सामान्यविशेषाभ्यां हि घटभवनं पूर्व तत्कथमिति चेत् ? यथालोकप्रसिद्धं, लोके प्रसिद्ध लोकप्रसिद्धं, यथैव लोकप्रसिद्ध तथा घटभवनम् , आकारादिमात्रमेव च घट इति लोके प्रसिद्धं तदेव पूर्वम् , अनपेक्षितपूर्वापरप्रभेदत्वात् , के पुनः पूर्वापरप्र10 भेदाः ? घटादारभ्य यावत्प्रकृति ते पूर्वप्रभेदाः सांख्यानाम् , सदिति वा वैशेषिकाणामपरप्रभेदाः यावदन्त्यविशेषकृतमन्यदिति सांख्यवैशेषिकाभ्यां कल्पितम् , अत आह-प्रकृतिरिति वा अन्यदिति वा, बौद्धन वा क्षणिकत्वादत्यन्तमन्यदिति । वर्तमानत्वाच्च, वर्ततेरस्त्यर्थत्वात् , 'अस्तिभवतिविद्यतिपद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्थाः' इति वचनात् , अत एव नित्यं जलाहरणादिव्यवहारसन्निपाति
सततमतीतानागतकालयोरपि घटपटयोरवस्थानान्न प्रलयभागिति, नाम्भस्तरङ्गवत् स्वात्मप्रवेशं न 16 प्रदीपज्वालानलवदत्यन्तविनाशं द्विविधमपि प्रलयं लभते, द्रव्यस्य पर्यायान्तरेण पर्यायस्यापि द्रव्या
विनाभावादेव सत्त्वात् , एकान्तासदुत्पत्तिविनाशवादयोरहेतुदृष्टान्तत्वात् , एकान्तनित्यवादेन धर्माविर्भावतिरोभावाभावात् ।
तद्धि तेन रूपेण सर्वकालं सद्धर्तते सत्तार्थत्वात् , वर्त्तत इति भाव इति योऽसौ भावः, तदन्तरङ्गं प्रधानमनपेक्षं पूर्व वर्तमानञ्च-वस्त्विति येऽन्येऽन्यत्कल्पयन्ति कारणमेव कार्यमेव 20 सामान्यमेव विशेष एव तदुभयमेवान्यतरोपसर्जनप्रधानमेव नैव वास्त्युभयमिति किमेतेन ।
(तद्धीति) तद्धि तेन रूपेण सर्वकालं सद्वर्त्तते सत्तार्थत्वादिति, तदेव व्याचष्टे वर्तत इति भाव इति, वृत्तिभवनयोः प्रागुक्तं पर्यायशब्दत्वं दर्शयति योऽसाविति, प्रत्यात्मनि य एवं व्याख्यातो भावः सोऽसौ, तदेव वस्तु नान्यदिति प्रतिपत्तव्यमिति निगमयति-तदन्तरङ्गं प्रधानमनपेक्षं पूर्व वर्त्तमानश्च तद्वस्तु, इतिशब्दः परिसमाप्त्यर्थोऽवधारणार्थो वा, इयानेव पर्याप्तोऽर्थो नातोऽधिको न्यूनो
25 वक्तव्यं तस्यापि सर्वान्तःपातितया ततोऽपि विशिष्टत्वप्राप्तौ सर्वशून्यतैव स्यादिति भावः । अथ घटो व्यावृत्त्यपेक्षात्मलाभः व्यावृत्तिरपि घटात्मलाभापेक्षेति शङ्कायामाहेतरेतराश्रयेति । प्रकृतित एव सर्वेषामारम्भात् प्रकृतेर्घटावस्थापर्यन्तं ये परिणामाः सर्वे ते घटस्य पूर्वप्रभेदाः सांख्यमतेन, सद्भतात् परमाणोव्यस्यारम्भात् तदारभ्य घटोत्पादपर्यन्तं कार्यभेदा घटस्य पूर्वप्रभेदा वैशेषिकमतेनेत्याह सांख्यानामिति । सन्निपातषष्टा इति. सन्निपातोऽपि सत्तावाचीति भावः । सत्ता
च कालत्रयवर्तिनीति सद्रूपेण घटपटादयः सर्वे सर्वदा सन्तीति तच्छ्रन्यकालाप्रसिख्याऽम्भसि तरङ्गाणीव प्रकृतौ महदादिविकार30 जातानि सर्वाणि कदाचिल्लयं यान्तीत्येवंरूपः सांख्याभिमतः प्रदीपज्वालालक्षणानल इव वणुकादिकार्यजातानि निरन्वयविनाशं
लभन्त इत्येवंरूपो नैयायिकाभिप्रेतो वा प्रलयो निर्मूल एवेति भावः। तत्र हेतुमाह द्रव्यस्येति । अहेतुदृष्टान्तत्वादिति निरन्वयोत्पत्तिविनाशसाधकस्य कस्यचिदपि हेतोदृष्टान्तस्य वाऽभावादित्यर्थः । इतिशब्दस्य परिसमाप्त्यर्थत्वे इयानेव पयोप्तोऽर्थ
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org