________________
३७
अन्तरङ्गवस्तुस्थापनम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
(नेति) न तु यथा तौ सञ्चारिणौ-सामान्यविशेषावव्यवस्थितौ परापेक्षत्वादव्यवस्थितत्वाचावस्तु वन्ध्यापुत्रवत्, क पुनः सञ्चारिणौ ? सद्रव्यादिषु, सद्व्यपृथिवीमृद्धटत्वाभिसम्बन्धादस्ति द्रव्यं पार्थिवो मार्तिको घट इति घटे सम्प्रत्यय इति, उक्तं ह्याचार्यण 'घटभवनस्योदकाद्याहरणसक्तात्मनः पुनः क सञ्चरणम् ? अनपेक्षत्वाच्च' तदेव वस्त्वित्यभिसम्बध्यते प्रत्येकं सर्वत्र, तद्धि घटभवनं न घट इति वा पट इति वा घटपटादिद्रव्यान्तरमपेक्षते, यथाऽनुवृत्तिव्यावृत्तिसामान्यवादिमते च तदर्थ घट्पटाद्यर्थान्तरापेक्षा, व्यावृत्तिविशेषवादिमते च तदर्थं घटपटादिद्रव्यान्तरापेक्षा, लौकिकाsनुवृत्तिव्यावृत्तिव्यवहारनयवादिमते तु सन्निहितस्वाधीनवृत्तित्वाद्धटात्मभवनस्य न तदपेक्षाऽस्तीति तद्दर्शयति-न हि तस्यानुवृत्त्यपेक्षा घटान्तरेषु, अर्थापत्त्या न व्यावृत्त्यपेक्षा पटादिद्रव्यान्तरेषु, यदि स्यादपेक्षा ततोऽनुवर्तेत स-घटस्तेष्वपि-घटान्तरेष्वपि न पुनरपेक्षाऽस्ति तस्य स्वसामर्थ्य नैव सिद्धत्वात् , तस्य-घटात्मनः, यद्यपेक्षेत घटो घटान्तराणि घटान्तरेष्वप्यनुवर्तेत, ततश्च सर्वसामान्यांश 10 एव स स्याद्भूटान्तरमपि घटात्मैव स्यात्तत्तत्त्वानुवृत्तेर्घटात्मवदिति दोषः स्यात्, देशभिन्नेष्वपि घटेषु कालाभिन्नघटवत् , तन्निदर्शयति-पूर्वाहापराहयोरेक एव घट इति ।
नापि घटस्तत्त्वानुवृत्तिमपेक्षते घटात्मन्यसिद्धे तत्त्वानुवृत्त्यसिद्धेस्तत एव च न पटादिव्यावृत्तिमपेक्षते तदायत्तत्वादित्यत आह
तत्सन्निवेशस्वरूपापेक्षत्वाच्च तस्यास्तस्य तु तदपेक्षा व्यर्था, घटोऽपि घटत्वापेक्षात्मला- 15 भस्तत्त्वानुवृत्तिरपि घटात्मलाभापेक्षेति चेन्न, इतरेतराश्रयदोषापादनात् ।
(तदिति) तत्सन्निवेशस्वरूपापेक्षत्वाञ्च तस्यास्तस्य तु तदपेक्षा व्यर्था घटावयवसन्निवेशखरूपमपेक्षते घटान्तरानुवृत्तिः पटादिव्यावृत्तिरपीति युक्ताऽनुवृत्तेर्घटापेक्षा व्यावृत्तेरपि पटादेः, घटस्य पुनरनुवृत्तिव्यावृत्त्यपेक्षा व्यर्था, स्वत एव सिद्धत्वात् , स्यान्मतं घटोऽपि घटत्वापेक्षात्मलाभः, तत्त्वानुवृत्तिरपि घटात्मलाभापेक्षेति, एतच्चायुक्तमितरेतराश्रयदोषापादनात्, घटघटत्वानुवर्तनयोरितरेतरा-20 श्रयत्वदोषमापादयत्येषा कल्पना, इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते तद्यथा नौ वि बद्धा नेतरतारणायेति, उक्तं सामान्यं नापेक्षत इति ।
तथा विशेषेऽप्यस्य नापेक्षा, अन्यथा स एव न स्यादुक्तवत् ।
तथा विशेषेऽप्यस्य नापेक्षेति, यथा सामान्यापेक्षा नास्ति घटात्मलाभस्य तथा विशेषेऽपीति प्रोक्तहेतुविधिनाऽतिदिशति, तथा च योजितमस्माभिरर्थतः, ग्रन्थतो योजनापि तथाहि स एव न स्या- 25
खरूपावस्थानादित्यर्थः । सामान्य विशेषौ च सजातीयविजातीयापेक्षावतोऽनेकापेक्षत्वात्सञ्चारिणावित्याशयेनाह न त्विति । अस्य घटस्याभिमतानेकघटान्तरसम्बद्धवभावत्वे तस्य घटान्तरेषु यद्यनुवृत्तिः स्यात्तदाऽसौ तेषामेकदेशः स्यात्तेषाञ्चैकात्म्य स्यादविभक्तरूपतयाऽस्यावस्थितत्वात् , अन्यथैकदेशत्वं न भवेत् खस्मिन् घटानुवृत्तेरिव घटान्तरेष्वपि घटानुवृत्तौ तेऽप्येत
टात्मान एव भवेयुरित्याशयेनाह यद्यपेक्षेतेति । जातेः संस्थानव्यङ्गयत्वात् संस्थानस्य चावयवसन्निवेशविशेषरूपत्वात्तदपेक्षयाऽनुवृत्तिः सती, व्यावृत्तिरपि भेदस्वरूपा प्रतियोगिनमपेक्षत एवेति तस्या अपि तदपेक्षा युक्ता घटस्तु न किमप्यपेक्षते 30 व्यवस्थितत्वादित्याशयेनोच्यते घटावयवेति । घटोऽपि घटत्वापेक्षात्मलाभ इति, घटत्वयोगादेव घटस्वरूपत्वात्तस्य तदपेक्षेत्यर्थः, घटात्मलाभमपेक्षत इति लब्धखरूपेषु सञ्चरिष्णुतयेति भावः । स एव न स्यादिति यस्य सर्वस्माद्विशिष्टत्वं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org