________________
३६
द्वादशारनयचक्रम्
[विध्यरे सत्यात्मभेदः, रूपं रूपश्च रूपादिसमुदयश्चेत्यादि, तथा विशेषोऽपि यदि स्वविषयो विशेषविरोधः, यदि विशेषस्तत आत्मा न भवत्यन्यत्वाद्विशेषस्य गुणतः कालसो वा, अन्यथा घटादौ सामान्यापत्तेः, अथात्मा ततो विशेषो न भवति, एकत्वादात्मनः । अथोच्येत नैकत्वान्यत्वविरोधदोषौ, आत्मैव विशेष इत्यनपादानादिप्रतिज्ञानात् , यद्यात्मापेक्ष एव विशेषस्तक एवान्य इत्यात्मनोऽन्यथाभवनादनात्मत्वमित्यादिपूर्वोक्तदोषसम्बन्धिनी स्वविषयसामान्यविशेषापत्तिः । अत्राह संसर्गवादी यद्यात्मैव सामान्यमात्मैव विशेष इति ब्रूयां सांख्यबौद्धवत्परे ते दोषा ममापि, न पुनर्ममैवं पक्षः, मम तु सामान्यविशेषौ द्रव्यगुणकर्मभ्योऽत्यन्तभिन्नौ नागृहीतविशेषणा विशेष्ये बुद्धिरस्तीति सत्त्वाभिसम्बन्धात्सत् , द्रव्यत्वाभिसम्बन्धाव्यमित्यादिसामान्यविशेषवादिनः कथं स्वविषयसामान्यविशेषपक्षदोषा इति, अत्रापि परविषयसामान्यविशेषवादिप्रत्याख्यानात् का गतिरित्यलं प्रसङ्गेन ।
तस्मादेतदोषापेतं सर्वथान्तरङ्गं वस्तु प्रतिपत्तव्यम् , न बहिरङ्ग सत्त्वद्रव्यत्वादि, स्वमूर्तिस्थत्वात् प्रधानत्वाव्यवस्थितत्वाच्च घटादिभवनस्य । . (तस्मादिति) तस्मादित्युक्तदोषोपसंहारार्थः, एतदोषापेतं सर्वथान्तरङ्ग वस्त्विति प्रतिपत्तव्यं घटादीत्यभिसम्बन्धः, सर्वेण प्रकारेण सर्वथा, यां गतागतिं गत्वा सामान्यमेव विशेष एवेत्येवमादिना विचार्य विचारान्तरङ्गं वस्तु घटस्य केनचित् प्रतिविशिष्टेनाकारेणोदकाद्याहरणधारणादिसमर्थन भवनं 18 समानेन चार्थान्तरैस्तदेवाश्रयणीयम् , न बहिरङ्ग सत्वद्रव्यत्वादि स्वपरविषयसामान्यविशेषवादिपरि
कल्पितम् , यथोक्तम् "अन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिबलवान्”, य एष प्रेक्षापूर्वकारी पुरुषः स प्रातरुत्थाय प्रत्यङ्गवर्तीनि स्वानि कार्याणि कुरुते ततः सम्बन्धिनां ततः सुहृदां ततः शेषाणामिति, तदन्तरङ्गत्वं कुतः ? स्वमूर्तिस्थत्वात् स्वा मूर्तिीवाद्यात्मिका तत्रस्थत्वाजलाद्याहरणसमर्थस्य भवनस्य, प्रधानत्वाञ्च तदेव ग्राह्यम् , कुतः प्रधानं ? तदर्थत्वात्सामान्यविशेषयोः, कन्यार्थवस्त्रालङ्कारवत्। घटार्थों 20 हि सामान्यविशेषकल्पनाव्यापारः, ब्रीहिकणार्थपललादिवदप्रधानत्वात् सामान्यविशेषयोस्त्याज्यता । व्यवस्थितत्वाञ्च तदेव घटभवनं ग्राह्यम्, व्यवस्थितत्वश्चात्मन्यवस्थितत्वात् ।
न तु यथा तौ सद्रव्यादिषु सञ्चारिणौ, घटभवनस्योदकाद्याहरणसत्तात्मनः पुनः क सञ्चरणम् , अनपेक्षत्वाच्च, न हि तस्यानुवृत्त्यपेक्षा घटान्तरेषु, यदि स्यात्ततोऽनुवर्तेत
स तेष्वपि, न पुनरपेक्षाऽस्ति तस्य स्वसामर्थ्येनैव सिद्धत्वात् , ततश्च सर्वसामान्यांश एव स 25 स्यात् , तद्यथा पूर्वाह्नापरायोरेक एव घट इति । तत्त्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यावेवेति नैयायिको ब्रूयात्तदापि दोषमादर्शयति अत्राह संसर्गवादीति,नागृहीतेति, विशेषणं प्रथममगृहीत्वा विशेष्ये बुद्धिनोंदेति ततश्चादौ सत्त्वद्रव्यत्वादीनां बुद्धिस्ततश्च सदादौ विशेष्येऽत आह सत्त्वाभिसम्बग्धात् सदिति । सामान्यविशेषयोः परविषयतापक्षे ये दोषास्तेऽत्र दुर्वारा इत्याहात्रापीति । सर्वथाऽन्तरङ्गमिति,
सजातीयविजातीयव्यावृत्तं खलक्षणमेव वस्त्विति बौद्धमतम् । प्रत्यङ्गवर्तीनीति, प्रत्यासन्नवाची प्रत्यङ्गशब्दः अङ्गशब्देन ७० प्रत्यासत्तिर्लक्ष्यते, अङ्गानां प्रत्यासन्नत्वात् , अङ्गमङ्गं प्रति प्रत्यङ्गमित्यव्ययीभावः। यान्यस्य प्रत्यासन्नशरीरवतीनि कार्याणि तानि तावत्करोति, ततः सुहृदाम् , सौहार्दस्यासत्तिहेतुत्वात् , ततः सम्बन्धिनाम् , अवश्यकर्त्तव्यत्वात् ततः शेषाणाम् , सामान्यजनानां सति प्रयोजन इति भावः । घटार्थी हीति, अयं घट एव नान्य इति निर्णेतुं हि सामान्यविशेषकल्पना, घटादिश्च म परार्थ कल्पित इति स प्रधानम् , यच प्रधानं तदेव वस्तु नान्यदिति भावः, आत्मन्यवस्थितत्वादिति, परानपेक्षख
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org