________________
अर्थाश्लेषासत्तिभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् द्रव्यगुणकर्मसम्बन्धात्मिका, तेषामर्थसंज्ञितत्वात् , यथोक्तं 'अर्थ इति द्रव्यगुणकर्मसु । तत्र क्रियाबदित्यादि द्रव्यलक्षणम् , तद्भेदलक्षणञ्च रूपरसगन्धस्पर्शवती पृथिवी, रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च, तेजो रूपस्पर्शवत्, वायुः स्पर्शवान्, यत्र रूपादिचातुर्गुण्यं सा पृथिवी गन्धहीना द्रवनेहाधिकाश्चापः, द्रवस्नेहरसगन्धहीनं तेजः । रूपहीनो वायुः, द्रव्याश्रय्यादिलक्षणो गुणा, श्रोत्रग्रहणोऽर्थः शब्दः, चक्षुर्ग्रहणो योऽर्थः स रूपमित्याद्यर्थलक्षणनियतया प्रत्यासत्त्या सामान्यविशेषौ । स्थातामिति ।
अत्रोच्यते--
तन्न, अर्थाऽऽश्लेषलक्षणायान्त्वासत्तौ पृथिवीघटरूपादीनामेव स्यात्सामान्यविशेषता, नेतरसामान्यविशेषयोः, इष्यते च तयोरपि सादृश्यानुवृत्तिलक्षणसामान्यविशेषता ।
(तन्नेति) अर्थाश्लेषलक्षणायान्त्वासत्तौ पृथिवीघटरूपादीनामेव स्यात् सामान्यविशेषता 10 लक्षणोद्देशनिर्देशकृतैवेत्यर्थः, नेतरसामान्यविशेषयोः सामान्यविशेषतेति वर्त्तते, सत्त्वद्रव्यत्वपृथिवीत्वगुणत्वरूपत्वाद्यनुवृत्तिव्यावृत्तिबुद्धिलक्षणयोर्न स्यादिष्यते च तयोरपि वैशेषिकैर्गुणसमुदायद्रव्यवादिभिश्च सादृश्यानुवृत्तिलक्षणसामान्यविशेषता, कोऽभिप्रायः, अर्थाश्लेषलक्षणासत्तिकृतसामान्यविशेषाभ्युपगमे तत्त्वानुवृत्तिबुद्धिग्रहणौ न स्याताम् , तत्त्वानुवृत्तिनिवृत्तिकृतयोर्वाऽभ्युपगमेऽर्थाश्लेषकृतप्रत्यासत्त्योरभाव इति विरोधान्न प्रकल्पत इत्ययमभिप्रायः ।
किश्चान्यत्तथापि स्वविषयसामान्यविशेषापत्तिः, सा चोक्तदोषा ।
(तथापीति) अर्थाश्लेषलक्षणासत्तौ सत्यामपि स्वविषयमेव सामान्यं स्वविषय एव विशेष इत्युक्तौ प्रागुक्तौ विकल्पावापन्नौ, सा चोक्तदोषा-सापि च स्वविषयसामान्यविशेषापत्तिरुक्तदोषव, यदि स्वविषयं सामान्यविरोधः, यदि सामान्यं तत आत्मा न भवत्यनेकार्थत्वात्सामान्यस्य, अथात्मा 20 ततो न सामान्यमेकत्वादात्मनः, अथात्मैव सामान्यं रूपादिर्घटादेरात्मा तत्समुदायकार्यत्वात् , एवं
15
द्रव्यगुणकर्माण्यर्थशब्दवाच्यानि, सामान्यविशेषसमवाया अर्थशब्दानभिधेया इति वैशेषिके सूत्र उक्ताः, तत्र घटत्वपृथिवीत्वध्यत्वादयोऽनर्थसामान्यानि द्रव्यस्य क्रियागुणवत्त्वं पृथिव्या रूपरसगन्धस्पर्शवत्त्वमित्येवमादीन्यर्थसामान्यानीति तत्तत्सम्बन्धेन ते ते सामान्यविशेषाख्यां लभन्त इति । अर्थसम्बन्धप्रयुक्तसामान्यविशेषाङ्गीकारे द्रव्यगुणकर्मखेव त्रिपशब्देनोद्दिष्टेषु च सामान्यविशेषो भवेतां नेतरसामान्यविशेषयोः सामान्यविशेषौ स्यातामित्याशयेनाहााग्लेषलक्षणाया-25 न्विति । इष्यते चेति, सामान्यविशेषयोरपि सामान्यविशेषता वीक्रियत इत्यर्थः, द्रव्यत्वादेः सत्तापेक्षया विशेषत्वात्, पृथिवीत्वाद्यपेक्षया सामान्यत्वाच । लक्षणोद्देशनिर्देशकृतेति, लक्षितानां द्रव्यादीनां विमागेन प्राप्ता सामान्यविशेषतेत्यर्थः यथा द्रव्यं क्रियावत्त्वादिना लक्षणेन निर्दिश्य तद्भेदाः पृथिव्यादय उपवर्ण्यन्ते, यस्य विभागस्तत्सामान्यं ये विभागाते विशेषा इति, एवञ्च सामान्यविशेषयोः विभाज्यविभाजकभावाभावेन तयोः सामान्यविशेषता न स्यादिति भावः । अर्थानर्थयोर्विरोधादोश्लेषलक्षणासत्तिकृतसामान्यविशेषौ यत्र न तत्र तत्त्वानुवृत्तिव्यावृत्तिबुद्धि ग्राह्यो भवेताम् यत्र चैतौ न तत्रार्थाश्लेषलक्षणा-30 सत्तिकृतसामान्यविशेषावित्यभिप्रायमाह कोऽभिप्राय इति । अर्थसम्बन्धप्रयुक्तसामान्यविशेषाङ्गीकारे च द्रव्यगुणकर्माव्येव सामान्य विशेषौ द्रव्यगुणकर्मणामेवेति सामान्य विशेषश्च खविषय एवेत्यापन्नम् तत्र चोक्ता दोषा इत्याशयेनाहाऽर्थातशेषलक्षणेति । यद्यर्थाश्लेषलक्षणासत्तिकृतसामान्यविशेषौ न मयाऽभ्युपगम्येते येन खविषयपक्षपातिदोषानुषको भवेत् किन्तु
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org