________________
द्वादशारनयचक्रम्
[विध्यरे इतर आह
यथा द्रव्ययोः प्रत्यासत्तिद्रव्यत्वाभिसम्बन्धात्तथा सत्त्वाभिसम्बन्धाद्रव्यगुणकर्मणां भविष्यति यथोक्तं 'सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्तेति, अत्र श्रूमः, द्रव्ययोरपि नोपपद्यते, तथाऽऽसत्तिः सिकतानां वज्रस्य च न भूम्यम्भसोः, तेनैव हेतुक्रमेण तथाऽऽसत्तिः पिण्डघटयोन मृत्सिकतानामेवं परतः परतो यावत्तुल्यजातिगुणक्रियघोरण्वादेरेव स्याताम् , न तु तयोरप्यन्यत्वप्रत्ययप्रभावोल्लिङ्गितान्त्यविशेषयोस्तत्समवायेनापक्षिप्तप्रत्यासत्त्योस्तस्मात् सामान्याभावाद्विशेषाभावः सर्वत्रैवोभयाभावः।
(यथेति) यथा द्रव्ययोः प्रत्यासत्तिर्द्रव्यत्वाभिसम्बन्धात्तथा सत्त्वाभिसम्बन्धाद्रव्यगुणकर्मणां भविष्यति यथोक्तम् “सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्ते"ति, अत्र ब्रूमः 10 द्रव्ययोरपि त्वदनुकम्पाद्रवीकृतचेतसा मया त्वयि चित्तानुवृत्त्योक्तं, तत्राप्याशां मा कृथास्तदपि नोपपद्यते बुनासन्नीकृतसामान्यविशेषवादिनो भवतः, सामान्याभावे विशेषाभावात् , तथाऽऽसत्तिः सिकतानां वस्य च-पार्थिवत्वसामान्यानुविद्धत्वादश्मसिकतालोष्ठवज्रादीनां तेषां सामान्यविशेषौ स्यातां न भूम्यम्भसोरन्यतरस्य पार्थिवत्वाभावात् , तेनैव हेतुक्रमेण तथाऽऽसत्तिः पिण्डघटयोर्न मृत्सिकतामाम् , एवं परतः परतो यावत्तुल्यजातिगुणक्रिययोरण्वादेरेव स्याताम् , सामान्यविशेषाविति वर्तते, त18 बाऽऽसत्तिर्घटकपालयोन पिण्डकपालयोरेवं कपालशकलयोः न घटशकलयोः शकलशर्करयोन घटशर्करयोः पांशुशर्करयोर्न शकलशर्करयोः पांशुधूल्योर्न धूलिशर्करयोः धूलित्रुट्योन पांशुत्रुट्योः, त्रुटिपरमाण्वोर्न धूलिपरमाण्वोः , अथवा घटस्य च घटस्य च, न घटस्य कपालस्य चेत्यादि, द्वयोरप्यण्वोः पार्थिव शुक्लपतिसमवायिनोरण्वोः, नाऽऽप्यपार्थिवादिनीलशुक्लगतिस्थितिजातिगुणक्रिययोः। न तयोरपीत्यादि यावदपक्षिप्तप्रत्यासत्योरिति, तुल्यजातिगुणक्रियासमवायिनोरन्यत्वप्रत्ययप्रभावोल्लिङ्गितान्त्यविशेषयोः तत्स20 मवायेनापक्षिप्ताऽपहृता प्रत्यासत्तिस्तयोरपीति कृत्वा कुतस्तद्बुद्ध्यासत्तिप्रहरणम् , तस्मात्सामान्याभा
वाद्विशेषाभावः, सर्वत्रैवोभयाभाव इति द्रव्यगुणकर्मणां न सामान्यं नापि विशेष इत्यतःप्रभृति बावदण्वोरित्येतदवधि मध्याभिहितोपपत्तिबलाद्यथोपपादितं सामान्यविशेषाभावं स्मारयति ।
अत्राऽऽह
सा द्विधा प्रत्यासत्तिः, अर्थसम्बन्धादनसम्बन्धात् , तत्रानर्थलक्षणा सद्रव्यपृथिवीम26 बटादितत्त्वानुवृत्तिबुद्धिग्रहणा यथोक्ता, अर्थलक्षणा तु द्रव्यगुणकर्मसम्बन्धात्मिका यथोकं 'अर्थ इति द्रव्यगुणकर्मसु' (दै० अ०८ आ० २ सू० ३) इति ।
(सेति) सा द्विधा प्रत्यासत्तिरर्थसम्बन्धादनर्थसम्बन्धात् , तत्रानर्थलक्षणा सद्रव्यपृथिवीमृद्धटादितत्त्वानुवृत्तिबुद्धिग्रहणा यथोक्ता, सामान्यविशेषसमवायानामर्थत्वाभावात् , अर्थलक्षणा तु द्रव्ययोरपीति, यत्पूर्व मया द्रव्यस्य द्रव्यत्वसामान्यसम्भव उक्तः स त्वय्यनुकम्पयैव, न वस्त्वनुरोधेन यथा हि द्रव्यगुण30 कर्मसु म तदुख्खासत्तिस्तथा पृथिवीजलादौ द्रव्यत्वमपि न सिध्यति तदुड्या हि पृथिव्यां जले तेजआदौ वाऽऽसत्तिह्येत मतु पृथिवीजलादाविति तत्रैव सामान्यविशेषौ स्याताम् , अनयैव रीत्या पृथिवीत्वमपि न सिध्यति तबुख्या पिण्डघटयोरे. वाऽऽसतिगृथेत नतु मृरिसकतादीनाम, एवमेव घटत्वादिजातेरप्यासिद्धिर्बोध्या, एवं तुल्यजातिगुणक्रिययोरपि परमाण्वोः सामान्य म सादन्त्यविशेषवलेन तयोरन्यत्वसिमा तनुज्यासमत्वासम्भवादिति प्रघट्टकार्थः । अर्थसम्बन्धादिति,
___JainEducation International 2010_04
For Private & Personal Use Only
www.jainelibrary.org