________________
तदुझ्यासत्तिभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम्
३३ अथ तु तद्बुद्ध्यासन्नमेव ग्रहीष्यते सामान्यविशेषयोरित्येवं तर्हि द्रव्यगुणकर्मणां न सामान्यं नापि विशेषः, तेषां परस्पराऽऽसत्त्यभावात् , तया द्रव्यस्य गुणस्य कर्मणो वाऽऽसत्तिर्गृह्येत, तत्रैव च सामान्यविशेषौ स्याताम् न गुणकर्मणोः, तद्बुद्ध्यासन्नता हि द्रव्यस्य द्रव्यस्य, न द्रव्यस्य गुणस्य च, न द्रव्यस्य कर्मणाञ्च, न गुणस्य कर्मणश्चेति सामान्यभावो विशेषाभावश्च।
(अथेति) अथेत्यधिकारान्तरे, तुर्विशेषणे, प्राक्तनादेशकालाऽऽसत्त्यधिकाराबुद्ध्यासत्त्यधिकार विशिनष्टि, तद्बुद्ध्यासन्नः स इति बुद्धिः, योऽसौ प्रथमो घटः स एव द्वितीय इति बुद्धिः, का सा? तत्त्वानुवृत्तिबुद्धिः व्यावृत्तिबुद्धिरपि, तद्बुद्ध्यासत्त्या द्रव्यत्वबुद्धौ प्रसक्तायां नापो न सिकता न शिवकादिः किन्तु घट एवेति, यथोक्तम् "अनुवृत्तिप्रत्ययकारणं सामान्यम् , व्यावृत्तिबुद्धिहेतुर्विशेष" इति, अत्र ब्रूमः, एवं तर्हि द्रव्यगुणकर्मणां न सामान्यं नापि विशेषः, किं कारणं ? तेषां परस्पराऽऽसत्त्यभावात् तया तद्बुद्ध्या द्रव्यस्य गुणस्य कर्मणो वाऽऽसत्तिर्गृह्येत, किं द्रव्यबुद्ध्या गुणो गृह्यते कर्म वा? द्रव्यबुद्ध्या हि 10 तद्रव्यमेव तदासन्नत्वाद्रव्यमिति गृह्येत, तत्रैव च सामान्यविशेषौ स्यातां न गुणकर्मणोः, कस्मात् ? यस्मात्तबुद्ध्यासन्नता द्रव्यस्य द्रव्यस्य च, न द्रव्यस्य गुणस्य च, तथा न द्रव्यस्य कर्मणाश्च, न गुणस्य कर्मणश्चेति सामान्याभावो विशेषाभावश्च, तद्बुद्ध्यासत्त्यभावात् , एवञ्च कृत्वा तयोः सत्त्वं सामान्य मा भूत् तस्मात् सदिति त्रयाणामविशेष इत्ययुक्तम् , तथाऽनित्यं द्रव्यवत्कार्य कारणं सामान्यविशेषवदिति च सामान्यं द्रव्यगुणकर्मणां मा भूत् , उक्तश्च वः शास्त्रे "सदनित्यं द्रव्यवत्कार्य कारणं सामान्यविशेषवदिति 15 द्रव्यगुणकर्मणामविशेषः" (वैशे० अ० १, आ० १, सू० ८) इति, एवं तीनानात्वं द्रव्यगुणकर्मणां प्राप्तमिति चोदिते विशेष उच्यते नाविशेष एव, आरम्भानारम्भभेदात् "द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्, कर्म कर्मसाध्यं न विद्यते" (वै० अ० १, आ० १, सू० १०-११) इति, किञ्चान्यल्लक्षणभेदात् क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम् , द्रव्याश्रय्यगुणवान् गुण इति गुणलक्षणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् , तथा विरोधाविरोधभेदात् कार्याविरोधि 20 द्रव्यं कारणाविरोधि च, उभयथा विरोधी गुणः, कार्यविरोधि कर्मेत्येवमादिद्रव्यगुणकर्मनानात्वहेतुकलापश्च विशेषाभावादनर्थकमापद्यते । एवं तावद्रव्यस्य सामान्यविशेषौ स्यातां न गुणकर्मणोः । पृथिवीजलयोर्द्रव्यत्वाविशेषेऽपि गन्धाधिकत्वगन्धहीनत्वाभ्यामेव विशेषो न तु परस्परं विकार्यविकारिभावस्तथा विकारानभ्युपगमे तत्त्वान्तरत्वप्रसङ्ग इति भावः । द्रव्यत्वबुद्धौ प्रसक्तायामिति, घटसलिलादौ द्रव्यानुवृत्तिप्रत्ययेन सामान्यरूपतायां प्राप्तायां व्यावृत्तिबुझ्या नापो न सिकता न शिवकादिः किन्तु घट एवेति विशिष्यते, एवञ्चानुवृत्तिप्रत्ययेन सामान्यताप्राप्ती 25 व्यावृत्तिबुद्धिर्यत्र भवेत्तत्रैव विशेष इत्यभिप्राय इति प्रतिभाति । द्रव्यगुणकर्मणां सामान्यविशेषाभावं समर्थयति तहज्येति. दन्यबुद्ध्यासन्नताया द्रव्य एव सम्भवेन तत्रैव सामान्यविशेषौ भवत इत्याह द्रव्यबुद्ध्या हीति, सदनित्यमिति, द्रव्यगुणकर्मणां सदाकारप्रत्ययव्यपदेशविषयत्वं ध्वंसप्रतियोगित्वं प्रागभावप्रतियोगित्वं समवायिकारणत्वं सामान्यविशेषवत्त्वं चाविशिष्टो धर्मः साधर्म्यमित्यर्थ इति सूत्रार्थः, एवं तर्हि द्रव्यगुणकर्मणामभेदः प्राप्त इत्याशङ्कायामारम्भानारम्भलक्षणविशेषमाहेत्याभिप्रायेणाह एवं तहीति, द्रव्याणीति द्रव्यं स्वसजातीयद्रव्यारम्भकमित्यर्थः, गुणाश्चेति गुणाः खसजातीयगुणारम्भका इत्यर्थः, 30 कर्मेति,कर्मसाध्ये कर्मणि प्रमाणं नास्तीत्यर्थः। संयोगविभागेष्विति, संयोगविभागेषु स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षं कर्मेत्यर्थः, इत्येवं लक्षणभेदेनापि तेषां भेदः, तथा विरोधाविरोधभेदात् यथा द्रव्यं न खकारणं कार्य वा हन्ति, गुणाश्च कार्यवध्याः यथाऽऽद्यशब्दादयः कारणवध्याश्च यथाऽन्त्यशब्दादयः, उपान्त्येन शब्देनान्त्यस्य नाशात्, कर्म तु खकार्येणोत्तरसंयोगेन हन्यत इत्येवमादयो नानात्वसाधकास्ते सामान्याभावे विशेषाभावादनर्थका इत्याह द्रव्यगुणकर्मनानात्वेति,
द्वा० न०५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org.