________________
५२
द्वादशारनयचक्रम्
[विध्यरे क्षव्यभिचारात् मृगतृष्णिकादिष्विवेति, अत्रोच्यते तथासति प्रत्यक्षस्याप्रमाणीकरणं प्रमाणज्येष्ठस्य, ___माऽवमंस्थाः मृगतृष्णिकादिप्रत्यक्षज्ञानव्यभिचारात् सर्व प्रत्यक्षं व्यभिचरतीति, किं तर्हि ? अनुपहतेन्द्रियमनःप्रत्यक्षं यत्तन्न व्यभिचरतीति गृह्यताम् , तथा च प्रत्यक्षेण लोके
घटादिर्यथा व्यवस्थितस्तथा गृह्यत एव स्वस्थेन्द्रियमानसैस्तत्रार्थे पुनर्वचनमिदमेवं नैवं वेति । प्रत्यक्षप्रसिद्धर्बाधकमापद्यते यदि तद्वचनं प्रमाणं स्यात् , न पुनस्तत्प्रमाणं तया प्रसिद्ध्या
स्वयमेव बाध्यमानत्वात् । अनुवादादिभावाभावे यः सिद्धे सत्यारम्भो नियमार्थः स इति परिभाषाया लोके दृष्टत्वात् । नैवं यथेदं लोकेन गृह्यत इति, किन्तु तथा तथा भवतीति वचनम् ।
(माऽवमंस्था इति) यथा येन प्रकारेण येन स्वरूपेण, प्रसिद्धार्थं वचनं नियमादनुवा10 दाद्वाऽन्यत्र प्रमाणं स्यादित्यतो ज्ञापकमाह-अनुवादादिभावाभावे यः सिद्धे सत्यारम्भो नियमार्थः स इति परिभाषाया लोके दृष्टत्वात् । लोकव्यवहारानुवादिव्याकरणादिशास्त्रमपि लोक एवेति कृत्वा, कीदृक् पुनस्तद्वचनमित्यत आह-नैवं यथेदं लोकेन गृह्यत इति, इतिशब्दः प्रदर्शने, इदं तद्वचनं प्रसिद्धर्बाधकाभिमतमिति प्रदर्यते, कथं नेति प्रतिषेधः ? येन प्रकारेण यथा, यथा मृत्पिण्डदण्ड
चक्रसूत्रोदककुलालपरिस्पंदनिवृत्तो घटः पृथुबुध्नादिस्वरूप उदकाद्याहरणसमर्थ इति लोकेन चक्षुरादि16 भिडते नायमेवं स्वभावः । किं तर्हि ? यथाऽहं ब्रुवे-सर्व, सर्वात्मकत्वात्, पटकटरथादिरूपोऽपि
गुणकर्मसामान्यविशेषसमवायाश्रयः परमाण्वाद्यस्मदत्यन्तपरोक्षपार्थिवद्रव्यारब्धस्तद्व्यतिरिक्तोऽवयवी रथाङ्गादिवबुद्ध्या विभज्यमानो विभज्यमानो न परमाणुषु न रूपादिषु न बुद्धिमात्रे वा तिष्ठति निरुपाख्यत्वादिति वा तथा तथा भवतीति शास्त्रविद्वचनं मा भूदनर्थकमिति प्रसिद्धर्बाधकमापद्यत इति न्याय्यमुच्यते, यथोक्तम्-"प्रमाणानि प्रवर्तन्ते विषये सर्ववादिनाम् । संज्ञाभिप्रायभेदात्तु विवदन्ते 20 तपखिन" इति । तस्मादप्रमाणं प्रत्यक्षविरुद्धत्वाच्छास्त्रकारवचनम् । .
शास्त्रकारवचनप्रामाण्ये वा प्रत्यक्षाप्रामाण्यम् , तत्र सर्वविपर्ययापत्तिस्तर्कतः, तद्यथा अलोमा हरिणश्चतुष्पात्त्वे सत्युत्प्लुत्य गमनात् , मण्डूकवत् , मण्डूकोऽपि लोमशस्तस्मादेव हेतोहरिणवत् । यूका पक्षिणी पदवत्त्वात् , भ्रमरवत् , भ्रमरोऽपक्षः पदवत्त्वात् यूकावत् , तथा पृथिव्यवसुधा, पदार्थत्वादाकाशवदित्यसाधारणधर्मसम्बन्धेनापि, रूपरसगन्धस्पर्शधर्म
25 धादिग्राहकविधयाऽपेक्षणीयत्वेनासजातविरोधित्वेन शीघ्रप्रतिपत्तिजनकत्वेन च प्रमाणेषु ज्येष्ठत्वात्तस्याप्रमाणीकरण न
न्याय्यमित्याशयेनोत्तरयति तथा सतीति । भ्रमादिविलक्षणत्वेनानिश्चितस्य प्रत्यक्षस्य न्यूनबलतया विषयव्यभिचारेऽपि तद्विलक्षणतया निश्चितं प्रत्यक्षं न विषयं व्यभिचरति, तथाविधेन प्रत्यक्षेण दृष्ट कारणकार्यत्वेन जगतो ग्रहणात्तत्रार्थेऽदृष्टकारणोपदेशपरं शास्त्रं प्रत्यक्षप्रसिद्धिबाधितमेवेत्याशयेनाह-अनुपहतेति । अनुवादादीति, प्रत्यक्षप्रसिद्धेऽप्यर्थे शास्त्रकृद्वचनारम्भस्यानुवादादित्वासम्भवे नियमार्थत्वं व्याकरणे परिभाषितं तथैव प्रत्यक्षसिद्धेऽपि दृष्ट कारणकार्यभावे पुनर्नवमिति शास्त्रारम्भो 30 नियमरूपेण बाधको भवतीति मत्वा शास्त्रारम्भोऽपि न सम्यक्, प्रमाणज्येष्ठेन प्रत्यक्षेण बाध्यमानत्वादित्यभिप्राय इति प्रतिभाति । तत्रेति, प्रत्यक्षेऽप्रामाण्ये सतीत्यर्थः, सर्वेषां पदार्थानां प्रत्यक्षतः परिदृश्यमानस्वरूपाणां विपरीतखरूपताऽनुमानतआपादयितुं शक्यत इति भावः । तदेव विपर्ययस्वरूपत्वमनुमिनोति-अलोमेत्यादिना, चतुष्पात्त्वे सत्युत्त्य गमनादित्यादयो हेतवः साधारणधर्मरूपाः । असाधारणधर्म हेतुकृत्य वैपरीत्यमाह-तथेति, तत एव-पदार्थत्वादेव, तद्वत्-आकाशवदिति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org