SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ शास्त्रवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् ५३ सम्बन्धिनी न भवति तत एव तद्वत् , तथा बौद्धमतेऽपि पृथिवी न भूः, महाभूतत्वाद्रूपवत्त्वाच्च जलवत् , न कर्कशधारणधर्मा तत एव तद्वत् , एवं शेषपदार्थभेदेष्वपि । - (शास्त्रेति) शास्त्रकारवचनप्रामाण्ये वा प्रत्यक्षाप्रामाण्यम् , एवं सति को दोषः ? तत्र प्रत्यक्षाप्रमाणीकरणे सर्वविपर्ययापत्तिस्तर्कतः सर्वभावानां प्रत्यक्षप्रमाणसिद्धानां विपर्यय आपादयितुं शक्यते । एवं शेषपदार्थभेदेष्वपीति, जलानलानिलेषु व्योमनीन्द्रियादिष्वात्मादिषु यथाप्रक्रियं यथा- 5 सम्भवञ्च स्वरूपनिराकरणम् , असाधारणधर्मनिराकरणे च पदार्थत्वमहाभूतत्वरूपवत्त्वादिहेतुकानि साधनानि योज्यानि । महदहङ्कारतन्मात्रेन्द्रियशब्दादिष्वात्मनि च द्रव्यगुणकर्मसामान्यविशेषसमवायेषु सप्रभेदेषु नामरूपयोः संज्ञाविज्ञानवेदनासंस्कारेषु क्षित्युदकज्वलनपवनेषु चक्षुरादिषु रूपादिषु च दृष्टान्तभेदात् ते ते धर्मा निराकार्याः । 10 दृष्टान्तभेदादिति, भूमेराकाशदृष्टान्तवदाकाशस्य भूम्यादिदृष्टान्तेन तथा जलादेरपि पर. स्परतस्ते ते धर्मा निराकार्या इतरमितरस्य दृष्टान्तं कृत्वेति । तार्किक आह शास्त्रनिरूपणविपरीतमप्रमाणं न हरिणस्वरूपादि, निरपवादत्वात् , न, सर्वस्यैवापोदितत्वात् , देशकालकृतविशेषकान्तिनः प्रतिप्रदेशं प्रतिसमयश्च सर्व विशिष्टमेव न 15 समानं किञ्चिदतो यावदणुशो रूपादिशो विज्ञानमात्रशो निरुपाख्यत्वशश्च भेदात्कुतो हरिणः कुतस्तस्य लोमाद्यवतिष्ठते ? शास्त्रनिरूपणविपरीतमप्रमाणमित्यादि, शास्त्रेण निरूपणं शास्त्रे निरूपणं वा शास्त्रनिरूपणं सन्दिग्धविपर्यस्ताव्युत्पन्नबुद्ध्यनुग्रहार्थं, किं निरूपयन्ति शास्त्रेण वस्तु अनुग्राह्येभ्यः शिष्येभ्यः ? प्रकृतिपुरुषावेव क्षणभङ्गो विज्ञानमात्रमेव द्रव्यगुणादि वेति, शास्त्रस्यापवादत्वाच्छास्त्रेणापोदिताद्वि- 20 परीते वस्तुन्यनुमानं प्रमाणं शास्त्रस्य संदेहाद्यपवादत्वात् , न हरिणादिस्वभावाद्यप्रमाणं तत्र शास्त्रस्य मोह एव व्यापार इति तन्निरपवादं हरिणस्वरूपादि, तस्य निरपवादत्वात् , तत्तु लोकेन यथा गृहीतं नैयायिकादिमतेनोक्तम् , महदहङ्कारेति, सांख्याभिप्रायेण, द्रव्यगुणेति वैशेषिकाभिप्रायेण, नामरूपयोरिति वेदान्त्यभिप्रायेण, नामरूपे व्याकरवाणीति श्रुतेरविद्यया नामरूपव्याकरणमभीष्टं तेषां न तु वास्तवमिति। संज्ञाविज्ञानेति बौद्धाभिप्रायेण, क्षित्यदकेति लोकायतमताश्रयेणोक्तमिति। यस्य निरूपणं शास्त्रेण कृतं तद्विपरीतावेदकमेव प्रत्यक्षादि न प्रमाणम् , हरिणखरूपादि 25 तु शास्त्रेण न निरूपितमिति तत्र प्रत्यक्ष एवं प्रमाणं निरपवादत्वादित्याशङ्कते-शास्त्रनिरूपणेति । शास्त्रेण सर्वमेवापोदितमिति प्रतिपादयति-सर्वस्यैवेति । प्रथमं विशेषैकान्तवादिबौद्धभेदाश्रयेणाह-देशकालेति । सन्दिग्धेति, चतुष्प्रकारः पुरुषः, अज्ञः सन्दिग्धो विपर्यस्तो निश्चितमतिश्च, तत्र निश्चितमतयः शास्त्रकाराः तत्तच्छास्त्रेणाज्ञस्य ज्ञानमुपजनयंति, संशयानस्य संशयमुपनन्ति, विपर्यस्यतो विपर्यासं व्युदस्यन्तीति। तत्र सांख्याः प्रकृतिपुरुषावेव तत्त्वमिति, बौद्धाः क्षणभङ्ग इति, विज्ञानवादिनो विज्ञानमात्रमेवेति वैशेषिकादयो द्रव्यगुणादि वेति निरूपयन्ति, शास्त्रस्य प्रबलप्रमाणत्वेन तत्प्रतिपादितप्रकारव्यतिरेकेणैव प्रत्य- 30 क्षानुमानयोः प्रवृत्तिरित्याह-शास्त्रस्येति, हरिणादिवरूपे तु न शास्त्रस्य प्रवृत्तिः किन्तु प्रत्यक्षादेरेव, यत्र प्रत्यक्षादिप्रमाण. प्रतिपन्नेऽपि वस्तुनि मोहादितः संशयादि समुत्पद्यते तत्रापि शास्त्रं मोहमुदस्यदुपकरोतीस्याह न हरिणादीति, शास्त्रे Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy