________________
५४
द्वादशारनयचक्रम्
[ विष् तथैव । आदिप्रहणान्मण्डूकस्वरूपादि तत्प्रमाणमेव निरपवादस्वादमेरिवौष्ण्यमित्यत्रोच्यते, न सर्वस्यैवापोदितत्वाम्, यथा हि शास्त्रं घटादिवस्तुपरपरिकल्पनापवादप्रवृत्तं तथा हरिणादिस्वरूपं प्रत्यक्षत लोकप्रसिद्धमप्यपवदति, निरङ्कुशत्वात्, तत्कथमिति चेत् ? देशकालकृतविशेषैकान्लिन इत्यादि । अथवा शास्त्रनिरूपणविपरीतमप्रमाणं निरपवादत्वादिति शास्त्रनिरूपणं पृथिवीत्वात्वादि प्रकृतिD पुरुषादि वा तस्य वा विपरीतं तर्कतः प्रतिपाद्यमानमप्रमाणं प्रत्यक्षतर्कयोर विषयार्थत्वाच्छाखम नापोद्यते शास्त्रम्, न केनापि, हरिणस्वरूपादि विपरीतमप्रमाणमिति वर्त्तते, कस्य ? प्रत्यक्षप्रसिद्धेः । कस्मात् ? सापवादत्वात्, तद्धि हरिणालोमत्वादि प्रत्यक्षप्रसिद्धेन लोमशत्वादिना निराक्रियमाणत्वादप्रमाणमेवेति, लौकिक आह- सर्वस्यैवापोदितत्वादिति, शास्त्रेष्वपि हि हरिणस्वरूपादि प्रत्यक्षसिद्धमपद्यत एव, कथं ? निरपवादत्वाच्छास्त्राणाम्, वरं हरिणादिस्वरूपविपरीत प्रतिपादनं तर्कतस्त10 न्मात्रापवादत्वात्, तार्किकैस्तु शास्त्रेण सर्वमपोद्यते प्रत्यक्षतो लोकप्रसिद्धं कारणं कार्यन, तत्कथमिति चेत् ? देशकालकृतविशेषैकान्तिनः - देशकृतः कालकृतश्च विशेषो देशकालकृतविशेषः, स एवैकान्तः, सोऽस्यास्त्यसौ देशकालकृतविशेषैकान्ती तस्य वादिनः प्रतिप्रदेशं प्रतिसमयञ्च सर्व विशिष्टमेव न समानं किञ्चिदतो यावदणुशो रूपादिशो विज्ञानमात्रशो निरुपाख्यत्वशश्च भेदात् कुतो हरिणः कुतस्तस्य लोमाद्यवतिष्ठते, अतः सर्वमपोदितम्, किं वा नापोदितं किं वात्र प्रत्यक्षमनुमानश्चेति ।
15
तथा सर्वसर्वात्मकान् मण्डूकोऽपि लोमश एव, स्थावरस्य जङ्गमताङ्गतस्य, स्थावरस्य स्थावरतां, जङ्गमस्य स्थावरसां जङ्गमस्य जङ्गमतां गतस्येति वचनात् ।
(तथेति ) ननु तेन वादिना सर्वं समर्थितं नापोदितमिति चेत् सर्वस्य सर्वात्मकत्वे सर्वैक्यात् किं तत्सर्वमित्यपोदितमेव, भिन्नार्थसमूहवाचित्वात् सर्वशब्दस्य ।
अर्थानर्थविषयसामान्यविशेषनानात्वैकान्तेऽतदात्मकत्वात् कुतोऽण्डहरिणमण्डूककार20 कार्यधरणिसंयोगगुणोत्प्लवनकर्मभवन व्यावृत्तितथासमवायाः, सर्वथा तत्त्ववृत्तिव्यतीतत्वात् खपुष्पवत्, अन्यथा बालकुमारवत् ।
(अति) अर्थानर्थविषय सामान्यविशेषनानात्वैकान्ते - अर्थविषयं सामान्यमर्थविषयश्च विशेष, तद्यथा - द्रव्यस्य पृथिव्यादेरर्थविषयं सामान्यं रूपरसगन्धस्पर्शवती पृथिवी यत्रैतञ्चातुर्गुण्यं सा पूथिवी, रूपरसस्पर्शद्र वस्नेहवत्य आपः, एवं यत्र रूपस्पर्शी तत्तेजः, यत्र स्पर्श एव स वायुरिति 25 सामान्यं, विशेषः पुनरितरेतरधर्मव्यावृत्तिभिरितरत्र चतुःपश्चयेकगुणत्वं यथासंख्यम्, तेषामेवानर्थ
सर्वमेष प्रमाणसिद्धमध्यपनुदति प्रबलत्वादित्याशयेनोत्तरयति न सर्वस्यैवेति । अत्र कल्पे शास्त्रस्यापवादरूपतया बलवत्वमङ्गीकृत्य विचारः कृतः, अथवेति कल्पे शास्त्रं निरपवादं तर्कः सापवाद इति मत्त्वा प्रत्यक्षादिविरुद्धं निरूप्यमाणं तर्केणाप्रमाणमतो हरिणालोमत्वादि तर्केण प्रतिपाद्यते चेत्तदापि तत्प्रत्यक्षादिविरुद्धमेवेत्युच्यते, अत्रोत्तरञ्च तथैव शास्त्रेण सर्वमेवापोदितमिति प्रत्यक्षादिविरुद्धत्वादप्रमाणमेवेति विभावनीयम् । अर्थविषयं सामान्यमिति, द्रव्यगुणकर्माणि वैशेषिकशास्त्र अर्थशब्देनो30 च्यन्ते नेतरे सामान्यविशेषसमवायाः, पृथिवीद्रव्यमात्रे रूपादिचतुर्गुणसद्भावात् पृथिवीमात्रस्य रूपादिचातुर्गुण्यमर्थरूपं साम न्यमुच्यते, तदेव चातुर्गुण्यं जलादिव्यावर्तनादर्थलक्षणो विशेषः, एवं जलादावपि भाव्यम्, अनर्थसामान्यन्तु पृथिवीत्वं निखि लवृत्तित्वात्सामान्यं जलादिव्यावर्त्तनाद्विशेष इति भावः । एतेषां द्रव्यादीनां षण्णां परस्परमत्यन्तभेवे सम्बन्धासम्भवेनात्तदा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org