________________
शास्त्रवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् सामान्यं पृथिवीत्वं तत्सम्बन्धलभ्यत्वात् पृथिवीबुद्ध्यभिधानयोः, एवमप्तेजोवायुत्वानि सामान्यानि, विशेषा इतरेतरेभ्यस्त एव स्वसामान्यभेदा विशेषाः, एतानि द्रव्याणि गुणाः कर्म सामान्यानि विशेषातत्समवायलक्षणश्च सम्बन्ध इत्येते पदार्थाः, तेषां नानात्वं स्वतत्त्वं प्रयोजनलक्षणाभिधानभेदादिति ये वदन्ति तेषां तन्नानात्वैकान्तेऽतदात्मकत्वात् कुतोऽण्डहरिणमण्डूककारणकार्यधरणिसंयोगगुणोप्लवनकर्मभवनव्यावृत्तितथासमवायाः, अण्डग्रहणेन हरिणमण्डूकसमवायिकारणद्रव्यग्रहणं परमतेन । हरिणमण्डूकग्रहणेन च सम्बद्धाणुव्यणुकाद्यारम्भनिर्वृत्तावयविद्रव्यं कार्यं गृह्यते, तस्य हरिणमण्डूकादिद्रव्यस्य धरण्यां संयोगो गुणः, उत्प्लवनं कर्म भवनं भावः सत्ता व्यावृत्तिरपि भवनविलक्षणो विशेषः तेषां तथा समवायः सम्बन्ध इति षडप्येते पदार्था वक्ष्यमाणखपुष्पदृष्टान्तान्न सन्ति, का तर्हि भावना? नास्ति परपरिकल्पितं द्रव्यं गुणकर्मसामान्यविशेषानात्मकत्वात् खपुष्पवत्, असामान्यविशेषानात्मकत्वात् खपुष्पवत् । न पृथिवी पृथिवीतिव्यपदेश्या पृथिवीत्वादत्यन्तमन्यत्वाजलवत्, पृथिवीत्वं 10 न पृथिवीत्वव्यपदेश्यं पृथिव्या अत्यन्तमन्यत्वात् , जलत्ववत्, न सन्ति गुणकर्मसामान्यविशेषसमवायाः, अद्रव्यात्मकत्वात् खपुष्पवत् , एवमेकैकमपीतरानात्मकत्वात् खपुष्पवन्नास्ति, इतरस्वरूपवद्वा न स्वात्मस्वरूपमिति शेषपदार्थदृष्टान्तभेदादायोज्यमिति । द्रव्यश्च भव्य इति वचनात् भवतीति भव्यं द्रव्यं भवनं च भावः भवनादन्यत्वाद्रव्यादयो न सन्त्येव वन्ध्यापुत्रवत्, भवनमपि द्रव्यादन्यत्वानास्त्येव वन्ध्यापुत्रवत्, न भवति वा द्रव्यं भवनस्वरूपानापत्तेः वन्ध्यापुत्रवत् , एवं भवनमपि द्रव्य-15 स्वरूपानापत्तेस्तद्वत् , एवं गुणादयोऽपि व्यावृत्तिः समवायश्चेति, अथवा क्रियागुणव्यपदेशाभावादसदेव कार्यमिति ज्ञायत इति तन्नोपपद्यते निर्मूलत्वात् खपुष्पवत् , एवमगुणत्वाद्गुणादन्यदसामान्यत्वात् सामान्यादन्यदविशेषत्वाद्विशेषादन्यदकारणत्वात् कारणादन्यदकार्यत्वात् कार्यादन्यन्नास्ति, एतेभ्यो हेतुभ्यः कुतोऽण्डहरिणमण्डूककारणकार्यधरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तितथासमवायाः, न सन्तीत्यर्थः। तदुपसंहृत्योच्यते सर्वथा तत्त्ववृत्तिव्यतीतत्वात् , तस्य भावस्तत्त्वं, तत्त्वस्य 20 वृत्तिस्तत्तत्त्वेन तत्स्वरूपान्यस्वरूपेण च वृत्तिर्यथा द्रव्यमेव वर्तते तथा तथा रूपरसादिगुणाः स्थितिगत्यादिक्रियाः भवनव्यावृत्तिसम्बन्धिन्यः, एकपुरुषपितृपुत्रत्वादिधर्मसम्बन्धिवदिति तां वृत्तिं सर्वथा व्यतीतत्वात् , द्रव्यगुणादिषट्पदार्थानां सबिकल्पानामसत्त्वं खपुष्पवदित्यन्ते दृष्टान्त उपदिष्टः
त्मकत्वाद्गुणवत्त्वादिद्रव्यलक्षणासम्भवेन गगनकुसुमसमतैवेत्याशयेनाहासदात्मकत्वादिति, यो हि खस्मिन् तत्त्वस्य वृत्ति नाभ्युपैति स कथं वस्तुखरूपतामुपागच्छेत् , वृत्तिश्च कथञ्चिदमेदात्मा न तु सर्वथा भेदलक्षणा, अतोऽतदात्मकत्वादेते ज्यादयो 25 न सन्स्येव, तत्तदृत्तावपि तद्रूपतानापत्तेरिति । अण्डग्रहणेनेति, हरिणमण्डूकादीनां समवायिकारणीभूतं यद्व्यं तदह्यते न्यायमतेन, अवयवग्रहणमिति भावः, हरिणमण्डकग्रहणेन चेति, परमाणुव्यणुकाद्यवयवद्रव्यारब्धस्यावयविनो ग्रहण. मित्यर्थः । क्रियागुणेति, कार्योत्पत्तेः प्राक् कार्य घटपटाद्यसत् , तत्कालीनस्वजनकाभावप्रतियोगीत्यर्थः, प्रागभावप्रतियोगी तदानीं घठ इत्यर्थः, तत्र हेतुः क्रियागुणव्यपदेशाभावादिति, तदानीं कियावत्त्वेन गुणवत्त्वेन घटादेरुत्पनघटादेरिव व्यपदेशाभावादित्यर्थः, अत्यन्तासतः खपुष्पादेरिव कारणव्यापाराजनयितुमशक्यत्वेन नेदं वर्णनं सम्यगित्याह-निर्मूलत्वादिति, 30 असन्तासत्त्वादित्यर्थः। तथा च द्रव्यादिपदार्थषट्वस्य गगनकुसुमायमानतया कुतोऽण्डहरिणमण्डूकादय इति भावः । द्रव्यगुणादिषट्पदार्थानां वस्तुतस्वरहितत्वेन गगनकुसुमवदसत्त्वमाह-सर्वथेति, वस्तुनस्तत्त्वं हि भवनव्यावृत्तिसम्बन्धित्वं त. पेण तदन्यरूपेण च वृत्तित्वमेतच द्रव्यगुणादीनामविशिष्टं तव्यतीततायास्तेषामगीकारादसत्त्वमेवेति भावः। यदसन भवति
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org