________________
५६
द्वादशारनयचक्रम्
[विध्यरे सर्वत्र द्रष्टव्यस्तथा च योजितः । अन्यथेति, वैध\ण बालकुमारवत् , यदस्ति तत्तदतत्स्वरूपतत्त्ववृत्तिव्यतीतं न भवति यथा बाल एव कुमारः कुमार एव च बालोऽन्यौ च ताववस्थाभेदात् , बालत्वमूलं कुमारत्वं कुमारत्वान्यच्च बालत्वमिति तदतत्त्वरूपा तत्त्ववृत्तिः, तां व्यतीत्य न स बालः कुमारो वेति स च संस्तत्त्ववृत्तिव्यतीतो न भवतीति । 5 हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्रतिज्ञत्वादेवातथात्वमिति चेन्न, उक्तवत्तुल्यत्वात् ।
(हरिणादीति) चेदित्याशङ्कायाम् , स्यादाशङ्का हरिणस्वरूपं लोमशत्वं तस्य वितथोक्तिरलोमा हरिण इति, तस्यां वितथोक्तौ प्रसिद्धिविरुद्धा प्रतिज्ञा यस्य सः प्रसिद्धिविरुद्धप्रतिज्ञः, तद्भावः प्रसिद्धिविरुद्धप्रतिज्ञत्वं तस्मादेवातथात्वमिति, अत्रोच्यते नोक्तवत्तुल्यत्वादिति, नेति प्रतिषेधे, नैतदुपप10 द्यते, किंवत् ? उक्तवत् , उक्तेन तुल्यमुक्तवत् , यथोक्तं शास्त्रनिरूपणविपरीतमप्रमाणं निरपवादत्वादिति तेनैतदपि तुल्यं हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्रतिज्ञत्वादेवातथात्वमिति. अत्रापि उत्तरस्यापि तुल्यत्वात्, कथमिति चेत् ? न सर्वस्यैवापोदितत्वादित्यादि सर्वं तदेव यावत्खपुष्पवदन्यथा बालकुमारवदिति ।
किञ्च15_ लोकस्य चाप्रामाणीकृतत्वात्तथा कुतः प्रसिद्धिविरोधः कथं वा तत्प्रसिद्धिः । एवं वचनेऽभ्युपगमविरोधात् ।
(लोकस्येति) ननु भवतामेकान्तवादिना लोकमप्रमाणीकृत्य लोकप्रसिद्धिविरुद्धप्रतिज्ञत्वदोषापादनमभ्युगमविरोधाय कल्पते, तस्मादयुक्तमेवं वक्तमिति ।
__ स्यान्मतं प्रतिज्ञादोषद्वारेण स्वरूपादिविपरीतप्रतिपादनाप्रामाण्यं न शक्यते वक्तुं मदभ्युपेतवि20 रोधात् , हेतुदोषद्वारेण तु शक्नोमीत्यत आह
लोमशालोमैक्ये सपक्षासपक्षावृत्तिवृत्त्योरतर्क इति चेन्न दृष्टान्तस्य प्रत्यक्षप्रसिद्धिविषयत्वादसिद्धेलॊकस्याप्रमाणीकृतत्वात् कुतस्तर्कातर्कत्वविचारः। न तत्सर्वथा तत्त्ववृत्तिव्यतीतं बालकुमारवदिति व्यतिरेकदृष्टान्तं संघटयति वैधयेणेति योऽसौ वालः स एव कुमार
इत्यवस्थावतोऽभेदः बालत्वकुमारत्वे अवस्थे तदतद्रूपे ते चाविरोधेन तत्र वर्तेत इति तत्त्ववृत्तिव्यतीतो न भवति बालकुमारः 25 सत्त्वादिति भावः । अलोमा हरिण इत्यनुमानस्य प्रसिद्धिविरुद्धप्रतिज्ञत्वं शङ्कते स्यादाशङ्केति, अतथात्वमिति, हरिणस्य नालोमत्वमित्यर्थः । भवतामियमाशङ्का शास्त्रनिरूपणविपरीतेत्यादिपूवाशङ्का सदृशीति तत्रोक्तोत्तरमेवात्रापि मन्यतामित्याह उक्तवदिति अनुमाननिरूपितार्थविपरीतप्रतिपादकप्रत्यक्षस्याप्रमाणत्वं शास्त्रेण च सर्वस्यैव निराकृतत्वात्, सर्वथा तत्त्ववृत्तिव्यतीतत्वात् कुतो हरिणादि तल्लोमादि वा येन प्रत्यक्षप्रसिद्धिर्वाधिका भवेदिति भावः। अभ्युपगमविरोधायेति, लोकोऽ
प्रमाणमित्यभ्युपगमः हरिणादेर्लोमशत्वं लोके प्रसिद्धमतो निर्लोमा हरिण इति प्रतिज्ञा लोकविरुद्धेति प्रतिपादनं निजाभ्युपगमे30 नैव विरुद्धमिति भावः । प्रतिज्ञाया हरिणखरूपविपरीतसाधिकाया निर्लोमा हरिण इत्येवंरूपायाः प्रतिज्ञाविरोधिदोषापादनद्वारेण
करणासम्भवेऽपि तत्साधकहेतोर्विरोधादिदोषप्रतिपादनेन निराकरणं कत्तुं शक्यत इत्यभिप्रायेण वादी प्राह स्यान्मतमिति । सपक्षासपक्षावृत्तिवृत्त्योरिति, सपक्षेऽवृत्तेरसपक्षे वृत्तेश्चेति, सपक्षासपक्षयोवृत्तेरिति, सपक्षासपक्षयोरवृत्तेरिति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org