________________
लोकविरोधे दोषदानम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
(लोमशेति) लोमशालोमैक्ये सपक्षासपक्षावृत्तिवृत्त्योरतर्फ इति चेत्, चतुष्पात्त्वे सत्युप्लुत्य गमनाद्धरिणो निर्लोमा लोमशो मण्डूक इत्युभयोरुभयधर्मापत्तौ लोमशालोनोरक्ये सत्ययं हेतुर्धर्मपरिकल्पनकृताद्भेदाद्धरिणोऽलोमत्वे साध्ये सपक्षे निर्लोमन्यवृत्तेरसपक्षे च लोमशे वृत्तेविरुद्धो हेतुश्चतुःपात्त्वे सत्युत्प्लुत्य गमनादित्यापद्यते, सपक्षासपक्षवृत्तित्वात्साधारणानैकान्तिको वा, लोमशालोमैक्ये पक्षाभेदाद्धर्माभेदे च सपक्षासपक्षाभावादसाधारणानैकान्तिको वा तस्मादेषोऽतर्कः, अतर्कत्वाचास्य । हरिणादिस्वरूपविपरीतप्रतिपादनमप्रमाणम् , चेदित्याशङ्कायां, एवञ्चेन्मन्यसे तन्न, दृष्टान्तस्य प्रत्यक्षप्रसिद्धिविषयत्वात् , दृष्टान्तो हि लोके प्रत्यक्षप्रमाणप्रसिद्धो घटपटादिरर्थः, तद्विषयश्च साध्यसाधनसमन्वयव्यतिरेकविभावनम् , सर्वानुमानस्य सर्वावयवानाञ्च तद्वलेन साध्यसिद्धौ सामर्थ्यसिद्धेः । यथोक्तम् "दृष्टान्तबलाद्ध्यवयवसिद्धिस्तदाश्रयत्वात् सर्वावयवानां तेन दृष्टान्तस्वतत्त्वमवध्रियते प्रत्यक्षत्वाच्च तस्य तद्वस्तुप्रतिपत्तेरशेषं तत्सिद्धान्तदर्शनमवभोत्स्यते प्रत्यक्षमाहे च सिद्ध्यति परोक्षग्राहः 10 सिद्ध्येत्तदसिद्धौ संभावनाभाव एवे"ति । ततस्तस्य दृष्टान्तस्यासिद्धिलॊकस्याप्रमाणीकृतत्वात् , प्रत्यक्षस्य च दृष्टान्तस्याभावे कुतो दार्टान्तिकसाध्यसाधनसमन्वयव्यतिरेका इति प्रत्यक्षनिराकरणे तर्कासिद्धिरेव । कुतस्तर्कातर्कत्वविचार इति, तदवस्थो हरिणादिस्वरूपविपरीतापत्तिदोषः ।
किश्चान्यत्
इहैव भवान् यं दोषमापादयति स तव, अप्रमाणीकृतत्वाल्लोकस्य, सपक्षासपक्षवृत्त्य-15 वृत्त्योरसत्त्वापत्तेः।
इहैवेत्यादि यावदसत्त्वापत्तेरिति, तथा च हरिणादिस्वरूपनिराकरणे भवान् यं यं दोषमापादयति स स तवैव, अत्र च वीप्सार्थो द्रष्टव्यः, तव-तवैवैकान्तवादिनः, एवकारोऽवधारणे, यथाऽस्मिन् साधने मम दोषो नास्ति तवैवेति, त्वदभ्युपगमानुरूप्येणोपपादितम् । तथा नात्रैव, किं तर्हि ? सर्वत्रान्यत्रापि पक्षहेतुदृष्टान्तेषु दोषस्तवैव न ममेत्यर्थः, अप्रमाणीकृतत्वाल्लोकस्य प्रत्यक्षस्य चेति 20 वर्त्तते, कारणान्तरोपन्यासोऽप्येषोऽभिधीयते सपक्षासपक्षवृत्त्यवृत्त्योरसत्त्वापत्तेः यदिष्टं भवतामन्वयव्यतिरेकाभ्यामर्थानुमानं तौ च सपक्षासपक्षयोवृत्त्यवृत्ती तद्बलेन साध्यसिद्धिस्तयोरेव वाऽसत्त्वमापद्यते, ततस्तयोः सपक्षासपक्षवृत्त्यवृत्त्योर्यथासंख्यमसत्त्वापत्तेस्तवैवाविशेषैकान्तवादिनस्तदुभयानेकत्वैकान्तवादिनो वेति हेतूदेशमात्रमेतत् । विवक्षितत्वात् विरोधसाधारणासाधारणानैकान्तिकदोषत्रयलाभः । सपक्षे निर्लोमनि घटादौ हेतोरवृत्तेरसपक्षे सलोमनि 25 मण्डूकादौ वृत्तर्विरुद्धो हेतुः, कथं विपक्षो मण्डूकादिः निर्लोमत्वादित्यत्रोक्तमुभयोरुभयधर्मापत्ताविति, धर्मपरिकल्पनकृतभेदखीकारे सपक्षे मण्डूकादौ विपक्षे सलोमनि शृगालादौ वृत्तर्व्यभिचारो हेतोरित्याह-सपक्षासपक्षेति, लोमशालोमोरक्येन धर्मयोभैदानङ्गीकारे सपक्षविपक्षयोरभावेन पक्षमात्रवृत्तित्वाद्धेतोरसाधारणानैकान्तिकत्वमित्याह-पक्षाभेदादिति, दृष्टान्तस्य प्रत्यक्षत्वात्तद्बलेन हेत्वाद्यवयवानां साध्यसाधनसामर्थ्यात् प्रत्यक्षाप्रामाण्ये दृष्टान्तासिया तर्कस्य सदसद्विचारो न भवितुमर्हतीत्याशयेन निराकरोति दृष्टान्तस्येति । यं दोषमापादयति स तवेत्यत्र वीप्सार्थो विवक्षित इत्याह- 30 अत्र चेति । इहैवेत्यत्रस्थैवकारस्य भिन्नक्रमत्वादाह तव तवैवेति । हरिणादिखरूपनिराकरणायोपन्यस्ते अन्यत्र वा हेतौ ये ये दोषा भवतोद्भाव्यन्ते ते ते दोषाः तवैव स्युन मम ।भवता लोकस्य प्रत्यक्षस्य चाप्रमाणीकरणात्, व्याप्त्यसिद्धेश्व, भ्याप्तिर्हि . अन्वयव्यतिरेकाभ्याम् , अन्वयश्च सपक्षवृत्तिता व्यतिरेकश्चासपक्षावृत्तिता, एतयोः सामान्यवादिनो विशेषवादिनो वा भवतोsसत्त्वं स्मादित्याशयेनाह-यथास्मिन्नित्यादि । सामान्यैकान्तवादे सपक्षासपक्षवृत्त्यवृत्त्योरसत्त्वमाह-तत्र तावदिति । तत्रा:
द्वा० न०८
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org