________________
द्वादशारनयचक्रम्
[विध्यरे तदिदानी प्रत्येकं विधीयते
तत्र तावदविशेषकान्ते कुतोऽन्यपक्षोऽसपक्षो व्यावृत्तिर्वा, अन्यस्याभावादविशेषात् , तद्वत्समानस्याभावात् ।
(तत्रेति) अविशेषः सामान्यमविशेष एवेत्येकान्तः सर्वं सर्वात्मकमिति, तस्मिन्नविशेषकान्ते 5 तव ग्राहे कुतोऽन्यपक्षः, अन्यस्य पक्षोऽन्यपक्षः, प्रतिवादिनोऽन्यस्याऽभावात् , तत्रापि चान्येनाविशेषात् सर्वसर्वात्मकत्वाविशेषात् । अथवाऽन्यस्य वचनस्याभावात् , त्वद्वचनात्मकत्वादेव सर्ववचनानाम् , त्वदन्यवचनत्वविशेषाभावादेव वा, अथवा किं नः परवादिवचनयोरभावाद्युपगमनिष्टरवचनाभ्याम् , अन्यश्चासौ पक्षश्चेत्यन्यपक्षोऽर्थोऽस्तु, न, कुतः ? त्वत्पक्षात्सर्वैकात्मत्वादर्थादविशेषैकान्तात् । एवं नित्यः शब्दोऽकृतकत्वादिति वादिनोऽनित्यशब्दपक्षवक्तृवचनवाच्यानामभावः तद्वत्तदनि10 त्यधर्मसामान्येन समानस्य घटादेरभावान्नित्यैकान्तवादिनोऽसपक्षाभावस्तदभावाद्यावृत्त्यभावः । वाशब्दात कुतस्तत्पक्षः सपक्षः तद्वृत्तिा, सर्वसर्वात्मकत्वाभेदादेव ।
स्यान्मतम्
माविर्भावतिरोभावयोरभूत्वा भावाद्भूत्वा चाभावादनित्यत्वकृतकत्वे स्त एवेति चेन्न तत्त्व एव तथाभिव्यक्तः। 10 (आविर्भावेति) आविर्भावतिरोभावयोरभूत्वा भावाद्धृत्वा चाभावादनित्यत्वकृतकत्वे स्त
एवाविशेषवादिनोऽपीयेतच्चायुक्तम् , कुतः १ तत्त्व एव तथाऽभिव्यक्तः, तत्त्वमेकत्वं तस्मिंस्तत्त्व एव तथा तेन प्रकारेण तथाऽभिव्यक्तेः, किमुक्तं भवति ? मृद एवाभिन्नाया अन्तर्सनाविर्भावतिरोभावमात्रत्वादङ्गुलिवक्रप्रगुणावस्थयोरिवावस्थाविशेषाभिव्यक्तेः किमन्या मृत्स्ना मृत्पिण्डशिवकघटाद्यवस्थासु,
तस्मात्तत्त्व एव तथाऽभिव्यक्तेः कुतोऽन्यपक्षोऽसपक्षो व्यावृत्तिस्तत्पक्षः सपक्षस्तत्सत्त्वश्चेति साधू20 च्यते तवैवाविशेषकान्तवादिनः सपक्षासपक्षवृत्त्यवृत्त्योहरिणादिस्वरूपविपरीतापादनसाधनेष्वेवासस्वापत्तिरिति ।
सपक्षावृत्तित्वं न सम्भवतीति प्रथयति कुतोऽन्यपक्ष इति, अन्यस्य प्रतिवादिनः यः पक्षस्सोऽन्यपक्षः, सर्वसर्वात्मकैकत्वेनान्यस्य कस्याप्यभावात्कुतोऽन्यपक्षलक्षणोऽसपक्षः, कुतो वा त्वद्वचनान्यस्य प्रतिवादिपक्षद्योतकवचनस्य सम्भवः । तदभावादेव च कुतः तलावृत्तिलक्षणासपक्षासत्त्वमिति, इदश्च वादिनोऽन्यस्य यः पक्षः-तद्वचनवाच्यः सोऽसपक्ष इति मत्वा । तत्र 26 प्रतिवादिनस्तद्वचनस्य चाभावात्कुतस्तद्वाच्यतालक्षणासपक्षसम्भव इति भावः । त्वत्पक्षादन्यस्य पक्षस्याप्यभावः, त्वत्पक्षात्
सर्वसर्वात्मकादर्थात् परस्य विशेषस्यैकान्तेनाभावादित्याह-अन्यश्चासाविति । दृष्टान्तेन पूर्वोदितमेव प्रदर्शयति-एवमिति, भन्यस्येतिपक्षीयार्थद्वये निदर्शनमिदम्, समानस्येति, अनित्यत्वधर्मेण समानस्य घटादेरित्यर्थः, इदमन्यश्चासावितिपक्षे निदर्शनम् । मूले वा शब्देनाभिप्रेतं सपक्षवृत्तित्वासम्भवं प्रकटयति-वाशब्दादिति । ननु धर्मिणो नित्यत्वेऽपि धर्मा
णामाविर्भावतिरोभावाभ्युपगमेनानित्यत्वकृतकत्वयोः सत्त्वादसपक्षावृत्तित्वं सम्भवतीत्याशंकते-आविर्भावेति, अभूत्वा भाव30 लक्षणाविर्भावः कृतकत्वं भूत्वा चाभावलक्षणतिरोभावोऽनित्यत्वमिति योज्यम् । मृदेवाभेदेन मृत्पिण्डशिवकादिलक्षणाविर्भा
बतिरोभावभावं भजते नतु मृदादिधर्मिव्यतिरेकेण मृत्पिण्डशिवकादयो धर्मा अवस्थारूपा इति कुतो भेदेन कृतकत्वानित्यस्वसम्भव इत्याह-तत्त्व एवेति । तथा च तव न क्वचिदपि साधने सपक्षासपक्षवृत्त्यवृत्त्योः सिद्धिरिति भावः । अथ विशे
__Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org