________________
तत्पक्षाचनुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम्
तथा
विशेषकान्ते कुतस्तत्पक्षः सपक्षस्तत्सत्त्वं वा, देशतः परमाणुशो रूपादिशो विज्ञानमात्रशोऽनुपाख्यत्वशश्च भेदात् , कालतोऽत्यन्तपरमनिरुद्धक्षणादूर्खमनवस्थानाच्च कुतस्तत्पक्षः, धर्मधर्मिणोर्विशेषणविशेष्ययोश्चासम्भवात् कुतः सपक्षः, ? सत्त्वं वा तत्र तदभावात् , तथाऽस्थितेः।
(विशेषकान्त इति) अत्रापि तस्य पक्षो वक्तुर्वचनस्य वा स एव वा पक्ष इत्यर्थः, एवञ्चानित्यः शब्द इति धर्मधर्मिणोविशेषणविशेष्ययोश्चासम्भवात् कुतः सपक्षोऽर्थान्तरसम्बद्धसामान्याभावात् , साध्याभावसामान्याभ्युपगमे सपक्षासपक्षाविशेषप्रसङ्गात् कुतः सत्त्वम् ? तत्र तदभावात्कृतकत्वादिसविकल्पधर्मान्तराभावात् परस्परविलक्षणनिर्व्यापारधर्ममात्रत्वात् सर्वधर्माणां निरुपाख्यत्वशून्यत्वपरमार्थत्वाच्च प्रतिवादिपक्षव्यावृत्त्यभावः, वाशब्दात् पूर्ववच्च, उपसंहृत्य तदर्थावबोधनो 10 हेतुरुच्यते 'तथाऽस्थितेः' तेन प्रकारेण तथा, क्षणिकनिर्व्यापारशून्यत्वप्रकारेणास्थितेः कस्यचिदर्थस्येति विशेषैकान्तेऽपि सर्वत्र सपक्षवृत्त्याद्यसत्त्वापत्तिरित्थमिति ।
तथातदुभयानेकत्वैकान्ते नोभयमिति साध्यसाधनधर्मधर्मिण एव कुतः? तथाऽपूर्वत्वात् ।
(तदुभयेति) सामान्यविशेषौ तदुभयमनेकं-भिन्नं परस्परत इत्येतस्मिन्नप्येकान्ते साध्यसाधन- 15 धर्मधर्मिण एव कुतः ? साध्यस्य तावदनित्यत्वस्याभावो धर्ममात्रस्य निर्मूलत्वात् , खपुष्पवत् , तथा साधनस्यापि कृतकत्वस्य, कृतमित्यनुकम्पितं कुत्सितमज्ञातं वा कृतकं, निर्मूलत्वं पुनर्द्रव्यादत्यन्तभिमत्वादिति धर्मयोरभावः, धर्मिणोरपि शब्दघटयोरगुणाकर्मत्वादिभ्यो हेतुभ्यः पूर्वोक्तवदभाव एव, तत्सङ्ग्रहहेतुरप्युच्यते-तथाऽपूर्वत्वात् , अपूर्वत्वममूलत्वं द्रव्यगुणादीनां परस्परतोऽत्यन्तमन्यत्वात् , एवं तावत्सपक्षासपक्षवृत्त्यवृत्तिविपरीतत्वात्तवैवातर्कत्वदोषो दृष्टान्तबलात्तर्कसिद्धरित्यविशेषविशेषोभ-20 यानेकत्वैकान्तवादेषूक्ता दोषाः ।
किश्चान्यत्
दृष्टान्तस्य प्रत्यक्षत्वाद् दृष्टान्ताभ्युपगमात् प्रत्यक्षप्रमाणीकरणमापन्नं तस्माच्च लोकत्वं दृष्टान्तसंवादित्वप्रतिपादनार्थत्वाच्छास्त्रार्थस्य, ततश्च प्रतिज्ञातव्याघातः। पैकान्तवादे तयोरसिद्धिमाह विशेषकान्त इति । तत्पक्ष इति, तस्य पक्षस्तत्पक्ष इति तत्पुरुषसमासः तत्पदेन वक्ता वचनं 25 वा गृह्यते, स चासी पक्षश्चेति कर्मधारयो वा । एवति , नानावयवरूपदेशवृत्त्येकस्य देशिनोऽवय विनो विरुद्धधर्माध्यासेनाभावात् परमाणुरेव, सोऽपि न नानाकालवृत्तिः, तद्वाहकप्रमाणाभावात् , वर्तमानस्यैव प्रत्यक्षादिना ग्रहणात् किन्तु क्षणिक एव, तत्रापि स रूपमेव तश्यतिरिक्तरूपिणोऽनुपलम्भात् , तथापि तज्ज्ञानाकारमेव ग्राह्यग्राहकभावानुपपत्तेः, विज्ञानमपि नास्ति विषयाभावे तदसम्भवादतः शून्यमेवेत्येवं विशेषकान्तवादिसिद्धान्ते चेत्यर्थः क्षणमात्रस्थायिनो न धर्मधर्मिभावो विशेषणविशेध्यभावो वा सम्भवति, अनेकक्षणसाध्यत्वात्तस्य, त्वन्मते चानेकक्षणवृत्ति न किश्चिद्वास्तविकमस्ति, भतः कुतस्तादृशधर्मसाध्य-30 तस्पक्षादय इति भावः । विशेष्यविशेषणभावाद्यनुपपत्तिः कथमित्यत्राह-तथाऽस्थितेरिति, अर्थानां क्षणिकत्वादिरूपेण विशेष्यविशेषणभावादिसम्भवकालं यावत् स्थित्यभावादिति भावः। क्षणिकनिर्व्यापारशून्यत्वेति बौद्धमतत्रयाभिप्रायेण । न्यायमतेनानुपपत्तिमाह-तदुभयेति । धर्ममात्रस्येति, धर्म्यनात्मकधर्मस्येत्यर्थः । निगमयति-एवं तावदिति । वादत्रयेऽप्युकदोषादित्यर्थः । दृष्टान्तस्येति, दृष्टान्तः प्रत्यक्षविषयोऽर्थः, स्मृतिविषयस्य प्रत्यक्षतः पुनरुपदर्शनात , पूर्वानुभूतं अर्थ स्मरति
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org