________________
६०
[ विध्यरे
(दृष्टान्तस्येति ) दृष्टान्तस्य प्रत्यक्षत्वादनुमानत्वाद्धेतोरुपनयस्योपमानत्वादागमत्वात् प्रतिज्ञाया दृष्टान्ताभ्युपगमात् प्रत्यक्षप्रमाणीकरणमापन्नं तस्माच्च लोकत्वं दृष्टान्तसंवादित्वप्रतिपादनार्थत्वाच्छास्त्रार्थस्य, तार्किकाणां तर्कैरुपतिष्ठतां व्याख्यार्थ, यथोक्तम् "लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः” इति ( गौतमसू० अ० १ आ. १ सू. २५) यथालोको दृष्टान्तस्तद्विरुद्धं 5 यदभिधीयते तद्दृष्टान्तविरुद्धमिति । ततः को दोष इति चेत् प्रतिज्ञातव्याघातः, किं प्रतिज्ञातं ? शास्त्रनिरूपणविपरीतमप्रमाणं न हरिणस्वरूपादि, निरपवादत्वादिति, तद्व्याहन्यते शास्त्रप्रमाणीकरणे, प्रत्यक्ष लाल्लोकस्य प्रवृत्तत्वात् ।
द्वादशारनयचक्रम्
शास्त्रत्वादेवा लोकत्वमिति चेन्न, लोकाश्रयत्वात्तेषां शास्त्राणाम् ।
(शास्त्रत्वादेवेति ) स्यान्मतं ननूक्तं "शास्त्रकाराः स्वदृष्टार्थप्रतिपादन कुशलाः बुद्धिसंवाद10 नाथं दृष्टान्तप्राणैस्तर्कैः शास्त्रार्थान् प्रतिपादयन्ति, न पुनः शास्त्रार्था लोकैः प्रत्यक्षीकर्तुं शक्यास्तत एव तदर्थवाचीनि शास्त्राण्यलोकः" इति, तच्च न, लोकाश्रयत्वात्तेषां शास्त्राणाम् ।
15
तानि हि शास्त्राणि सामान्यविशेषकारणकार्य मात्राणां सामान्यमात्रस्याग्नेः कारणमात्रस्य स्पर्शशौक्ल्यादेर्दृष्टस्य विशेषमात्रस्यार्चिष्षु नवनवोत्पादविनाशरूपस्य दृष्टस्य सर्वत्राध्यारोपेण प्रणीतानि ।
( तानीति ) तानि हि शास्त्राणि यस्मादर्थे हिशब्दः यस्मात्तानि सामान्य विशेषकारणकार्यमात्राणां सामान्यमात्रस्य यदमेः कारणमात्रस्य स्पर्शशौक्लषादेर्दृष्टस्य विशेषमात्रस्य चार्चिष्षु नवनवोत्पादविनाशरूपस्य दृष्टस्य सर्वत्राध्यारोपेण प्रणीतानि । क्षीरस्यैव स्नेहादिसामान्यस्य कारणाख्यस्य संस्थानमात्रं दृष्ट्वा दध्याद्यवस्थामन्तरेण तस्य सामान्यस्य स्थित्यभावमपश्यद्भिर्यथेदं संस्थानमात्रं न कार्य न विशेषस्तथाऽन्येऽपि घटपटादयोऽर्थास्ते गुणप्रधानसंस्थानमात्रमिति सर्वत्राध्यारोप्य तदर्थानि 20 शास्त्राणि प्रणीतानि कारणमेव सामान्यमेव सर्वत्रेत्येतस्यार्थस्य प्रतिपादनप्रसङ्गेन । तथाऽर्चिषां प्रतिक्षणोत्पत्तिविनाशपार्थक्यानि दृष्ट्वा रूपरसस्पर्शगन्धमूर्त्यादिसामान्यावस्थानमन्तरेण तदसम्भवमपश्यद्भिर्यथेदं विशेषमात्रं न सामान्यं न कारणं तथाऽन्येऽपि महीमहीघ्रसरित्समुद्रद्वीपगगनतारानक्षत्रगाय भावा इति सर्वत्राध्यारोप्य तदर्थानि शास्त्राणि तत्प्रतिपादनप्रसङ्गवचनरचनाविभङ्गतरङ्गापारतोयसमुद्रीभूतानि प्रणीतानि ।
25 स्मृतश्च विषयमुदाहरणत्वेनादत्ते, तेन पूर्वानुभवप्रसिद्धमनुविधीयमानं प्रत्यक्षसदृशत्वात् प्रत्यक्षमिति । हेतुः साध्यानुमिति - साधकतमत्वादनुमानम्, उपनय उपमानं तथेत्युपसंहारात् आगमाधिगतार्थस्य प्रतिपाद्यत्वात् प्रतिज्ञाऽऽगम इति बोध्यम् । लौकिकपरीक्षकाणामिति, लोकसाम्यमनतीता लौकिका नैसर्गिकं वैनयिकं वा बुद्ध्यतिशयमप्राप्ताः, तद्विपरीताः परीक्षकाः, तर्केण प्रमाणैरर्थं परीक्षितुमर्हन्ति, अप्राप्तशास्त्रपरिशीलनादिजन्यबुद्धिप्रकर्षो लौकिकः, परीक्षकः शास्त्रपरिशीलनप्राप्तबुद्धिप्रकर्षः, यथा यमर्थं लौकिका बुध्यन्ते तथा परीक्षका अपि सोऽर्थो दृष्टान्तः । एतादृशं दृष्टान्तमभ्युपेत्य तद्विरुद्धाभिधानं 30 दृष्टान्तविरुद्धमुच्यते तथा च प्रतिज्ञाहानिः स्यात्, शास्त्रनिरूपणविपरीतमप्रमाणमिति हि प्रतिज्ञा निरपवादत्वादिति हेतु:, तथा च शास्त्रं प्रमाणीकृतं तच्च लोकविरुद्धमभिदधातीति दृष्टान्तविरोध इति भावः । बुद्धिसंवादनार्थमिति, प्रयोज्य'प्रयोजकभावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वे साध्यव्यावृत्ति पूर्वकसाधनधर्मव्यावृत्तत्वे वा तुल्यरूपा बुद्धिर्बुद्धिसंवादनम् । तच्च दृष्टान्तमूलतर्कानुगृहीतं ततोऽलौकिकधर्मप्रतिपत्तेस्तथा चादृष्टार्थ प्रतिपादकत्वाच्छास्त्रस्य न लोकत्वमिति भावः । स्पर्शशौक्यादेष्ठस्येति, सामान्यवादिशास्त्राणि हि स्पर्शशुक्लादिविशेषाणां कारणभूतमेकं सामान्यं दृष्ट्वा तदेव मुख्यं स्थिर
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org