________________
'10
प्रतिशायनुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम्
अन्यत्र दृष्टस्याध्यारोपाद्धटतत्त्ववदलौकिकत्वमिति चेन्न तथा व्यामोहस्य मृगतृष्णिकावदलौकिकत्वात् , मृगतृष्णिकावदेव तस्याप्रामाण्यप्रसंगात् ।
(अन्यत्रेति) स्यान्मतं लौकिकमितीन्द्रियग्राह्यमुच्यते घटरूपादिवत् यदन घटे घटतत्त्वं विकुक्ष्याद्याकारविशेषस्तदन्यत्र घटान्तरेऽध्यारोप्यते, तच्च नास्त्यध्यारोपादेव, लोकसंवादात्तु प्रतिपादनार्थोऽध्यारोपः, एवं शास्त्राणामप्यध्यारोपादेवालौकिकत्वमिति नास्ति प्रतिज्ञातव्याघातदोषो यं भवान् । मन्यते लोकत्वापत्तेरिति, अत्र ब्रूमः न, तथा व्यामोहस्य मृगतृष्णिकावदलौकिकत्वात् , तेन प्रकारेण तथा, तथा-सत्यं भवति तदलौकिकमविशुद्धत्वान्मृगतृष्णिकादिज्ञानवत् , विशुद्धलोकस्य न पुनः सम्पद्यते, मृगतृष्णिकावदेव तस्य च व्यामोहस्याप्रामाण्यप्रसङ्गात् , ऊपरप्रदेशे ग्रीष्मोष्मसन्तप्तचक्षुषो रविकिरणाः पतिताः प्रत्युत्पतन्तो दूराव्यामोहहेतवस्तोयवदाभासन्ते तस्माच्छास्त्रविज्ञानस्य मृगतृष्णिकाविज्ञानवदप्रामाण्यप्रसङ्गादसमञ्जसोद्बाहम् ।
किश्चान्यत्तथा च तत्र प्रतिज्ञादीनामप्यनुपपत्तिः यदि यथा लोकेन गृह्यते न तथा वस्तु ।
(तथाचेति) न केवलं शास्त्रविज्ञानाप्रामाण्यमेव, किं तर्हि ? तेन प्रकारेण तथा, तथा च एवं कृत्वा तत्र सति तस्मिन्नलौकिके मृगतृष्णिकावत् प्रतिज्ञादीनामप्यवयवानामनुपपत्तिः, कथं ? यदि यथा लोकेन गृह्यते न तथा वस्तु, यदीति पराभ्युपगमं दर्शयति यथा प्रतिपादनकौशलेन प्रतिपादनबु- 15 द्धिसंवादमात्रत्वेन दृष्टान्तमुपादाय यथाहं युक्त्योपपादयामि शास्त्रेण च तथा तद्वस्तु, न तु यथा लोकेन गृह्यते तथेति भवतोऽभिप्रायः ।
तत्र प्रतिज्ञा तावद्यथोक्ता गृह्यमाणाऽविशेषादेन तथा स्यात् । ततश्चांशे प्रत्यक्षविरोधः स्ववचनविरोधोऽभ्युपगमविरोधः, स्वोक्तविपर्ययरूपाभ्युपगमात् ।
(तत्रेति) अविशेषकान्तवादे तावत् सर्वस्य सर्वात्मकत्वान्नित्यः शब्द इति प्रतिज्ञा यथा 20 श्रोत्रेण गृह्यते न तथा भवितुमर्हति, किं कारणं ? नेत्रादिग्राह्यरूपाद्यात्मिकापि सेति कृत्वा, एवं विशे-- पैकान्तवादेऽप्यनित्यः शब्द इति प्रतिज्ञा अकारनिकारादिवर्णविज्ञानानां देशकालकृतात्यन्तनानात्वक्षत्वादिति मत्वा सर्वत्रापि सामान्यरूपतामध्यारोप्य सर्व सामान्यात्मकमिति व्यवस्थापयितुं प्रणीतानि, विशेषवादिशास्त्राण्यपि प्रदीपज्वालाया क्षणिकत्वमुद्वीक्ष्यान्यत्रापि तदारोप्य सर्व क्षणिकमिति प्रतिपादयितुमारचितानि, एवं संस्थानादिमात्रप्रतिपादकान्यपीति लोकाश्रयत्वं तेषामिति भावः। अन्यत्र दृष्टस्यान्यत्रारोपात् शास्त्रप्रवृत्तरारोपस्य च लौकिकागम्यत्वेनालौकिकत्वान्न 25 लोकाश्रयत्वं शास्त्रस्येत्याशङ्कते-अन्यत्रेति । अन्यत्र तद्धर्मस्याभावे किमर्थमारोप्यते इत्यत्राह-लोकसंवादादिति। शास्त्रजन्यं ज्ञानं मृगतृष्णिकाज्ञानवदारोपविषयत्वेन व्यामोहजनकत्वादलौकिकत्वेऽपि न तद्विशुद्धयुद्धेः सम्भवति, तथा घ मृगतृष्णिकाविज्ञानवदेव व्यामोहभूतं शास्त्रविज्ञानमपि न प्रमाणं भवेदित्याशयेनोत्तरयति अत्र ब्रूम इति । प्रतिज्ञादीनामिति, पक्षनिर्देशादीनामपि मृगतृष्णकावदसद्विषयत्वादिति भावः । लौकिकपरीक्षकबुद्धिसाम्याश्रयं दृष्टान्तमुपादायापि यथेदं लोकेन गृह्यते न तथा वस्त्विति लौकिकप्रतारणाकौशल्यं वादिन आविष्करोति यथा प्रतिपादनकौशलेनेति । 30 प्रतिज्ञादीनामनुपपत्तिं सामान्यविशेषोभयवादाश्रयेण दर्शयति तत्रेति । नेत्रादीति, शब्दस्य रूपाद्यात्मकत्वेन कथं श्रोत्र-:. ग्राह्यता ग्राह्यत्वे वा केवलं शब्दात्मनैव ग्रहणादविशेषानापत्तिरिति भावः। अनित्यः शब्द इति प्रतिज्ञा हि अकारोत्तरनकारोत्तरेकारोत्तरत्वादिरूपेण गृह्यते तन्न सम्भवति विशेषकान्तवादे परस्परापेक्षाभावेन समुदायभावानापत्तेरित्याहअनित्यः शब्द इतीति । उभयानेकत्वैकान्तवादे त्वकारादीनामेवानुपपत्तिः, अत्वाकारादीनां जातिव्यक्तीनां भेदाजाति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org