________________
द्वादशारनयचक्रम्
[विध्यरे णिकत्वशून्यत्वनिरुपाख्यत्वात् परस्परापेक्षाभावे सर्वभावाभावे च यथा गृह्यते न तथा स्यात् , एवमुभयानकत्वैकान्ते पूर्ववदन्यतरग्राह्यस्येतरपक्षनिरपेक्षस्याभावात् । ततश्चांशे प्रत्यक्षविरोधः, ततश्चेति तस्मादेव हेतोलोंके गृह्यमाणस्य विपरीतत्वादविशेषैकान्ते तावत् प्रत्यक्षविरोधः, अंशे भागे तस्यैव वस्तुनः, अविशेषैकान्तवादिपरिकल्पितस्य प्रत्यक्षोपलभ्यस्य विशेषत्वात् प्रत्यक्षविरोधः, अंशे स्ववचन5 विरोधस्तत्काले प्रतिपादकशब्दविशेषत्वेष्टेः, अंशेऽभ्युपगमविरोधः, स्वशास्त्रे सर्वत्र प्रसिद्धेन पूर्वकालाभ्युपगतेन सर्वात्मकत्वेनाधुनातनधर्मर्मिविशेषस्य विरोधात् , स्वोक्तविपर्ययरूपाभ्युपगमादित्यन्ते कारणमुक्तम् , प्रत्यक्षस्ववचनाभ्युपगमानामनभ्युपगमाविशेषात् । एवं विशेषकान्ते श्रोत्रेन्द्रियग्राह्यस्य शब्दस्य वावन्मात्रकालावस्थानपूर्वोत्तरवर्णसम्बन्धतद्बुद्ध्यवस्थानसोपाख्यत्वप्रत्यक्षत्वात् प्रत्यक्षविरोधः, तथैव
च तस्योपपत्तेः स्ववचनेनानित्यशब्दप्रतिज्ञा विरुद्ध्यते, अत एव चाभ्युपगमेन विरोधः, पूर्ववत्स एव 10 हेतुरत्रापि । तथोभयानेकत्वैकान्ते प्रागभिहितसाधनान्येवात्र व्यापार्याणि, अद्रव्यत्वान्नानित्यत्वं न वा
शब्दोऽस्तीत्यादिस्वरूपाभावः । 'अचाक्षुषप्रत्यक्षगुणस्य सतोऽपवर्गः कर्मभिः साधय सतो लिङ्गाभावात् कार्यत्वात् कारणतो विकारात्' (वैशे० अ. २, आ. २) इत्यादिशास्त्रविहितहेतुव्याख्यानार्थ तत्प्रतिपादनकाले तत्प्रयोगात् प्रत्यक्षीकरणाचानित्यत्वशब्दत्वाधभावात् प्रत्यक्षविरोधः, स्ववचनस्य तत्कालस्य तथावस्थानाभ्युपगमात् स्ववचनविरोधः, पूर्वाभ्युपगमेन चेदानींतनस्य विरोधादभ्युपगम15 विरोधः, पूर्ववत् स्वोक्तविपर्ययरूपाभ्युपगमादिति सर्वत्र हेतुरिति ।
अथ तथाऽभ्युपगम्यते न तर्हि लोकगृहीतमन्यथेत्यापन्नम् , लोकत्वाच्च प्रतिज्ञातव्याघातस्तदवस्था।
(अथेति) अथ तथा, अथैते दोषा मा भूवन वितथत्वाश्रया इति तथैवेत्यभ्युपगम्यते परैस्ततो न तर्हि लोकगृहीतमन्यथेत्यापन्नम् , लोकत्वाच्च प्रतिज्ञातव्याघातस्तदवस्थ इति । 20 किश्चित्तथा किश्चिदन्यथा, उन्मत्तप्रतिपत्तिवदिति चेदेवं तर्हि साक्षाल्लोकपक्षापत्त्याऽ.
भ्युपगमविरोधः, किञ्चिद्रहणात्तथाग्रहणादन्यथाग्रहणाच्च । व्यक्त्योश्च निर्मूलत्वेनाभावादित्याह-एवमभयेति । अंशे-भागे इति, वस्त्वेकदेशशब्दादावित्यर्थः, तस्य विशेषत्वात्तत्प्र. त्यक्षेण सर्वसर्वात्मकत्वविरोध इति भावः। स्ववचनं सर्वं सर्वात्मकमिति तेन सह नित्यः शब्द इति प्रयोगकाले नित्यत्वधर्मवत्तयाऽभिमतस्य विशेषत्वेन प्रतिपादनाद्विरोधः, एवमेवाभ्युपगमविरोधोऽपीत्याह-तत्काल इति । प्रत्यक्षेति, प्रत्यक्षखव25 बनाभ्युपगमानां प्रयोगकालेऽनभ्युपगमस्य दोषत्रयेऽप्यविशिष्टत्वादिति भावः । श्रोत्रेन्द्रियग्राह्यस्येति, अनित्यः शब्द इति श्रोत्रेन्द्रियग्राह्यप्रतिज्ञायामकारादिवर्णज्ञानानां तावत्कालावस्थानस्य पूर्वोत्तरवर्णसम्बन्धस्य तदुखवस्थानस्य सोपाख्यत्वस्य च प्रत्यक्षत्वात् क्षणिकत्वासम्बन्धशून्यत्वनिरुपाख्यत्ववर्णनस्य प्रत्यक्षविरुद्धत्वादिति भावः अत्रापीति, विशेषकान्तवादे दोषत्रयेऽपि खोक्तविपर्ययरूपाभ्युपगम एव हेतुरित्यर्थः । अचाक्षुषेति, चक्षुभिन्नबहिरिन्द्रियजन्यप्रत्यक्षविषयस्यात एव गुणस्य शब्दस्याऽऽशुनाशः कर्मभिः साधयेमानं न तावता कर्मत्वं तस्य, उच्चारणादूर्ध्वं तस्य सत्त्वे लिजाभावानित्यवैधात् कारणत उत्प30तेस्तीवमन्दादिभावेन विकारदर्शनाच्चारविनाशितेति प्रतिपादनार्थ तदाऽनित्यः शब्द इति प्रयोगात्. तावन्तं कालं तत्प्रत्यक्षीकरणाच, धर्मधर्मिणोरभावेन तत्प्रत्यक्षविरोध इति भावः । अथ तथेति, यदि यथा लोकेन गृह्यते वस्तु तत्तथैवेत्यभ्युपगमे शास्त्रनिरूपणविपरीतमप्रमाणमिति प्रतिज्ञातव्याघात एवेति भावः । तथा-लोकवत् , अन्यथा-शानिरूपणवत् । साक्षादिति, एवं सति लोकाभ्युपगमात् सर्वसर्वात्मकत्वाभ्युपगमो ब्याहन्यत इत्यर्थः, तत्कथमित्यत्राह-किश्चिदिति।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org