________________
पदसम्बन्धिदोषाः] न्यायागमानुसारिणीव्याख्यासमेतम्
(किञ्चिदिति) स्यान्मतं किञ्चिल्लोकेन गृहीतं तथैव भवति प्रतिज्ञादि, किश्चिदन्यथा घटादि, लोकस्यापरीक्षकत्वात् , परीक्षकाश्च पदवाक्यप्रमाणविदः, दृष्टान्त उन्मत्तप्रतिपत्तिः, यथोन्मत्तोऽपरीक्षकः पदवाक्यप्रमाणानभिज्ञः किञ्चित्तथा प्रतिपद्यते किञ्चिदन्यथा, तत्प्रतिपत्तिश्चाप्रमाणम्, सदसतोरविशेषाद्यदृच्छोपलब्धेश्च तद्वल्लोकप्रतिपत्तिरपीति, अत्रोच्यते, एवं तर्हि साक्षाल्लोकपक्षापत्त्याऽभ्युपगमविरोधः, साक्षादिति प्रत्यक्षत एव लोकपक्षापत्तिः, किञ्चिद्रहणात्तथाग्रहणादन्यथाग्रहणाच, किश्चि.6 त्त्वादेव न सर्व सर्वात्मकं सर्वासर्वत्वसिद्धिश्च विभागनिर्देशात् किञ्चिदिति । एवं तेन प्रकारेण तथेति स चान्यश्च तयोश्च कश्चिद्धर्मः प्रकारव्यपदेशभागेषितव्यः, तेषु त्रिष्वपि सिद्धेषु यस्मात्तथेति घटते । एवमन्यथेत्यपि, अयमन्यस्मादन्यः, अन्यश्चास्मादन्य इति सर्वासर्वत्वसिद्धेर्लोकपक्षापत्तिः । एवं विशेषैकान्ते देशकालकृतात्यन्तभेदनिरुपाख्यत्वशून्यत्वेषु किं तत् स्यात् किञ्चिदिति विभज्यान्यस्मादवस्थितादनपस्थितमसहाऽन्यदिति चोद्येत विलक्षणमिति, एवं तथाऽन्यथेति च न घटते । एवमुभयानकत्वैकान्ते 10 पूर्ववव्यादीनामितरेतरानात्मकत्वात् सामान्यविशेषयोः कार्यकारणयोर्वा निर्मूलत्वादिभ्यो वा हेतुभ्योऽसत्त्वाद्वस्तुनः किश्चित्तथाऽन्यथेत्यनुपपत्तेर्लोकपक्षापत्तिः, तया च सह सर्वसर्वात्मकत्वादिशामाभ्युपगमो विरुद्ध्यते । एवं तावत् प्रतिज्ञा दृष्टा, प्रतिज्ञावद्धतुदृष्टान्तावपि दृष्टावेव, तदसाध्यत्वात् ।
उन्मत्त इति च दृष्टान्तो लौकिकस्तमभ्युपगम्य लोकः प्रमाणीकृत एव, तन्निराचिकीपव एवोन्मत्ततराः।
15 _(उन्मत्तेति) उन्मत्त इति दृष्टान्तो लोकपक्षपाताहते न सिद्ध्यति, उत्कृष्टो माद उन्माद इति मदान्तरापेक्षो विमदत्वापेक्षो वा निर्देशः, स च लौकिक एव तमभ्युपगम्य-तस्माल्लोकाभ्युपगमाल्लोकः प्रमाणीकृत एव किञ्चिद किश्चित्तथाऽन्यथेत्यादिपरस्परविलक्षणः, तन्निराचिकीर्षव एवोन्मत्ततरा इति, एवं तावद्वाक्यविषयो दोषः।
इदानीमेकपदविषय उच्यतेभेदवदभेदपदार्थोपादानाच्च न तथेति पुनर्नवोऽभ्युपगमविरोधः।
(भेदवदिति) भेदवदभेदपदार्थोपादानाच न तथेति, भेदोऽस्यास्तीति भेदवान् , नास्य भेद इत्यभेदः, भेदवांश्चाभेदश्च स एवेति भेदवदभेदः, कोऽसौ ? पदार्थः, वृक्ष इत्यादिः, स्वार्थद्रव्यलिङ्ग विभागनिर्देशादिति, किश्चित्तथा किश्चिदन्यथेति विभागेन निर्देशादित्यर्थः । एवमिति, किञ्चित्तथा किश्चिदन्यथेत्यत्र किश्चिच्छन्दसायाशब्दोऽन्यथाशब्दश्च गृहीतः, तत्र किञ्चिद्रहणात्सर्वासर्वत्वसिद्धिः अयं तथा-यथा लोकेन गृह्यते, अत्रायं पदार्य: 25 लोकप्रायविषयीभूतपदार्थः, तथाशब्दगम्यः, उभयोः प्रकारः कश्चिद्धर्म इत्येवं वस्तुत्रयसिद्धौ तथेति वक्तुं शक्यते, सर्वसर्वात्मकैकत्वे तन्न स्यात् तथेत्यभ्युपगम्यते भवता, एवञ्च सर्वासर्वत्वसिद्धिरिति भानः। अन्यभाग्रहणमपि तथेत्याहैवमन्यथेत्यपीति । विशेषकान्तवादे वस्तुनां क्षणिकत्वादितः क्षणद्वयेऽसत्त्वेन विभज्येदं तथा, इदमन्ययेत्यवस्थितादन्यस्य क्षणिकत्वादिविधानासंभवः, एवमिदं तथा यथा लोकेन गृह्यते किञ्चित्तथा किञ्चिदन्यथेत्यपि न घटते इत्याशयेनाह-विशेषैकान्त इति । तथेत्यस्याभ्युपगमे तु लोकपक्षापत्तिः तयाच सह शास्त्राभ्युपगमविरोध इत्याह लोकपक्षापत्तिरिति । 30 मादस्योत्कृष्टता चान्यमदापेक्षया मदशून्यतापेक्षया वेत्याह-उत्कृष्ट इति । सर्वज्ञापेक्षया परीक्षकापेक्षया चोत्कृष्टमदवत्त्वालौकिक उन्मत्त एवेत्याह-स चेति । एवं प्रतिज्ञादिवाक्यापेक्षया ये दोषास्ते विचारिता इत्याह-एवं तावदिति । खार्थद्रव्यलिङ्ग संख्याकारकाधनेकात्मकैकस्य वृक्षादेर्वस्तुनो वृक्षादिपदवाच्यतामभ्युपेत्य पुनर्न तथेत्यभ्युपगमोऽपि पदविषये दोष इति पदविषयदोषाभिधानाय प्रतिजानीते इत्याशयं मूलकृत आविष्करोति, इदानी मिति । पदार्थ इति, पदवाच्यो भेदवदमेदोऽर्थ
20
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org