SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् [विध्यरे संख्याकर्मादिकारकरूपः । यदुक्तं क्रमयोगपद्यचिन्तायाम् "स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम्। समवेतस्य च वचने लिङ्गं संख्यां विभक्तिश्च ॥ अभिधाय तान् विशेषानपेक्षमाणस्तु कृत्स्नमात्मानम् । प्रियकुत्सनादिषु पुनः प्रवर्त्ततेऽसौ विभक्त्यन्तः॥" (महाभाष्ये अ० ५ पा० ३ सू. ७४) इति व्याकरणे सर्वतंत्रसिद्धान्ते । तत्र स्वार्थ इति जातिराकार उच्यते स्व एवार्थः स्वार्थ इति, । सोऽन्यापेक्षत्वादन्येन विना न स्यादतो द्रव्यादिसिद्धेर्मेदवान् पदार्थः, तेषामेव च स्वार्थादीनामन्योऽन्यानात्मकत्वे खपुष्पवदभावः स्यात्, देशकालाद्यभेदोपलब्धेश्चाभेदसिद्धेरभिन्नः पदार्थः, तस्माद्भेदवदभेदपदार्थ उपात्तः पदं प्रयुञ्जानेन शास्त्रविदा स्वार्थमात्रवादिनाऽपि, तथा द्रव्ये लिङ्गे संख्यायां कारके कुत्सादौ पदार्थ च योज्यम् , क्रमेण युगपद्वा वाच्यं तमभ्युपगम्याविशेषवादिनो विशेषवादिम उभयानेकत्ववादिनो वा न तथेति तमेव पुनर्बुवते, नवोऽभ्युपगमविरोधः, नव इति न शास्त्राभ्युप10 गमेन, किं तर्हि ? तत्कालाभ्युपगमेनेत्यर्थः । स च सर्वत्राभ्युपगमविरोध इति । __ अथ प्रतिज्ञैवाभ्युपगमस्ततो लोकाप्रामाण्यात्, न, अविशेषादिष्वसतः पक्षादेरुपादानाल्लोकाभ्युपगमाल्लोकाप्रामाण्यं न सिद्ध्यतीति । ... (अथेति) अथ प्रतिज्ञैवाभ्युपगम: स्यान्मतं न हि पदप्रयोगविषयोऽभ्युपगमोऽस्ति, पदार्था. भावात् , पदार्थस्योत्प्रेक्षाविषयत्वाद्वाक्यार्थाधिगमोपायत्वेनोपोद्धृत्य वाक्यार्थस्य व्याख्येयत्वात् । 15 वाक्यमेव शब्दः, तदर्थ एव च शब्दार्थः, तस्मात् प्रतिज्ञैवाभ्युपगमः, तत्साधनार्थत्वाच्छेषावयवव्यापारस्य । कस्मात् ? ततो लोकाप्रामाण्यात् , ततः-तस्याः प्रतिज्ञाया हेतुभूतायाः, तद्बलादित्यर्थः इत्यर्थः । स्वार्थमभिधायेत्यादि, खशब्दोऽत्रात्मीयवचनः, अर्थशब्दोऽभिधेयवचनः, खोऽर्थः खार्थः स चानेकप्रकारो जातिगुणक्रियासम्बन्धखरूपलक्षणः यथा गौः शुक्लः पाचकः राजपुरुषः डित्थ इति । तं खार्थमभिधाय तेन स्वार्थन समवेत सम्बद्धं द्रव्यमाह शब्दो निरपेक्ष इति, यथा द्रव्येऽभिधातव्ये खार्थोऽपेक्ष्यते न तथा स्वार्थेऽभिधातव्येऽर्थगतं निमित्तान्तरम20 पेक्ष्यते, द्रव्यमिति शब्देन चेदं तदिति परामर्शयोग्यं वस्त्वभिधीयते, तत्र जातिशब्दो यदा जातौ वर्तते तदारोपितस्वरूपां खरूपेणैकीकृतां जातिमाहेति तदा तेषां वरूपं स्वार्थः, जातिस्तु द्रव्यम् । यदा तु जातिविशिष्टं द्रव्यमाह तदा जातिः स्वार्थः। शुक्लादयो यदा गुणजातौ वर्तन्ते तदा तेषां स्वरूपं खार्थः जातिव्यम् । यदा तु गुणे वर्तन्ते तदा गुणसामान्यं स्वार्थः गुणो द्रव्यम् , यदा द्रव्ये वर्तते तदा गुणः स्वार्थः । समवेतस्य द्रव्यस्याभिधाने सति लिङ्गं वचनं विभक्तिं चाहेति सम्बन्धः । तान् विशेषानिति लिंगादीनामेव परामर्शः, लिङ्गं स्त्रीत्वादि, वचनं संख्या, विभक्तिः कारकं कर्मादि । कचिल्लिङ्गसंख्याकारकाण्येव 25 खार्थः, यथा स्त्री पुमान् नपुंसकम् , एको द्वौ बहवः, कर्म करणं सम्प्रदानमिति, प्रवृत्तिनिमित्तलिङ्गसंख्याव्यतिरिक्तलिङ्गसं। ख्याभिधानं यत्र यथा स नपुंसकोऽभवत्, गावो विंशतिरिति तत्रायमेव क्रमः । यत्र तु प्रवृत्तिनिमित्तव्यतिरिक्तलिङ्गसंख्याड सम्भवः स्त्री पुमानेको द्वौ बहव इति तत्र पुनर्लिङ्गसंख्ययोरभिधानाभावः, यद्यपि लोके पदादुच्चरिताद्युगपत् पञ्चार्थाः प्रतीयन्ते शब्दस्य विरम्य व्यापाराभावात् , तथाप्यन्वयव्यतिरेकाभ्यां शास्त्रे संव्यवहाराय कल्पिताभ्यां प्रातिपदिकस्याप्रयोगार्हस्य कल्पितामर्थवत्तां कल्पितन्यायवशात् क्रमवतीमाश्रित्येदमुच्यते, तथाहि नागृहीतविशेषणा विशेष्ये बुद्धिरिति न्यायात् पूर्व 30 खार्थाभिधानेन भाव्यम् , पश्चात्तद्विशिष्टस्य लिङ्गाद्याश्रयस्य द्रव्यस्याभिधानेन, ततो मेदापेक्षबहिरङ्गसंख्यापेक्षया लिङ्गमन्त रणमिति तदभिधीयते, ततः संख्या, सा हि विजातीयक्रियापेक्षसाधनापेक्षया तुल्यजातीयक्रियापेक्षाऽन्तरजा, संख्याभिधानानन्तरन्तु कारकाभिधानम् । एतान् विशेषानभिधाय स्वार्थादिपञ्चकवृत्तं कृत्स्नमात्मानमपेक्षमाणः शब्दः प्रियकुत्सनादिषु विभक्त्यन्तः पुनः प्रवर्तते, पुनःशब्दस्तुशब्दस्यार्थे वर्तते विभक्त्यन्तस्तु इत्यर्थः, तत्र कुत्सितशब्दप्रवृत्तिनिमित्तन्यतिरिकायां कुत्सितत्वस्य कुत्सायां कप्रत्ययः उपपन्नो भवति यथा प्रकृष्टतम इति प्रकृष्टस्य प्रकर्षे तमप्प्रत्ययस्तथा कुत्सितत्वं यदा कुत्स्यते नास्य सम्यक् कुत्सितत्वमिति तदा प्रत्यय इति भाष्यव्याख्यायाम् । ततो लोकाप्रामाण्यादिति । ननु पदविषयाभ्यु Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy